श्लोक 1-2
अथातो ग्रहणीदोषचिकित्सितं व्याख्यास्यामः||१||
इति ह स्माह भगवानात्रेयः||२||
श्लोक 3-4
आयुर्वर्णो बलं स्वास्थ्यमुत्साहोपचयौ प्रभा|
ओजस्तेजोऽग्नयः प्राणाश्चोक्ता देहाग्निहेतुकाः||३||
शान्तेऽग्नौ म्रियते, युक्ते चिरं जीवत्यनामयः|
रोगी स्याद्विकृते, मूलमग्निस्तस्मान्निरुच्यते||४||
श्लोक 5
यदन्नं देहधात्वोजोबलवर्णादिपोषकम्|
तत्राग्निर्हेतुराहारान्न ह्यपक्वाद्रसादयः||५||
श्लोक 6-8
अन्नमादानकर्मा तु प्राणः कोष्ठं प्रकर्षति|
तद्द्रवैर्भिन्नसङ्घातं स्नेहेन मृदुतां गतम्||६||
समानेनावधूतोऽग्निरुदर्यः पवनोद्वहः|
काले भुक्तं समं सम्यक् पचत्यायुर्विवृद्धये||७||
एवं रसमलायान्नमाशयस्थमधः स्थितः|
पचत्यग्निर्यथा स्थाल्यामोदनायाम्बुतण्डुलम्||८||
श्लोक 9-11
अन्नस्य भुक्तमात्रस्य षड्रसस्य प्रपाकतः|
मधुराद्यात् कफो भावात् फेनभूत उदीर्यते||९||
परं तु पच्यमानस्य विदग्धस्याम्लभावतः|
आशयाच्च्यवमानस्य पित्तमच्छमुदीर्यते||१०||
पक्वाशयं तु प्राप्तस्य शोष्यमाणस्य वह्निना|
परिपिण्डितपक्वस्य वायुः स्यात् कटुभावतः||११||
श्लोक 12
अन्नमिष्टं ह्युपहितमिष्टैर्गन्धादिभिः पृथक्|
देहे प्रीणाति गन्धादीन् घ्राणादीनीन्द्रियाणि च||१२||
श्लोक 13
भौमाप्याग्नेयवायव्याः पञ्चोष्माणः सनाभसाः|
पञ्चाहारगुणान्स्वान्स्वान्पार्थिवादीन्पचन्ति हि||१३||
श्लोक 14
यथास्वं स्वं च पुष्णन्ति देहे द्रव्यगुणाः पृथक्|
पार्थिवाः पार्थिवानेव शेषाः शेषांश्च कृत्स्नशः||१४||
श्लोक 15
सप्तभिर्देहधातारो धातवो द्विविधं पुनः|
यथास्वमग्निभिः पाकं यान्ति किट्टप्रसादवत् ||१५||
श्लोक 16
रसाद्रक्तं ततो मांसं मांसान्मेदस्ततोऽस्थि च|
अस्थ्नो मज्जा ततः शुक्रं शुक्राद्गर्भः प्रसादजः||१६||
श्लोक 17
रसात् स्तन्यं ततो रक्तमसृजः कण्डराः सिराः|
मांसाद्वसा त्वचः षट् च मेदसः स्नायुसम्भवः ||१७||
श्लोक 18-20
किट्टमन्नस्य विण्मूत्रं, रसस्य तु कफोऽसृजः|
पित्तं, मांसस्य खमला, मलः स्वेदस्तु मेदसः||१८||
स्यात्किट्टं केशलोमास्थ्नो, मज्ज्ञः स्नेहोऽक्षिविट्त्वचाम्|
प्रसादकिट्टे धातूनां पाकादेवंविधर्च्छतः ||१९||
परस्परोपसंस्तब्धा धातुस्नेहपरम्परा |२०|
श्लोक 20-35
वृष्यादीनां प्रभावस्तु पुष्णाति बलमाशु हि||२०||
षड्भिः केचिदहोरात्रैरिच्छन्ति परिवर्तनम्|
सन्तत्या भोज्यधातूनां परिवृत्तिस्तु चक्रवत्||२१||
(इत्युक्तवन्तमाचार्यं शिष्यस्त्विदमचोदयत्|
रसाद्रक्तं विसदृशात् कथं देहेऽभिजायते||२२||
रसस्य च न रागोऽस्ति स कथं याति रक्तताम्|
द्रवाद्रक्तात्स्थिरं मांसं कथं तज्जायते नृणाम्||२३||
द्रवधातोः स्थिरान्मांसान्मेदसः सम्भवः कथम्|
श्लक्ष्णाभ्यां मांसमेदोभ्यां खरत्वं कथमस्थिषु||२४||
खरेष्वस्थिषु मज्जा च केन स्निग्धो मृदुस्तथा|
मज्ज्ञश्च परिणामेन यदि शुक्रं प्रवर्तते||२५||
सर्वदेहगतं शुक्रं प्रवदन्ति मनीषिणः|
तथाऽस्थिमध्यमज्ज्ञश्च शुक्रं भवति देहिनाम्||२६||
छिद्रं न दृश्यतेऽस्थ्नां च तन्निःसरति वा कथम्|
एवमुक्तस्तु शिष्येण गुरुः प्राहेदमुत्तरम्||२७||
तेजो रसानां सर्वेषां मनुजानां यदुच्यते|
पित्तोष्मणः स रागेण रसो रक्तत्वमृच्छति||२८||
वाय्वम्बुतेजसा रक्तमूष्मणा चाभिसंयुतम्|
स्थिरतां प्राप्य मांसं स्यात् स्वोष्मणा पक्वमेव तत् ||२९||
स्वतेजोऽम्बुगुणस्निग्धोद्रिक्तं मेदोऽभिजायते|
पृथिव्यग्न्यनिलादीनां सङ्घातः स्वोष्मणा कृतः||३०||
खरत्वं प्रकरोत्यस्य जायतेऽस्थि ततो नृणाम्|
करोति तत्र सौषिर्यमस्थ्नां मध्ये समीरणः||३१||
मेदसस्तानि पूर्यन्ते स्नेहो मज्जा ततः स्मृतः|
तस्मान्मज्ज्ञस्तु यः स्नेहः शुक्रं सञ्जायते ततः||३२||
