छर्दिचिकित्सितम्

श्लोक 1-2

अथातश्छर्दिचिकित्सितं व्याख्यास्यामः||१||

इति ह स्माह भगवानात्रेयः||२||

श्लोक 3

यशस्विनं ब्रह्मतपोद्युतिभ्यां ज्वलन्तमग्न्यर्कसमप्रभावम्|
पुनर्वसुं भूतहिते निविष्टं पप्रच्छ शिष्योऽत्रिजमग्निवेशः||३||

श्लोक 4-5

याश्छर्दयः पञ्च पुरा त्वयोक्ता रोगाधिकारे भिषजां वरिष्ठ!|
तासां चिकित्सां सनिदानलिङ्गां यथावदाचक्ष्व नृणां हितार्थम्||४||

तदग्निवेशस्य वचो निशम्य प्रीतो भिषक्श्रेष्ठ इदं जगाद|
याश्छर्दयः पञ्च पुरा मयोक्तास्ता विस्तरेण ब्रुवतो निबोध||५||

श्लोक 6

दोषैः पृथक्त्रिप्रभवाश्चतस्रो द्बिष्टार्थयोगादपि पञ्चमी स्यात्|६|

श्लोक 6

तासां हृदुत्क्लेशकफप्रसेकौ द्वेषोऽशने चैव हि पूर्वरूपम्||६||

श्लोक 7-9

व्यायामतीक्ष्णौषधशोकरोगभयोपवासाद्यतिकर्शितस्य|
वायुर्महास्रोतसि सम्प्रवृद्ध उत्क्लेश्य दोषांस्तत ऊर्ध्वमस्यन्||७||

आमाशयोत्क्लेशकृतां च मर्म प्रपीडयंश्छर्दिमुदीरयेत्तु|
हृत्पार्श्वपीडामुखशोषमूर्धनाभ्यर्तिकासस्वरभेदतोदैः||८||

उद्गारशब्दप्रबलं सफेनं विच्छिन्नकृष्णं तनुकं कषायम्|
कृच्छ्रेण चाल्पं महता च वेगेनार्तोऽनिलाच्छर्दयतीह दुःखम्||९||

श्लोक-10-11

अजीर्णकट्वम्लविदाह्यशीतैरामाशये पित्तमुदीर्णवेगम्|
रसायनीभिर्विसृतं प्रपीड्य मर्मोर्ध्वमागम्य वमिं करोति||१०||

मूर्च्छापिपासामुखशोषमूर्धताल्वक्षिसन्तापतमोभ्रमार्तः|
पीतं भृशोष्णं हरितं सतिक्तं धूम्रं च पित्तेन वमेत् सदाहम्||११||

श्लोक 12-13

स्निग्धातिगुर्वामविदाहिभोज्यैः स्वप्नादिभिश्चैव कफोऽतिवृद्धः|
उरः शिरो मर्म रसायनीश्च सर्वाः समावृत्य वमिं करोति||१२||

तन्द्रास्यमाधुर्यकफप्रसेकसन्तोषनिद्रारुचिगौरवार्तः|
स्निग्धं घनं स्वादु कफाद्विशुद्धं सलोमहर्षोऽल्परुजं वमेत्तु||१३||

श्लोक 14-15

समश्नतः सर्वरसान् प्रसक्तमामप्रदोषर्तुविपर्ययैश्च|
सर्वे प्रकोपं युगपत् प्रपन्नाश्छर्दिं त्रिदोषां जनयन्ति दोषाः||१४||

शूलाविपाकारुचिदाहतृष्णाश्वासप्रमोहप्रबला प्रसक्तम्|
छर्दिस्त्रिदोषाल्लवणाम्लनीलसान्द्रोष्णरक्तं वमतां नृणां स्यात्||१५||

श्लोक 16-17

विट्स्वेदमूत्राम्बुवहानि वायुः स्रोतांसि संरुध्य यदोर्ध्वमेति|
उत्सन्नदोषस्य समाचितं तं दोषं समुद्धूय नरस्य कोष्ठात्||१६||

विण्मूत्रयोस्तत् समवर्णगन्धं तृट्श्वासहिक्कार्तियुतं प्रसक्तम्|
प्रच्छर्दयेद्दुष्टमिहातिवेगात्तयाऽर्दितश्चाशु विनाशमेति||१७||

