जनपदोद्ध्वंसनीयविमानम्

श्लोक 1-2

अथातो जनपदोद्ध्वंसनीयं विमानं व्याख्यास्यामः ||१||
इति ह स्माह भगवानात्रेयः ||२||

श्लोक 3

जनपदमण्डले पञ्चालक्षेत्रे द्विजातिवराध्युषिते काम्पिल्यराजधान्यां भगवान्
पुनर्वसुरात्रेयोऽन्तेवासिगणपरिवृतः पश्चिमे घर्ममासे
गङ्गातीरे वनविचारमनुविचरञ्छिष्यमग्निवेशमब्रवीत्||३||

श्लोक 4

दृश्यन्ते हि खलु सौम्य ! नक्षत्रग्रहगणचन्द्रसूर्यानिलानलानां दिशां चाप्रकृतिभूतानामृतुवैकारिका [१] भावाः, अचिरादितो भूरपि च न यथावद्रसवीर्यविपाकप्रभावमोषधीनां प्रतिविधास्यति, तद्वियोगाच्चातङ्कप्रायता नियता | तस्मात् प्रागुद्ध्वंसात् प्राक् च भूमेर्विरसीभावादुद्धरध्वं सौम्य ! भैषज्यानि यावन्नोपहतरसवीर्यविपाकप्रभावाणि भवन्ति। वयं चैषां रसवीर्यविपाकप्रभावानुपयोक्ष्यामहे ये चास्माननुकाङ्क्षन्ति, यांश्च वयमनुकाङ्क्षामः|
न हि सम्यगुद्धृतेषु सौम्य ! भैषज्येषु सम्यग्विहितेषु सम्यक् चावचारितेषु जनपदोद्ध्वंसकराणां विकाराणां किञ्चित् प्रतीकारगौरवं भवति ||४||

श्लोक 5

एवंवादिनं भगवन्तमात्रेयमग्निवेश उवाच- उद्धृतानि खलु भगवन्! भैषज्यानि, सम्यग्विहितानि, सम्यगवचारितानि  च; अपि तु खलु जनपदोद्ध्वंसनमेकेनैव व्याधिना युगपदसमानप्रकृत्याहारदेहबलसात्म्यसत्त्ववयसां मनुष्याणां कस्माद्भवतीति||५||

श्लोक 6

तमुवाच भगवानात्रेयः- एवमसामान्यावतामप्येभिरग्निवेश! प्रकृत्यादिभिर्भावैर्मनुष्याणां येऽन्ये भावाः सामान्यास्तद्वैगुण्यात् समानकालाः समानलिङ्गाश्च व्याधयोऽभिनिर्वर्तमाना जनपदमुद्ध्वंसयन्ति|
ते तु खल्विमे भावाः सामान्या जनपदेषु भवन्ति; तद्यथा- वायुः, उदकं, देशः, काल इति||६||

श्लोक 7-8

तत्र वातमेवंविधमनारोग्यकरं विद्यात्; तद्यथा- यथर्तुविषममतिस्तिमितमतिचलमतिपरुषमतिशीतमत्युष्णमतिरू
क्षमत्यभिष्यन्दिनमतिभैरवारावमतिप्रतिहत-
परस्परगतिमतिकुण्डलिनमसात्म्यगन्धबाष्पसिकतापांशुधूमोपहत
मिति (१);
उदकं तु खल्वत्यर्थविकृतगन्धवर्णरसस्पर्शं क्लेदबहुलमपक्रान्तजलचरविहङ्गमुपक्षीणजलेशयमप्रीतिकरमप
गतगुणं [१] विद्यात् (२);
देशं पुनः प्रकृतिविकृतवर्णगन्धरसस्पर्शं क्लेदबहुलमुपसृष्टं सरीसृपव्यालमशकशलभमक्षिकामूषकोलूकश्माशानिकशकुनिज
म्बूकादिभिस्तृणोलूपोपवनवन्तं
प्रतानादिबहुलमपूर्ववदवपतितशुष्कनष्टशस्यं धूम्रपवनं प्रध्मातपतत्रिगणमुत्क्रुष्टश्वगणमुद्भ्रान्तव्यथितविविधमृगपक्षिस ङ्घमुत्सृष्टनष्टधर्मसत्यलज्जाचारशीलगुणजनपदं शश्वत्क्षुभितोदीर्णसलिलाशयं [२] प्रततोल्कापातनिर्घातभूमिकम्पमतिभयारावरूपं [३] रूक्षताम्रारुणसिताभ्रजालसंवृतार्कचन्द्रतारकमभीक्ष्णं ससम्भ्रमोद्वेगमिव सत्रासरुदितमिव सतमस्कमिव गुह्यकाचरितमिवाक्रन्दितशब्दबहुलं चाहितं विद्यात् (३); कालं तु खलु यथर्तुलिङ्गाद्विपरीतलिङ्गमतिलिङ्गं हीनलिङ्गं चाहितं व्यवस्येत् (४);
इमानेवन्दोषयुक्तांश्चतुरो भावाञ्जनपदोद्ध्वंसकरान् वदन्ति कुशलाः; अतोऽन्यथाभूतांस्तु हितानाचक्षते||७||
विगुणेष्वपि खल्वेतेषु जनपदोद्ध्वंसकरेषु भावेषु भेषजेनोपपाद्यमानानामभयं भवति रोगेभ्य इति ||८||