वाय्वाकाशादिभिर्भावैः सौषिर्यं जायतेऽस्थिषु|
तेन स्रवति तच्छुक्रं नवात् कुम्भादिवोदकम्||३३||
स्रोतोभिः स्यन्दते देहात् समन्ताच्छुक्रवाहिभिः |
हर्षेणोदीरितं वेगात् सङ्कल्पाच्च मनोभवात्||३४||
विलीनं घृतवद्व्यायामोष्मणा स्थानविच्युतम्|
बस्तौ सम्भृत्य निर्याति स्थलान्निम्नादिवोदकम्)||३५||
श्लोक 36-38
व्यानेन रसधातुर्हि विक्षेपोचितकर्मणा|
युगपत् सर्वतोऽजस्रं देहे विक्षिप्यते सदा||३६||
क्षिप्यमाणः खवैगुण्याद्रसः सज्जति यत्र सः|
करोति विकृतिं तत्र खे वर्षमिव तोयदः||३७||
दोषाणामपि चैवं स्यादेकदेशप्रकोपणम् |३८|
श्लोक 38-41
इति भौतिकधात्वन्नपक्तॄणां कर्म भाषितम्||३८||
अन्नस्य पक्ता सर्वेषां पक्तॄणामधिपो मतः|
तन्मूलास्ते हि तद्वृद्धिक्षयवृद्धिक्षयात्मकाः||३९||
तस्मात्तं विधिवद्युक्तैरन्नपानेन्धनैर्हितैः|
पालयेत् प्रयतस्तस्य स्थितौ ह्ययुर्बलस्थितिः||४०||
यो हि भुङ्क्ते विधिं त्याक्त्वा ग्रहणीदोषजान् गदान्|
स लौल्याल्लभते शीघ्रं, वक्ष्यन्तेऽतः परं तु ते||४१||
श्लोक 42-44
अभोजनादजीर्णातिभोजनाद्विषमाशनात्|
असात्म्यगुरुशीतातिरूक्षसन्दुष्टभोजनात्||४२||
विरेकवमनस्नेहविभ्रमाद्व्याधिकर्षणात्|
देशकालर्तुवैषम्याद्वेगानां च विधारणात्||४३||
दुष्यत्यग्निः, स दुष्टोऽन्नं न तत् पचति लघ्वपि|
अपच्यमानं शुक्तत्वं यात्यन्नं विषरूपताम् ||४४||
श्लोक 45-49
तस्य लिङ्गमजीर्णस्य विष्टम्भः सदनं तथा|
शिरसो रुक् च मूर्च्छा च भ्रमः पृष्ठकटिग्रहः||४५||
जृम्भाऽङ्गमर्दस्तृष्णा च ज्वरश्छर्दिः प्रवाहणम्|
अरोचकोऽविपाकश्च, घोरमन्नविषं च तत्||४६||
संसृज्यमानं पित्तेन दाहं तृष्णां मुखामयान्|
जनयत्यम्लपित्तं च पित्तजांश्चापरान् गदान्||४७||
यक्ष्मपीनसमेहादीन् कफजान् कफसङ्गतम्|
करोति वातसंसृष्टं वातजांश्च गदान् बहून्||४८||
मूत्ररोगांश्च मूत्रस्थं कुक्षिरोगान् शकृद्गतम्|
रसादिभिश्च संसृष्टं कुर्याद्रोगान् रसादिजान्||४९||
श्लोक 50
विषमो धातुवैषम्यं करोति विषमं पचन्|
तीक्ष्णो मन्देन्धनो धातून् विशोषयति पावकः||५०||
श्लोक 51
युक्तं भुक्तवतो युक्तो धातुसाम्यं समं पचन्|५१|
श्लोक 51-54
दुर्बलो विदहत्यन्नं तद्यात्यूर्ध्वमधोऽपि वा||५१||
अधस्तु पक्वमामं वा प्रवृत्तं ग्रहणीगदः|
उच्यते सर्वमेवान्नं प्रायो ह्यस्य विदह्यते||५२||
अतिसृष्टं विबद्धं वा द्रवं तदुपदिश्यते|
तृष्णारोचकवैरस्यप्रसेकतमकान्वितः||५३||
शूनपादकरः सास्थिपर्वरुक् छर्दनं ज्वरः|
लोहामगन्धिस्तिक्ताम्ल उद्गारश्चास्य जायते||५४||
श्लोक 55
पूर्वरूपं तु तस्येदं तृष्णाऽऽलस्यं बलक्षयः|
विदाहोऽन्नस्य पाकश्च चिरात् कायस्य गौरवम्||५५||
श्लोक 56-57
अग्न्यधिष्ठानमन्नस्य ग्रहणाद्ग्रहणी मता|
नाभेरुपर्यह्यग्निबलेनोपष्टब्धोपबृंहिता ||५६||
अपक्वं धारत्यन्नं पक्वं सृजति पार्श्वतः|
दुर्बलाग्निबला दुष्टा त्वाममेव विमुञ्चति||५७||
श्लोक 58-72
वातात् पित्तात् कफाच्च स्यात्तद्रोगस्त्रिभ्य एव च|
हेतुं लिङ्गं रूपभेदाञ् शृणु तस्य पृथक् पृथक्||५८||
कटुतिक्तकषायातिरूक्षशीतलभोजनैः|
प्रमितानशनात्यध्ववेगनिग्रहमैथुनैः||५९||
करोति कुपितो मन्दमग्निं सञ्छाद्य मारुतः |
तस्यान्नं पच्यते दुःखं शुक्तपाकं खराङ्गता||६०||
कण्ठास्यशोषः क्षुत्तृष्णा तिमिरं कर्णयोः स्वनः|
पार्श्वोरुवङ्क्षणग्रीवारुजोऽभीक्ष्णं विसूचिका||६१||
हृत्पीडा कार्श्यदौर्बल्यं वैरस्यं परिकर्तिका|
गृद्धिः सर्वरसानां च मनसः सदनं तथा||६२||
जीर्णे जीर्यति चाध्मानं भुक्ते स्वास्थ्यमुपैति च|
स वातगुल्महृद्रोगप्लीहाशङ्की च मानवः||६३||
चिरादुःखं द्रवं शुष्कं तन्वामं शब्दफेनवत्|
पुनः पुनः सृजेद्वर्चः कासश्वासार्दितोऽनिलात्||६४||