श्लोक 18

द्विष्टप्रतीपाशुचिपूत्यमेध्यबीभत्सगन्धाशनदर्शनैश्च|
यच्छर्दयेत्तप्तमना मनोध्नैर्द्विष्टार्थसंयोगभवा मता सा||१८||

श्लोक 19

क्षीणस्य या छर्दिरतिप्रवृद्धा सोपद्रवा शोणितपूययुक्ता|
सचन्द्रिकां तां प्रवदन्त्यसाध्यां साध्यां चिकित्सेदनुपद्रवां च||१९||

श्लोक 20-22

आमाशयोत्क्लेशभवा हि सर्वाश्छर्द्यो मता लङ्घनमेव तस्मात्|
प्राक्कारयेन्मारुतजां विमुच्य संशोधनं वा कफपित्तहारि||२०||

चूर्णानि लिह्यान्मधुनाऽभयानां हृद्यानि वा यानि विरेचनानि|
मद्यैः पयोभिश्च युतानि युक्त्या नयन्त्यधो दोषमुदीर्णमूर्ध्वम्||२१||

वल्लीफलाद्यैर्वमनं पिबेद्वा यो दुर्बलस्तं शमनैश्चिकित्सेत्|
रसैर्मनोज्ञैर्लघुभिर्विशुष्कैर्भक्ष्यैः सभोज्यैर्विविधैश्च पानैः||२२||

श्लोक 23-25

सुसंस्कृतास्तित्तिरिबर्हिलावरसा व्यपोहन्त्यनिलप्रवृत्ताम्|
छर्दिं तथा कोलकुलत्थधान्यबिल्वादिमूलाम्लयवैश्च यूषः||२३||

वातात्मिकायां हृदयद्रवार्तो नरः पिबेत् सैन्धववद्धृतं तु|
सिद्धं तथा धान्यकनागराभ्यां दध्ना च तोयेन च दाडिमस्य||२४||

व्योषेण युक्तां लवणैस्त्रिभिश्च घृतस्य मात्रामथवा विदध्यात्|
स्निग्धानि हृद्यानि च भोजनानि रसैः सयूषैर्दधिदाडिमाम्लैः||२५||

श्लोक 26-33

पित्तात्मिकायामनुलोमनार्थं द्राक्षाविदारीक्षुरसैस्त्रिवृत् स्यात्|
कफाशयस्थं त्वतिमात्रवृद्धं पित्तं हरेत् स्वादुभिरूर्ध्वमेव||२६||

शुद्धाय काले मधुशर्कराभ्यां लाजैश्च मन्थं यदि वाऽपि पेयाम्|
प्रदापयेन्मुद्गरसेन वाऽपि शाल्योदनं जाङ्गलजै रसैर्वा||२७||

सितोपलामाक्षिकपिप्पलीभिः कुल्माषलाजायवसक्तुगृञ्जान्|
खर्जूरमांसान्यथ नारिकेलं द्राक्षामथो वा बदराणि लिह्यात्||२८||

स्रोतोजलाजोत्पलकोलमज्जचूर्णानि लिह्यान्मधुनाऽभयां च|
कोलास्थिमज्जाञ्जनमक्षिकाविड्लाजासितामागधिकाकणान् वा||२९||

द्राक्षारसं वाऽपि पिबेत् सुशीतं मृद्भृष्टलोष्टप्रभवं जलं वा|
जम्ब्वाम्रयोः पल्लवजं कषायं पिबेत् सुशीतं मधुसंयुतं वा||३०||

निशि स्थितं वारि समुद्गकृष्णं सोशीरधान्यं चणकोदकं वा|
गवेधुकामूलजलं गुडूच्या जलं पिबेदिक्षुरसं पयो वा||३१||

सेव्यं पिबेत् काञ्चनगैरिकं वा सबालकं तण्डुलधावनेन|
धात्रीरसेनोत्तमचन्दनं वा तृष्णावमिघ्नानि समाक्षिकाणि||३२||

कल्कं तथा चन्दनचव्यमांसीद्राक्षोत्तमाबालकगैरिकाणाम्|
शीताम्बुना गैरिकशालिचूर्णं मूर्वां तथा तण्डुलधावनेन||३३||