श्लोक 9-11

भवन्ति चात्र-
वैगुण्यमुपपन्नानां देशकालानिलाम्भसाम्। गरीयस्त्वं विशेषेण हेतुमत् सम्प्रवक्ष्यते||९||
वाताज्जलं जलाद्देशं देशात् कालं स्वभावतः| विद्याद्दुष्परिहार्यत्वाद्गरीयस्तरमर्थवित् [१] ||१०||
वाय्वादिषु यथोक्तानां दोषाणां तु विशेषवित्। प्रतीकारस्य सौकर्ये विद्याल्लाघवलक्षणम् ||११||

श्लोक 12-18

चतुर्ष्वपि तु दुष्टेषु कालान्तेषु यदा नराः । भेषजेनोपपाद्यन्ते न भवन्त्यातुरास्तदा||१२||
येषां न मृत्युसामान्यं सामान्यं न च कर्मणाम्| कर्म पञ्चविधं तेषां भेषजं परमुच्यते||१३||
रसायनानां विधिवच्चोपयोगः प्रशस्यते । शस्यते देहवृत्तिश्च भेषजैः पूर्वमुद्धृतैः || १४ ||
सत्यं भूते दया दानं बलयो देवतार्चनम्। सद्धत्तस्यानुवृत्तिश्च प्रशमो गुप्तिरात्मनः ||१५||
हितं जनपदानां च शिवानामुपसेवनम् । सेवनं ब्रह्मचर्यस्य तथैव ब्रह्मचारिणाम्||१६||
सङ्कथा धर्मशास्त्राणां महर्षीणां जितात्मनाम्| धार्मिकैः सात्त्विकैर्नित्यं सहास्या वृद्धसम्मतैः||१७||
इत्येतद्भेषजं प्रोक्तमायुषः परिपालनम्। येषामनियतो मृत्युस्तस्मिन् काले सुदारुणे||१८||

श्लोक 19-20

इति श्रुत्वा जनपदोद्ध्वंसने कारणानि पुनरपि भगवन्तमात्रेयमग्निवेश उवाच – अथ खलु भगवन्! कुतोमूलमेषां वाय्वादीनां वैगुण्यमुत्पद्यते? येनोपपन्ना जनपदमुद्ध्वंसयन्तीति||१९||

तमुवाच भगवानात्रेय:- सर्वेषामप्यग्निवेश ! वाय्वादीनां यद्वैगुण्यमुत्पद्यते तस्य मूलमधर्मः, तन्मूलं वाऽसत्कर्म [१] पूर्वकृतं; तयोर्योनिः प्रज्ञापराध एव ।
तद्यथा- यदा वै देशनगरनिगमजनपदप्रधाना [२] धर्ममुत्क्रम्याधर्मेण प्रजां वर्तयन्ति, तदाश्रितोपाश्रिताः पौरजनपदा व्यवहारोपजीविनश्च तमधर्ममभिवर्धयन्ति, ततः सोऽधर्मः प्रसभं धर्ममन्तर्धत्ते, ततस्तेऽन्तर्हितधर्माणो देवताभिरपि त्यज्यन्ते; तेषां
तथाऽन्तर्हितधर्मणामधर्मप्रधानानामपक्रान्तदेवतानामृतवो
व्यापद्यन्ते; तेन नापो यथाकालं देवो वर्षति न वा वर्षति विकृतं वा वर्षति, वाता न सम्यगभिवान्ति, क्षितिर्व्यापद्यते, सलिलान्युपशुष्यन्ति, ओषधयः स्वभावं परिहायापद्यन्ते विकृतिं; तत उद्ध्वंसन्ते जनपदाः स्पृश्याभ्यवहार्यदोषात् [३] ||२०||