कट्वजीर्णविदाह्यम्लक्षाराद्यैः पित्तमुल्बणम्|
अग्निमाप्लावयद्धन्ति जलं तप्तमिवानलम्||६५||
सोऽजीर्णं नीलपीताभं पीताभः सार्यते द्रवम्|
पूत्यम्लोद्गारहृत्कण्ठदाहारुचितृडर्दितः||६६||
गुर्वतिस्निग्धशीतादिभोजनादतिभोजनात्|
भुक्तमात्रस्य च स्वप्नाद्धन्त्यग्निं कुपितः कफः||६७||
तस्यान्नं पच्यते दुःखं हृल्लासच्छर्द्यरोचकाः|
आस्योपदेहमाधुर्यकासष्ठीवनपीनसाः||६८||
हृदयं मन्यते स्त्यानमुदरं स्तिमितं गुरु|
दुष्टो मधुर उद्गारः सदनं स्त्रीष्वहर्षणम्||६९||
भिन्नामश्लेष्मसंसृष्टगुरुवर्चःप्रवर्तनम्|
अकृशस्यापि दौर्बल्यमालस्यं च कफात्मके||७०||
यश्चाग्निः पूर्वमुद्दिष्टो रोगानीके चतुर्विधः|
तं चापि ग्रहणीदोषं समवर्जं प्रचक्ष्महे||७१||
पृथग्वातादिनिर्दिष्टहेतुलिङ्गसमागमे|
त्रिदोषं निर्दिशेत्तेषां भेषजं शृण्वतः परम्||७२||
श्लोक 73-81
ग्रहणीमाश्रितं दोषं विदग्धाहारमूर्च्छितम्|
सविष्टम्भप्रसेकार्तिविदाहारुचिगौरवैः||७३||
आमलिङ्गान्वितं दृष्ट्वा सुखोष्णेनाम्बुनोद्धरेत्|
फलानां वा कषायेण पिप्पलीसर्षपैस्तथा||७४||
लीनं पक्वाशयस्थं वाऽऽप्यामं स्राव्यं सदीपनैः|
शरीरानुगते सामे रसे लङ्घनपाचनम्||७५||
विशुद्धामाशयायास्मै पञ्चकोलादिभिः शृतम्|
दद्यात् पेयादि लघ्वन्नं पुनर्योगांश्च दीपनान्||७६||
ज्ञात्वा तु परिपक्वामं मारुतग्रहणीगदम्|
दीपनीययुतं सर्पिः पाययेताल्पशो भिषक्||७७||
किञ्चित्सन्धुक्षिते त्वग्नौ सक्तविण्मूत्रमारुतम्|
द्व्यहं त्र्यहं वा संस्नेह्य स्विन्नाभ्यक्तं निरूहयेत्||७८||
तत एरण्डतैलेन सर्पिषा तैल्वकेन वा|
सक्षारेणानिले शान्ते स्रस्तदोषं विरेचयेत्||७९||
शुद्धं रूक्षाशयं बद्धवर्चसं चानुवासयेत्|
दीपनीयाम्लवातघ्नसिद्धातैलेन मात्रया||८०||
निरूढं च विरिक्तं च सम्यक् चैवानुवासितम्|
लघ्वन्नं प्रतिसम्भुक्तं सर्पिरभ्यासयेत् पुनः||८१||
श्लोक 82-86
द्वे पञ्चमूले सरलं देवदारु सनागरम्|
पिप्पलीं पिप्पलीमूलं चित्रकं हस्तिपिप्पलीम्||८२||
शणबीजं यवान् कोलन् कुलत्थान् सुषवीं तथा |
पाचयेदारनालेन दध्ना सौवीरकेण वा||८३||
चतुर्भागावशेषेण पचेत्तेन घृताढकम्|
स्वर्जिकायावशूकाख्यौ क्षारौ दत्त्वा च युक्तितः||८४||
सैन्धवौद्भिदसामुद्रबिडानां रोमकस्य च|
ससौवर्चलपाक्यानां भागान्द्विपलिकान् पृथक्||८५||
विनीय चूर्णितान् तस्मात् पाययेत् प्रसृतं बुधः|
करोत्यग्निं बलं वर्णं वातघ्नं भुक्तपाचनम्||८६||
इति दशमूलाद्यं घृतम्|
श्लोक 87
त्र्यूषणत्रिफलाकल्के बिल्वमात्रे गुडात् पले|
सर्पिषोऽष्टपलं पक्त्वा मात्रां मन्दानलः पिबेत्||८७||
इति त्र्यूषणाद्यं घृतम्|
श्लोक 88-93
पञ्चमूलाभयाव्योषपिप्पलीमूलसैन्धवैः|
रास्नाक्षारद्वयाजाजीविडङ्गशटिभिर्घृतम्||८८||
शुक्तेन मातुलुङ्गस्य स्वरसेनार्द्रकस्य च|
शुष्कमूलककोलाम्बुचुक्रिकादाडिमस्य च||८९||
तक्रमस्तुसुरामण्डसौवीरकतुषोदकैः|
काञ्जिकेन च तत् पक्वमग्निदीप्तिकरं परम्||९०||
शूलगुल्मोदरश्वासकासानिलकफापहम्|
सबीजपूरकरसं सिद्धं वा पाययेद्घृतम्||९१||
सिद्धमभ्यञ्जनार्थं च तैलमेतैः प्रयोजयेत्|
एतेषामौषधानां वा पिबेच्चूर्णं सुखाम्बुना||९२||
वाते श्लेष्मावृते सामे कफे वा वायुनोद्धते|
दद्याच्चूर्णं पाचनार्थमग्निसन्दीपनं परम्||९३||
इति पञ्चमूलाद्यं घृतं चूर्णं च|
श्लोक 94-95
मज्जत्यामा गुरुत्वाद्विट् पक्वा तूत्प्लवते जले|
विनाऽतिद्रवसङ्घातशैत्यश्लेष्मप्रदूषणात्||९४||
परीक्ष्यैवं पुरा सामं निरामं चामदोषिणम्|
विधिनोपाचरेत् सम्यक् पाचनेनेतरेण वा||९५||
श्लोक 96-97
चित्रकं पिप्पलीमूलं द्वौ क्षारौ लवणानि च|
व्योषं हिङ्ग्वजमोदां च चव्यं चैकत्र चूर्णयेत्||९६||