श्लोक 34-39

कफात्मिकायां वमनं प्रशस्तं सपिप्पलीसर्षपनिम्बतोयैः|
पिण्डीतकैः सैन्धवसम्प्रयुक्तैर्वम्यां कफामाशयशोधनार्थम्||३४||

गोधूमशालीन् सयवान् पुराणान् यूषैः पटोलामृतचित्रकाणाम्|
व्योषस्य निम्बस्य च तक्रसिद्धैर्यूषैः फलाम्लैः कटुभिस्तथाऽद्यात्||३५||

रसांश्च शूल्यानि च जाङ्गलानां मांसानि जीर्णान्मधुसीध्वरिष्टान्|
रागांस्तथा षाडवपानकानि द्राक्षाकपित्थैः फलपूरकैश्च||३६||

मुद्गान्मसूरांश्चणकान् कलायान् भृष्टान् युतान्नागरमाक्षिकाभ्याम्|
लिह्यात्तथैव त्रिफलाविडङ्गचूर्णं विडङ्गप्लवयोरथो वा||३७||

सजाम्बवं वा बदराम्लचूर्णं मुस्तायुतां कर्कटकस्य शृङ्गीम्|
दुरालभां वा मधुसम्प्रयुक्तां लिह्यात् कफच्छर्दिविनिग्रहार्थम्||३८||

मनःशिलायाः फलपूरकस्य रसैः कपित्थस्य च पिप्पलीनाम्|
क्षौद्रेण चूर्णं मरिचैश्च युक्तं लिहञ्जयेच्छर्दिमुदीर्णवेगाम्||३९||

श्लोक 40

यैषा पृथक्त्वेन मया क्रियोक्ता तां सन्निपातेऽपि समस्य बुद्ध्या|
दोषर्तुरोगाग्निबलान्यवेक्ष्य प्रयोजयेच्छास्त्रविदप्रमत्तः||४०||

श्लोक 41-42

मनोभिघाते तु मनोनुकूला वाचः समाश्वासनहर्षणानि|
लोकप्रसिद्धाः श्रुतयो वयस्याः शृङ्गारिकाश्चैव हिता विहाराः||४१||

गन्धा विचित्रा मनसोऽनुकूला मृत्पुष्पशुक्ताम्लफलादिकानाम्|
शाकानि भोज्यान्यथ पानकानि सुसंस्कृताः षाडवरागलेहाः||४२||

यूषा रसाः काम्बलिका खडाश्च मांसानि धाना विविधाश्च भक्ष्याः|
फलानि मूलानि च गन्धवर्णरसैरुपेतानि वमिं जयन्ति||४३||

गन्धं रसं स्पर्शमथापि शब्दं रूपं च यद्यत् प्रियमप्यसात्म्यम्|
तदेव दद्यात् प्रशमाय तस्यास्तज्जो हि रोगः सुख एव जेतुम्||४४||

श्लोक 45

छर्द्युत्थितानां च चिकित्सितात् स्वाच्चिकित्सितं कार्यमुपद्रवाणाम्|
अतिप्रवृत्तासु विरेचनस्य कर्मातियोगे विहितं विधेयम्||४५||

श्लोक 46-47

वमिप्रसङ्गात् पवनोऽप्यवश्यं धातुक्षयाद्धृद्धिमुपैति तस्मात्|
चिरप्रवृत्तास्वनिलापहानि कार्याण्युपस्तम्भनबृंहणानि||४६||

सर्पिर्गुडाः क्षीरविधिर्घृतानि कल्याणकत्र्यूषणजीवनानि|
वृष्यास्तथा मांसरसाः सलेहाश्चिरप्रसक्तां च वमिं जयन्ति||४७||

श्लोक 48

तत्र श्लोकः-
हेतुं सङ्ख्यां लक्षणमुपद्रवान् साध्यतां न योगांश्च|
छर्दीनां प्रशमार्थं प्राह चिकित्सितं मुनिवर्यः||४८||

पुष्पिका

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसम्पूरिते
चिकित्सास्थाने छर्दिचिकित्सितं नाम विंशोऽध्यायः||२०||