श्लोक 21

तथा शस्त्रप्रभवस्यापि जनपदोद्ध्वंसस्याधर्म एव हेतुर्भवति । येऽतिप्रवृद्धलोभक्रोधमोहमानास्ते दुर्बलानवमत्यात्मस्वजनपरोपघाताय शस्त्रेण परस्परमभिक्रामन्ति, परान् वाऽभिक्रामन्ति, परैर्वाऽभिक्राम्यन्ते ||२१||

श्लोक 22

रक्षोगणादिभिर्वा विविधैर्भूतसङ्घैस्तमधर्ममन्यद्वाऽप्यपचारान्तरमुपलभ्या
भिहन्यन्ते||२२||

श्लोक 23

तथाऽभिशापप्रभवस्याप्यधर्म एव हेतुर्भवति। ये लुप्तधर्माणो धर्मादपेतास्ते
गुरुवृद्धसिद्धर्षिपूज्यानवमत्याहितान्याचरन्ति; ततस्ताः प्रजा गुर्वादिभिरभिशप्ता भस्मतामुपयान्ति प्रागेवानेकपुरुषकुलविनाशाय, नियतप्रत्ययोपलम्भादनियताश्चापरे [१] ||२३||

श्लोक 24

प्रागपि चाधर्मादृते नाशुभोत्पत्तिरन्यतोऽभूत्। आदिकाले ह्यदितिसुतसमौजसोऽतिविमलविपुलप्रभावाः
प्रत्यक्षदेवदेवर्षिधर्मयज्ञविधिविधानाः शैलसारसंहतस्थिरशरीराः
प्रसन्नवर्णेन्द्रियाः
पवनसमबलजवपराक्रमाश्चारुस्फिचोऽभिरूपप्रमाणाकृतिप्रसादोप
चयवन्तः सत्यार्जवानृशंस्यदानदमनियमतपोपवासब्रह्मचर्यव्रतपरा व्यपगतभयरागद्वेषमोहलोभक्रोधशोकमानरोगनिद्रातन्द्राश्रमक्लमा लस्यपरिग्रहाश्च पुरुषा बभूवुरमितायुषः । तेषामुदारसत्त्वगुणकर्मणामचिन्त्यरसवीर्यविपाकप्रभावगुणसमुदित कानि [१] प्रादुर्बभूवुः शस्यानि सर्वगुणसमुदितत्वात् पृथिव्यादीनां कृतयुगस्यादौ ।
भ्रश्यति तु कृतयुगे केषाञ्चिदत्यादानात् साम्पन्निकानां सत्त्वानां शरीरगौरवमासीत्, शरीरगौरवाच्छ्रमः, श्रमादालस्यम्, आलस्यात् सञ्चयः, सञ्चयात् परिग्रहः, परिग्रहाल्लोभः प्रादुरासीत् कृते । ततस्त्रेतायां लोभादभिद्रोह:, अभिद्रोहानृतवचनम्, अनृतवचनात्
कामक्रोधमानद्वेषपारुष्याभिघातभयतापशोकचिन्तोद्वेगादयः
प्रवृत्ताः।
ततस्त्रेतायां धर्मपादोऽन्तर्धानमगमत्।
तस्यान्तर्धानात् युगवर्षप्रमाणस्य पादह्रासः, पृथिव्यादेश्च
गुणपादप्रणाशोऽभूत्।
तत्प्रणाशकृतश्च शस्यानां
स्नेहवैमल्यरसवीर्यविपाकप्रभावगुणपादभ्रांशः |
ततस्तानि प्रजाशरीराणि
हीयमानगुणपादैराहारविहारैरयथापूर्वमुपष्टभ्यमानान्यग्निमारुतप
तानि [२] प्राग्व्याधिभिर्ज्वरादिभिराक्रान्तानि |
अतः प्राणिनो ह्रासमवापुरायुषः क्रमश इति ||२४||

श्लोक 25-27

भवतश्चात्र-
युगे युगे धर्मपादः क्रमेणानेन हीयते। गुणपादश्च भूतानामेवं लोकः प्रलीयते||२५||
संवत्सरशते पूर्णे याति संवत्सरः क्षयम् । देहिनामायुषः काले यत्र यन्मानमिष्यते||२६||
इति विकाराणां प्रागुत्पत्तिहेतुरुक्तो भवति||२७||