गुटिका मातुलुङ्गस्य दाडिमस्य रसेन वा|
कृता विपाचयत्यामं दीपयत्याशु चालनम्||९७||
इति चित्रकाद्या गुटिका|
श्लोक 98-110
नागरातिविषामुस्तक्वाथः स्यादामपाचनः|
मुस्तान्तकल्कः पथ्या वा नागरं चोष्णवारिणा||९८||
देवदारुवचामुस्तनागरातिविषाभयाः|
वारुण्यामासुतास्तोये कोष्णे वाऽलवणाः पिबेत्||९९||
वर्चस्यामे सशूले च पिबेद्वा दाडिमाम्बुना|
विडेन लवणं पिष्टं बिल्वं चित्रकनागरम्||१००||
सामे वा सकफे वाते कोष्ठशूलकरे पिबेत्|
कलिङ्गहिङ्ग्वतिविषावचासौवर्चलाभयाः||१०१||
छर्द्यर्शोग्रन्थिशूलेषु पिबेदुष्णेन वारिणा|
पथ्यासौवर्चलाजाजीचूर्णं मरिचसंयुतम्||१०२||
अभयां पिप्पलीमूलं वचां कटुकरोहिणीम्|
पाठां वत्सकबीजानि चित्रकं विश्वभेषजम्||१०३||
पिबेन्निष्क्वाथ्य चूर्णं वा कृत्वा कोष्णेन वारिणा|
पित्तश्लेष्माभिभृतायां ग्रहण्यां शूलनुद्धितम्||१०४||
सामे सातिविषं व्योषं लवणक्षारहिङ्गु च|
निःक्वाथ्य पाययेच्चूर्णं कृत्वा वा कोष्णवारिणा||१०५||
पिप्पलीं नागरं पाठां सारिवां बृहतीद्वयम्|
चित्रकं कौटजं बीजं लवणान्यथ पञ्च च||१०६||
तच्चूर्णं सयवक्षारं दध्युष्णाम्बुसुरादिभिः|
पिबेदग्निविवृद्ध्यर्थं कोष्ठवातहरं नरः||१०७||
मरिचं कुञ्चिकाम्बष्ठावृक्षाम्लाः कुडवाः पृथक्|
पलानि दश चाम्लस्य वेतसस्य पलार्धिकम्||१०८||
सौवर्चलं बिडं पाक्यं यवक्षारः ससैन्धवः|
शटीपुष्करमूलानि हिङ्गु हिङ्गुशिवाटिका||१०९||
तत् सर्वमेकतः सूक्ष्मं चूर्णं कृत्वा प्रयोजयेत्|
हितं वाताभिभूतायां ग्रहण्यामरुचौ तथा||११०||
इति मरिचाद्यं चूर्णम्|
श्लोक 111-112
चतुर्णां प्रस्थमम्लानां त्र्यूषणस्य पलत्रयम्|
लवणानां च चत्वारि शर्करायाः पलाष्टकम्|
सञ्चूर्ण्य शाकसूपान्नरागादिष्ववचारयेत्||१११||
कासाजीर्णारुचिश्वासाहृत्पाण्ड्वामयशूलनुत्|११२|
श्लोक 112-117
चव्यत्वक्पिप्पलीमूलधातकीव्योषचित्रकान्||११२||
कपित्थं बिल्वमम्बष्ठां शाल्मलं हस्तिपिप्पलीम्|
शिलोद्भेदं तथाऽजाजीं पिष्ट्वा बदरसम्मितम्||११३||
परिभर्ज्य घृते दध्ना यवागूं साधयेद्भिषक्|
रसैः कपित्थचुक्रीकावृक्षाम्लैर्दाडिमस्य च||११४||
सर्वातिसारग्रहणीगुल्मार्शःप्लीहनाशिनी|
पञ्चकोलकयूषश्च मूलकानां च सोषणः||११५||
स्निग्धो दाडिमतक्राम्लो जाङ्गलः संस्कृतो रसः|
क्रव्यादस्वरसः शस्तो भोजनार्थे सदीपनः||११६||
तक्रारनालमद्यानि पानायारिष्ट एव च|११७|
श्लोक 118-121
तक्रं तु ग्रहणीदोषे दीपनग्राहिलाघवात्||११७||
श्रेष्ठं मधुरपाकित्वान्न च पित्तं प्रकोपयेत्|
कषायोष्णविकाशित्वाद्रौक्ष्याच्चैव कफे हितम्||११८||
वाते स्वाद्वम्लसान्द्रत्वात् सद्यस्कमविदाहि तत्|
तस्मात् तक्रप्रयोगा ये जठराणां तथाऽर्शसाम्||११९||
विहिता ग्रहणीदोषे सर्वशस्तान् प्रयोजयेत्|
यवान्यामलके पथ्या मरिचं त्रिपलंशिकम्||१२०||
लवणानि पलांशानि पञ्च चैकत्र चूर्णयेत्|
तक्रे तदासुतं जातं तक्रारिष्टं पिबेन्नरः|
दीपनं शोथगुल्मार्शःक्रिमिमेहोदरापहम्||१२१||
इति तक्रारिष्टः|
श्लोक 112-124
स्वस्थानगतमुत्क्लिष्टमग्निनिर्वापकं भिषक्|
पित्तं ज्ञात्वा विरेकेण निर्हरेद्वमनेन वा||१२२||
अविदाहिभिरन्नैश्च लघुभिस्तिक्तसंयुतैः|
जाङ्गलानां रसैर्यूषैर्मुद्गादीनां खडैरपि||१२३||
दाडिमाम्लैः ससर्पिष्कैर्दीपनग्राहिसंयुतैः|
तस्याग्निं दीपयेच्चूर्णैः सर्पिर्भिश्चापि तिक्तकैः||१२४||
श्लोक 125-128
चन्दनं पद्मकोशीरं पाठां मूर्वां कुटन्नटम्|
षड्ग्रन्थासारिवास्फोतासप्तपर्णाटरूषकान्||१२५||
पटोलोदुम्बराश्वत्थवटप्लक्षकपीतनान्|
कटुकां रोहिणीं मुस्तं निम्बं च द्विपलांशिकम्||१२६||
द्रोणेऽपां साधयेत् पादशेषे प्रस्थं घृतात् पचेत्|
किराततिक्तेन्द्रयववीरामागधिकोत्पलैः||१२७||