श्लोक 28-33

एवंवादिनं भगवन्तमग्निवेश उवाच- किन्नु खलु भगवन्! नियतकालप्रमाणमायुः सर्वं न वेति||२८||
तं भगवानुवाच-
इहाग्निवेश! भूतानामायुर्युक्तिमपेक्षते।
दैवे पुरुषकारे च स्थितं ह्यस्य बलाबलम्||२९||
दैवमात्मकृतं विद्यात् कर्म यत् पौर्वदैहिकम् | स्मृतः पुरुषकारस्तु क्रियते यदिहापरम्||३०||
बलाबलविशेषोऽस्ति तयोरपि च कर्मणोः। दृष्टं हि त्रिविधं कर्म हीनं मध्यममुत्तमम्||३१||
तयोरुदारयोर्युक्तिर्दीर्घस्य च सुखस्य च। नियतस्यायुषो हेतुर्विपरीतस्य चेतरा||३२||
मध्यमा मध्यमस्येष्टा कारणं शृणु चापरम् |३३|

श्लोक 33-35

दैवं पुरुषकारेण दुर्बलं ह्युपहन्यते ||३३||
दैवेन चेतरत् कर्म विशिष्टेनोपहन्यते ।
दृष्ट्वा यदेके मन्यन्ते नियतं मानमायुषः||३४||
कर्म किञ्चित् क्वचित् काले विपाके नियतं महत्। किञ्चित्त्वकालनियतं प्रत्ययैः प्रतिबोध्यते||३५||

श्लोक 36

तस्मादुभयदृष्टत्वादेकान्तग्रहणमसाधु ।
निदर्शनमपि चात्रोदाहरिष्यमः- यदि हि नियतकालप्रमाणमायुः सर्वं स्यात्, तदाऽऽयुष्कामाणां न
मन्त्रौषधिमणिमङ्गलबल्युपहारहोमनियमप्रायश्चित्तोपवासस्वस्त्ययन- -प्रणिपातगमनाद्याः क्रिया इष्टयश्च प्रयोज्येरन्; नोद्भ्रान्तचण्डचपलगोजोष्ट्रखरतुरगमहिषादयः पवनादयश्च दुष्टाः परिहार्याः स्युः, न प्रपातगिरिविषमदुर्गाम्बुवेगाः, तथा न प्रमत्तोन्मत्तोद्भान्तचण्डचपलमोहलो भाकुलमतयः, नारयः, न प्रवृद्धोऽग्निः, च विविधविषाश्रयाः सरीसृपोरगादयः, न साहसं नादेशकालचर्या, न नरेन्द्रप्रकोप इति; एवमादयो हि भावा नाभावकराः स्युः, आयुषः सर्वस्य नियतकालप्रमाणत्वात्| न चानभ्यस्ताकालमरणभयनिवारकाणामकालमरणभयमागच्छेत् प्रणिनां व्यर्थाश्चारम्भकथाप्रयोगबुद्धयः स्युर्महर्षीणां रसायनाधिकारे, नापीन्द्रो नियतायुषं शत्रुं वज्रेणाभिहन्यात्, नाश्विनावार्तं
2
भेषजेनोपपादयेतां [१], न महर्षयो यथेष्टमायुस्तपसा प्राप्नुयुः, न च विदितवेदितव्या महर्षयः ससुरेशाः सम्यक् पश्येयुरुपदिशेयुराचरेयुर्वा । अपि च सर्वचक्षुषामेतत् परं यदैन्द्रं चक्षुः [२], इदं चाप्यस्माकं तेन प्रत्यक्षं; यथा- पुरुषसहस्राणामुत्थायोत्थायाहवं [३] कुर्वतामकुर्वतां चातुल्यायुष्ट्वं, तथा जातमात्राणामप्रतीकारात् प्रतीकाराच्च, अविषविषप्राशिनां चाप्यतुल्यायुष्ट्वमेव, न च तुल्यो योगक्षेम उदपानघटानां चित्रघटानां चोत्सीदतां; तस्माद्धितोपचारमूलं जीवितम्, अतो विपर्ययान्मृत्युः ।
अपि च देशकालात्मगुणविपरीतानां कर्मणामाहारविकाराणां च क्रमोपयोगः [४] सम्यक्, त्यागः सर्वस्य [५]
चातियोगायोगमिथ्यायोगानां, सर्वातियोगसन्धारणम् [६], असन्धारणमुदीर्णानां च गतिमतां साहसानां च वर्जनम्, आरोग्यानुवृत्तौ हेतुमुपलभामहे सम्यगुपदिशामः सम्यक् पश्यामश्चेति||३६||

श्लोक 37

अतः परमग्निवेश उवाच – एवं सत्यनियतकालप्रमाणायुषां भगवन्! कथं कालमृत्युरकालमृत्युर्वाभवतीति||३७||