कल्कैरक्षसमैः पेयं तत् पित्तग्रहणीगदे|
तिक्तकं यद्घृतं चोक्तं कौष्ठिके तच्च दापयेत्||१२८||
इति चन्दनाद्यं घृतम्|
श्लोक 129-131
नागरातिविषे मुस्तं धातकीं च रसाञ्जनम्|
वत्सकत्वक्फलं बिल्वं पाठां कटुकरोहिणीम्||१२९||
पिबेत् समांशं तच्चूर्णं सक्षौद्रं तण्डुलाम्बुना|
पैत्तिके ग्रहणीदोषे रक्तं यच्चोपवेश्यते||१३०||
अर्शांसि च गुदे शूलं जयेच्चैव प्रवाहिकाम्|
नागराद्यमिदं चूर्णं कृष्णात्रेयेण पूजितम्||१३१||
इति नागराद्यं चूर्णम्|
श्लोक 132-133
भूनिम्बकटुकाव्योषमुस्तकेन्द्रयवान् समान्|
द्वौ चित्रकाद्वत्सकत्वग्भागान् षोडश चूर्णयेत्||१३२||
गुडशीताम्बुना पीतं ग्रहणीदोषगुल्मनुत्|
कामलाज्वरपाण्डुत्वमेहारुच्यतिसारनुत्||१३३||
इति भूनिम्बाद्यं चूर्णम्|
श्लोक 134-140
वचामतिविषां पाठां सप्तपर्णं रसाञ्जनम्|
स्योनाकोदीच्यकट्वङ्गवत्सकत्वग्दुरालभाः||१३४||
दार्वीं पर्पटकं पाठां यवानीं मधुशिग्रुकम्|
पटोलपत्रं सिद्धार्थान् यूथिकां जातिपल्लवान्||१३५||
जम्ब्वाम्रबिल्वमध्यानि निम्बशाकफलानि च|
तद्रोगशममन्विच्छन् भूनिम्बाद्येन योजयेत्||१३६||
किराततिक्तः षड्ग्रन्था त्रायमाणा कटुत्रिकम्|
चन्दनं पद्मकोशीरं दार्वीत्वक् कटुरोहिणी||१३७||
कुटजत्वक्फलं मुस्तं यवानी देवदारु च|
पटोलनिम्बपत्रैलासौराष्ट्रयतिविषात्वचः||१३८||
मधुशिग्रोश्च बीजानि मूर्वा पर्पटकस्तथा|
तच्चूर्णं मधुना लेह्यं पेयं मद्यैर्जलेन वा||१३९||
हृत्पाण्डुग्रहणीरोगगुल्मशूलारुचिज्वरान्|
कामलां सन्निपातं च मुखरोगांश्च नाशयेत्||१४०||
इति किराताद्यं चूर्णम्|
श्लोक 141-145
ग्रहण्यां श्लेष्मदुष्टायां वमितस्य यथाविधि|
कट्वम्ललवणक्षारैस्तिक्तैश्चाग्निं विवर्धयेत्||१४१||
पलाशं चित्रकं चव्यं मातुलुङ्गं हरीतकीम्|
पिप्पलीं पिप्पलीमूलं पाठां नागरधान्यकम्||१४२||
कार्षिकाण्युदकप्रस्थे पक्त्वा पादावशेषितम्|
पानीयार्थं प्रयुञ्जीत यवागूं तैश्च साधयेत्||१४३||
शुष्कमूलकयूषेण कौलत्थेनाथवा पुनः|
कट्वम्लक्षारपटुना लघून्यन्नानि भोजयेत्||१४४||
अम्लं चानु पिबेत्तक्रं तक्रारिष्टमथापि वा|
मदिरां मध्वरिष्टं वा निगदं सीधुमेव वा||१४५||
श्लोक 146-151
द्रोणं मधूकपुष्पाणां विडङ्गानां ततोऽर्धतः|
चित्रकस्य ततोऽर्धं स्यात्तथा भल्लातकाढकम्||१४६||
मञ्जिष्ठाष्टपलं चैव त्रिद्रोणेऽपां विपाचयेत्|
द्रोणशेषं तु तच्छीतं मध्वर्धाढकसंयुतम्||१४७||
एलामृणालागुरुभिश्चन्दनेन च रूषिते|
कुम्भे मासस्थितं जातमासवं तं प्रयोजयेत्||१४८||
ग्रहणीं दीपयत्येव बृंहणः कफपित्तजित्|
शोथं कुष्ठं किलासं च प्रमेहांश्च प्रणाशयेत्||१४९||
इति मधूकासवः|
मधूकपुष्पस्वरसं शृतमर्धक्षयीकृतम्|
क्षौद्रपादयुतं शीतं पूर्ववत् सन्निधापयेत्||१५०||
तं पिबन् ग्रहणीदोषाञ्जयेत् सर्वान् हिताशनः|
तद्वद्द्राक्षेक्षुखर्जूरस्वरसानासुतान् पिबेत्||१५१||
श्लोक 152-159
प्रस्थौ दुरालभाया द्वौ पस्थमामलकस्य च|
दन्तीचित्रकमुष्टी द्वे प्रत्यग्रं चाभयाशतम्||१५२||
चतुर्द्रोणेऽम्भसः पक्त्वा शीतं द्रोणावशेषितम्|
सगुडद्विशतं पूतं मधुनः कुडवायुतम्||१५३||
तद्वत् प्रियङ्गोः पिप्पल्या विडङ्गानां च चूर्णितैः|
कुडवैर्घृतकुम्भस्थं पक्षाज्जातं ततः पिबेत्||१५४||
ग्रहणीपाण्डुरोगार्शःकुष्ठवीसर्पमेहनुत्|
स्वरवर्णकरश्चैष रक्तपित्तकफापहः||१५५||
इति दुरालभासवः|
हरिद्रा पञ्चमूले द्वे वीरर्षभकजीवकम्|
एषां पञ्चपलान् भागांश्चतुर्द्रोणेऽम्भसः पचेत्||१५६||
द्रोणशेषे रसे पूते गुडस्य द्विशतं भिषक्|
चूर्णितान् कुडवार्धांशान् प्रक्षिपेच्च समाक्षिकान्||१५७||
प्रियङ्गुमुस्तमञ्जिष्ठाविडङ्गमधुकप्लवान्|
लोध्रं शाबरकं चैव मासार्धस्थं पिबेत्तु तम्||१५८||
एष मूलासवः सिद्धो दीपनो रक्तपित्तजित्|
आनाहकफहृद्रोगपाण्डुरोगाङ्गसादनुत्||१५९||
इति मूलासवः|
श्लोक 160-162
प्रास्थिकं पिप्पलीं पिष्ट्वा गुडं मध्यं बिभीतकात्|
उदकप्रस्थसंयुक्तं यवपल्ले निधापयेत्||१६०||
तस्मात् पलं सुजातात्तु सलिलाञ्जलिसंयुतम्|
पिबेत्पिण्डासवो ह्येष रोगानीकविनाशनः||१६१||
स्वस्थोऽप्येनं पिबेन्मासं नरः स्निग्धरसाशनः|
इच्छंस्तेषामनुत्पत्तिं रोगाणां येऽत्र कीर्तिताः||१६२||
इति पिण्डासवः|
श्लोक 163-167
नवे पिप्पलिमध्वाक्ते कलसेऽगुरुधूपिते|
मध्वाढकं जलसमं चूर्णानीमानि दापयेत्||१६३||
कुडवार्धं विडङ्गानां पिप्पल्याः कुडवं तथा|
चतुर्थिकांशां त्वक्क्षीरीं केशरं मरिचानि च||१६४||
त्वगेलापत्रकशटीक्रमुकातिविषाघनान्|
हरेण्वेल्वालुतेजोह्वापिप्पलीमूलचित्रकान्||१६५||
कार्षिकांस्तत् स्थितं मासमत ऊर्ध्वं प्रयोजयेत्|
मन्दं सन्दपयत्यग्निं करोति विषमं समम्||१६६||
हृत्पाण्डुग्रहणीरोगकुष्ठार्शःश्वयथुज्वरान्|
वातश्लेष्मामयांश्चान्यान्मध्वरिष्टो व्यपोहति||१६७||
इति मध्वरिष्टः|
श्लोक 168-170
समूलां पिप्पलीं क्षारौ द्वौ पञ्च लवणानि च|
मातुलुङ्गाभयारास्नाशटीमरिचनागरम्||१६८||
कृत्वा समांशं तच्चूर्णं पिबेत् प्रातः सुखाम्बुना|
श्लेष्मिके ग्रहणीदोषे बलवर्णाग्निवर्धनम्||१६९||
एतैरेवौषधैः सिद्धं सर्पिः पेयं समारुते|
गौल्मिके षट्पलं प्रोक्तं भल्लातकघृतं च यत्||१७०||
श्लोक 171-178
बिडं कालोत्थलवणं सर्जिकायवशूकजम्|
सप्तलां कण्टकारीं च चित्रकं चेति दाहयेत्||१७१||
सप्तकृत्वः स्रुतस्यास्य क्षारस्य द्व्याढकेन तु|
आढकं सर्पिषः पक्त्वा पिबेदग्निविवर्धनम्||१७२||
इति क्षारघृतम्|
समूलां पिप्पलीं पाठां चव्येन्द्रयवनागरम्|
चित्रकातिविषे हिङ्गु श्वदंष्ट्रां कटुरोहिणीम्||१७३||
वचां च कार्षिकं पञ्चलवणानां पलानि च|
दध्नः प्रस्थद्वये तैलसर्पिषोः कुडवद्वये||१७४||
खण्डीकृतानि निष्क्वाथ्य शनैरन्तर्गते रसे|
अन्तर्धूमं ततो दग्धवा चूर्णं कृत्वा घृताप्लुतम्||१७५||
पिबेत् पाणितलं तस्मिञ्जीर्णे स्यान्मधुराशनः|
वातश्लेष्मामयान्सर्वान्हन्याद्विषगरांश्च सः||१७६||
भल्लातकं त्रिकटुकं त्रिफलां लवणत्रयम्|
अन्तर्धूमं द्विपलिकं गोपुरीषाग्निना दहेत्||१७७||
स क्षारः सर्पिषा पीतो भोज्ये वाऽप्यवचूर्णितः|
हृत्पाण्डुग्रहणीदोषगुल्मोदावर्तशूलनुत्||१७८||
श्लोक 179-180
दुरालभां करञ्जौ द्वौ सप्तपर्णं सवत्सकम्|
षड्ग्रन्थां मदनं मूर्वां पाठामारग्वधं तथा||१७९||
गोमूत्रेण समांशानि कृत्वा चूर्णानि दाहयेत्|
दग्ध्वा च तं पिबेत् क्षारं ग्रहणीबलवर्धनम्||१८०||
श्लोक 181-182
भूनिम्बं रोहिणीं तिक्तां पटोलं निम्बपर्पटम्|
दहेन्माहिषमूत्रेण क्षार एषोऽग्निवर्धनः||१८१||
द्वे हरिद्रे वचा कुष्ठं चित्रकः कटुरोहिणी|
मुस्तं च बस्तमूत्रेण दहेत् क्षारोऽग्निवर्धनः||१८२||
श्लोक 183-187
चतुष्पलं सुधाकाण्डात्त्रिपलं लवणत्रयात्|
वार्ताकीकुडवं चार्कादष्टौ द्वे चित्रकात् पले||१८३||
दग्धानि वार्ताकुरसे गुटिका भोजनोत्तराः|
भुक्तं भुक्तं पचन्त्याशु कासश्वासार्शसां हिताः||१८४||
विसूचिकाप्रतिश्यायहृद्रोगशमनाश्च ताः|
इत्येषा क्षारगुटिका कृष्णात्रेयेण कीर्तिता||१८५||
इति क्षारगुडिका|
वत्सकातिविषे पाठां दुःस्पर्शां हिङ्गु चित्रकम्|
चूर्णीकृत्य पलाशाग्रक्षारे मूत्रस्रुते पचेत्||१८६||
आयसे भाजने सान्द्रात्तस्मात् कोलं सुखाम्बुना|
मद्यैर्वा ग्रहणीदोषशोथार्शःपाण्डुमान् पिबेत्||१८७||
इति चतुर्थक्षारः|
श्लोक 188-193
त्रिफलां कटभीं चव्यं बिल्वमध्यमयोरजः|
रोहिणीं कटुकां मुस्तं कुष्ठं पाठां च हिङ्गु च||१८८||
मधुकं मुष्ककयवक्षारौ त्रिकटुकं वचाम्|
विडङ्गं पिप्पलीमूलं स्वर्जिकां निम्बचित्रकौ||१८९||
मूर्वाजमोदेन्द्रयवान् गुडूचीं देवदारु च|
कार्षिकं लवणानां च पञ्चानां पलिकान्पृथक्||१९०||
भागान् दध्नि त्रिकुडवे घृततैलेन मूर्च्छितम्|
अन्तर्धूमं शनैर्दग्ध्वा तस्मात् पाणितलं पिबेत्||१९१||
सर्पिषा कफवातार्शोग्रहणीपाण्डुरोगवान्|
प्लीहमूत्रग्रहश्वासहिक्काकासक्रिमिज्वरान्||१९२||
शोषातिसारौ श्वयथुं प्रमेहानाहहृद्ग्रहान्|
हन्यात् सर्वविषं चैव क्षारोऽग्निजननो वरः||१९३||
जीर्णे रसैर्वा मधुरैरश्नीयात् पयसाऽपि वा|
इति पञ्चमक्षारः|
श्लोक 194-196
त्रिदोषे विधिविद्वैद्यः पञ्च कर्माणि कारयेत्||१९४||
घृतक्षारासवारिष्टान् दद्याच्चाग्निविवर्धनान्|
क्रिया या चानिलादीनां निर्दिष्टा ग्रहणीं प्रति||१९५||
व्यत्यासात्तां समस्तां वा कुर्याद्दोषविशेषवित्|१९६|
श्लोक 196-198
स्नेहनं स्वेदनं शुद्धिर्लङ्घनं दीपनं च यत्||१९६||
चूर्णानि लवणक्षारमध्वरिष्टसुरासवाः|
विविधास्तक्रयोगाश्च दीपनानां च सर्पिषाम्||१९७||
ग्रहणीरोगिभिः सेव्याः, …|१९८|
श्लोक 198-201
… क्रियां चावस्थिकीं शृणु|
ष्ठीवनं श्लैष्मिके रूक्षं दीपनं तिक्तसंयुतम्||१९८||
सकृद्रूक्षं सकृत्स्निग्धं कृशे बहुकफे हितम्|
परीक्ष्यामं शरीरस्य दीपनं स्नेहसंयुतम्||१९९||
दीपनं बहुपित्तस्य तिक्तं मधुरसंयुतम्|
बहुवातस्य तु स्नेहलवणाम्लयुतं हितम्||२००||
सन्धुक्षति तथा वह्निरेषां विधिवदिन्धनैः|२०१|
श्लोक 201-205
स्नेहमेव परं विद्याद्दुर्बलानलदीपनम्||२०१||
नालं स्नेहसमिद्धस्य शमायान्नं सुगुर्वपि|
मन्दाग्निरविपक्वं तु पुरीषं योऽतिसार्यते||२०२||
दीपनीयौषधैर्युक्तां घृतमात्रां पिबेत्तु सः|
तया समानः पवनः प्रसन्नो मार्गमास्थितः||२०३||
अग्नेः समीपचारित्वादाशु प्रकुरुते बलम्|
काठिन्याद्यः पुरीषं तु कृच्छ्रान्मुञ्चति मानवः||२०४||
सघृतं लवणैर्युक्तं नरोऽन्नावग्रहं पिबेत्|
रौक्ष्यान्मन्दे पिबेत्सर्पिस्तैलं वा दीपनैर्युतम्||२०५||
श्लोक 206-211
अतिस्नेहात्तु मन्देऽग्नौ चूर्णारिष्टासवा हिताः|
भिन्ने गुदोपलेपात्तु मले तैलसुरासवाः||२०६||
उदावर्तात्तु मन्देऽग्नौ निरूहाः स्नेहबस्तयः|
दोषवृद्ध्या तु मन्देऽग्नौ शुद्धो दोषविधिं चरेत्||२०७||
व्याधियुक्तस्य मन्दे तु सर्पिरेवाग्निदीपनम्|
उपवासाच्च मन्देऽग्नौ यवागूभिः पिबेद्घृतम्||२०८||
अन्नावपीडितं बल्यं दीपनं बृंहणं च तत्|
दीर्घकालप्रसङ्गात्तु क्षामक्षीणकृशान्नरान्||२०९||
प्रसहानां रसैः साम्लैर्भोजयेत् पिशिताशिनाम्|
लघु, तीक्ष्णोष्णशोधित्वाद्दीपयन्त्याशु तेऽनलम्||२१०||
मांसोपचितमांसत्वात्तथाऽऽशुतरबृंहणाः|२११|
श्लोक 211-217
नाभोजनेन कायाग्निर्दीप्यते नातिभोजनात्||२११||
यथा निरिन्धनो वह्निरल्पो वाऽतीन्धनावृतः|
स्नेहान्नविधिभिश्चित्रैश्चूर्णारिष्टसुरासवैः ||२१२||
सम्यक्प्रयुक्तैर्भिषजा बलमग्नेः प्रवर्धते|
यथा हि सारदार्वग्निः स्थिरः सन्तिष्ठते चिरम्||२१३||
स्नेहान्नविधिभिस्तद्वदन्तरग्निर्भवेत् स्थिरः|
हितं जीर्णे मितं चाश्नंश्चिरमारोग्यमश्नुते||२१४||
अवैषम्येण धातूनामग्निवृद्धौ यतेत ना|
समैर्दोषैः समो मध्ये देहस्योष्माऽग्निसंस्थितः||२१५||
पचत्यन्नं तदारोग्यपुष्ट्यायुर्बलवृद्धये|
दोषैर्मन्दोऽतिवृद्धो वा विषमैर्जनयेद्गदान्||२१६||
वाच्यं मन्दस्य तत्रोक्तमतिवृद्धस्य वक्ष्यते|२१७|
श्लोक 217-235
नरे क्षीणकफे पित्तं कुपितं मारुतानुगम्||२१७||
स्वोष्मणा पावकस्थाने बलमग्नेः प्रयच्छति|
तदा लब्धबलो देहे विरूक्षे सानिलोऽनलः||२१८||
परिभूय पचत्यन्नं तैक्ष्ण्यादाशु मुहुर्मुहुः|
पक्त्वाऽन्नं स ततो धातूञ्छोणितादीन् पचत्यपि||२१९||
ततो दौर्बल्यमातङ्कान्मृत्युं चोपनयेन्नरम्|
भुक्तेऽन्ने लभते शान्तिं जीर्णमात्रे प्रताम्यति||२२०||
तृट्श्वासदाहमूर्च्छाद्या व्याधयोऽत्यग्निसम्भवाः|
तमत्यग्निं गुरुस्निग्धशीतैर्मधुरविज्जलैः||२२१||
अन्नपानैर्नयेच्छान्तिं दीप्तमग्निमिवाम्बुभिः|
मुहुर्मुहुरजीर्णेऽपि भोज्यान्यस्योपहारयेत्||२२२||
निरिन्धनोऽन्तरं लब्ध्वा यथैनं न विपादयेत्|
पायसं कृशरां स्निग्धं पैष्टिकं गुडवैकृतम्||२२३||
अद्यात्तथौदकानूपपिशितानि भृतानि च|
मत्स्यान्विशेषतः श्लक्ष्णान्स्थिरतोयचरांस्तथा||२२४||
आविकं च भृतं मांसमद्यादत्यग्निनाशनम् |
यवागूं समधूच्छिष्टां घृतं वा क्षुधितः पिबेत्||२२५||
गोधूमचूर्णमन्थं वा व्यधयित्वा सिरां पिबेत्|
पयो वा शर्करासर्पिर्जीवनीयौषधैः शृतम्||२२६||
फलानां तैलयोनीनामुत्क्रुञ्चाश्च सशर्कराः|
मार्दवं जनयन्त्यग्नेः स्निग्धा मांसरसास्तथा||२२७||
पिबेच्छीताम्बुना सर्पिर्मधूच्छिष्टेन संयुतम्|
गोधूमचूर्णं पयसा ससर्पिष्कं पिबेन्नरः||२२८||
आनूपरससिद्धान् वा त्रीन् स्नेहांस्तैलवर्जितान्|
पयसा सम्मितं चापि घनं त्रिस्नेहसंयुतम्||२२९||
नारिस्तन्येन संयुक्तां पिबेदौदुम्बरीं त्वचम्|
ताभ्यां वा पायसं सिद्धमद्यादत्यग्निशान्तये||२३०||
श्यामात्रिवृद्विपक्वं वा पयो दद्याद्विरेचनम्|
असकृत् पित्तशान्त्यर्थं पायसप्रतिभोजनम्||२३१||
प्रसमीक्ष्य भिषक् प्राज्ञस्तस्मै दद्याद्विधानवित्|
यत्किञ्चिन्मधुरं मेद्यं श्लेष्मलं गुरुभोजनम्||२३२||
सर्वं तदत्यग्निहितं भुक्त्वा प्रस्वपनं दिवा|
मेद्यान्यन्नानि योऽत्यग्नावप्रतान्तः समश्नुते||२३३||
न तन्निमित्तं व्यसनं लभते पुष्टिमेव च|
कफे वृद्धे जिते पित्ते मारुते चानलः समः||२३४||
समधातोः पचत्यन्नं पुष्ट्यायुर्बलवृद्धये|२३५|
श्लोक 235-243
भवन्ति चात्र-
पथ्यापथ्यमिहैकत्र भुक्तं समशनं मतम्||२३५||
विषमं बहु वाऽल्पं वाऽप्यप्राप्तातीतकालयोः|
भुक्तं पूर्वान्नशेषे तु पुनरध्यशनं मतम्||२३६||
त्रीण्यप्येतानि मृत्युं वा घोरान् व्याधीन्सृजन्ति वा|
प्रातराशे त्वजीर्णेऽपि सायमाशो न दुष्यति||२३७||
दिवा प्रबुध्यतेऽर्केण हृदयं पुण्डरीकवत्|
तस्मिन्विबुद्धे स्रोतांसि स्फुटत्वं यान्ति सर्वशः||२३८||
व्यायामाच्च विहाराच्च विक्षिप्तत्वाच्च चेतसः|
न क्लेदमुपगच्छन्ति दिवा तेनास्य धातवः||२३९||
अक्लिन्नेष्वन्नमासिक्तमन्यत्तेषु न दुष्यति|
अविदग्ध इव क्षीरे क्षीरमन्यद्विमिश्रितम्||२४०||
नैव दूष्यति तेनैव समं सम्पद्यते यथा|
रात्रौ तु हृदये म्लाने संवृतेष्वयनेषु च|
यान्ति कोष्ठे परिक्लेदं संवृते देहधातवः||२४१||
क्लिन्नेष्वन्यदपक्वेषु तेष्वासिक्तं प्रदुष्यति|
विदग्धेषु पयःस्वन्यत् पयस्तप्तमिवार्पितम्||२४२||
नैशेष्वाहारजातेषु नाविपक्वेषु बुद्धिमान्|
तस्मादन्यत्समश्नीयात्पालयिष्यन्बलायुषी||२४३||
श्लोक 244-249
तत्र श्लोकाः-
अन्तरग्निगुणा देहं यथा धारयते च सः|
यथाऽन्नं पच्यते यांश्च यथाऽऽहारः करोत्यपि||२४४||
येऽग्नयो यांश्च पुष्यन्ति यावन्तो ये पचन्ति यान्|
रसादीनां क्रमोत्पत्तिर्मलानां तेभ्य एव च||२४५||
वृष्याणामाशुकृद्धेतुर्धातुकालोद्भवक्रमः|
रोगैकदेशकृद्धेतुरन्तरग्निर्यथाऽधिकः||२४६||
प्रदुष्यति यथा दुष्टो यान् रोगाञ्जनयत्यपि|
ग्रहणी या यथा यच्च ग्रहणीदोषलक्षणम्||२४७||
पूर्वरूपं पृथक् चैव व्यञ्जनं सचिकित्सितम्|
चतुर्विधस्य निर्दिष्टं तथा चावस्थिकी क्रिया||२४८||
जायते च यथाऽत्यग्निर्यच्च तस्य चिकित्सितम्|
उक्तवानिह तत् सर्वं ग्रहणीदोषके मुनिः||२४९||
पुष्पिका
इत्यग्निवेशकृते तन्त्रेऽप्राप्ते दृढबलसम्पूरिते चिकित्सास्थाने
ग्रहणीचिकित्सितं नाम पञ्चदशोऽध्यायः||१५||