श्लोक 38

तमुवाच भगवानात्रेयः श्रूयतामग्निवेश! यथा यानसमायुक्तोऽक्षः प्रकृत्यैवाक्षगुणैरुपेतः स च सर्वगुणोपपन्नो वाह्यमानो यथाकालं स्वप्रमाणक्षयादेवावसानं गच्छेत्, तथाऽऽयुः शरीरोपगतं बलवत्प्रकृत्या यथावदुपचर्यमाणं स्वप्रमाणक्षयादेवावसानं गच्छति; स मृत्युः काले यथा च स एवाक्षोऽतिभाराधिष्ठितत्वाद्विषमपथादपथादक्षचक्रभङ्गाद्वाह्यवाह दोषादणिमोक्षादनुपाङ्गात् पर्यसनाच्चान्तराऽवसानमापद्यते, तथाऽऽयुरप्ययथाबलमारम्भादयथाग्न्यभ्यवहरणाद्विषमाभ्यावरणा
द्विषमशरीरन्यासादतिमैथुनादसत्संश्रयादुदीर्ण-
वेगविनिग्रहाद्विधार्यवेगाविधारणाद्भूतविषवाय्वग्न्युपतापादभिघाता दाहारप्रतीकारविवर्जनाच्चान्तराऽवसानमापद्यते, स मृत्युरकाले; तथा ज्वरादीनप्यातङ्कान्मिथ्योपचरितानकालमृत्यून् पश्याम इति||३८||

श्लोक 39

अथाग्निवेशः पप्रच्छ- किन्नु खलु भगवन्! ज्वरितेभ्यः पानीयमुष्णं प्रयच्छन्ति भिषजो भूयिष्ठं न तथा शीतम्, अस्ति च शीतसाध्योऽपि धातुर्ज्वरकर इति||३९||

श्लोक 40

तमुवाच भगवानात्रेयः- ज्वरितस्य
कायसमुत्थानदेशकालानभिसमीक्ष्य पाचनार्थं पानीयमुष्णं प्रयच्छन्ति भिषजः |
ज्वरो ह्यामाशयसमुत्थः, प्रायो भेषजानि चामाशयसमुत्थानां विकाराणां पाचनवमनापतर्पणसमर्थानि [१] भवन्ति; पाचनार्थं च पानीयमुष्णं, तस्मादेतज्ज्वरितेभ्यः प्रयच्छन्ति भिषजो भूयिष्ठम्|
तद्धि तेषां पीतं वातमनुलोमयति, अग्निं चोदर्यमुदीरयति, क्षिप्रं जरां गच्छति, श्लेष्माणं परिशोषयति, स्वल्पमपि च पीतं तृष्णाप्रशमनायोपकल्पते; तथायुक्तमपि चैतन्नात्यर्थोत्सन्नपित्ते ज्वरे सदाहभ्रमप्रलापातिसारे वा प्रदेयम्, उष्णेन हि दाहभ्रमप्रलापातिसारा भूयोऽभिवर्धन्ते, शीतेन चोपशाम्यन्तीति
||४०||

श्लोक 41

भवति चात्र-
शीतेनोष्णकृतान् रोगाञ्छमयन्ति भिषग्विदः|
ये तु शीतकृता रोगास्तेषामुष्णं भिषग्जितम्||४१||

श्लोक 42-44

एवमितरेषामपि व्याधीनां निदानविपरीतं भेषजं भवति; यथा- अपतर्पणनिमित्तानां व्याधीनां नान्तरेण पूरणमस्ति शान्तिः, तथा पूरणनिमित्तानां व्याधीनां नान्तरेणापतर्पणम् ||४२||
अपतर्पणमपि च त्रिविधं – लङ्घनं, लङ्घनपाचनं, दोषावसेचनं चेति||४३||
तत्र लङ्घनमल्पबलदोषाणां [१], लङ्घनेन ह्यग्निमारुतवृद्ध्या वातातपपरीतमिवाल्पमुदकमल्पो दोषः प्रशोषमापद्यते; लङ्घनपाचने [२] तु मध्यबलदोषाणां, लङ्घनपाचनाभ्यां हि सूर्यसन्तापमारुताभ्यां पांशुभस्मावकिरणैरिव चानतिबहूदकं मध्यबलो दोषः प्रशोषमापद्यते; बहुदोषाणां पुनर्दोषावसेचनमेव कार्यं, न ह्यभिन्ने केदारसेतौ पल्वलाप्रसेकोऽस्ति, तद्वद्दोषावसेचनम्||४४||

श्लोक 45

दोषावसेचनमन्यद्वा भेषजं प्राप्तकालमप्यातुरस्य नैवंविधस्य कुर्यात्।
तद्यथा – अनपवादप्रतीकारस्याधनस्यापरिचारकस्य [१] वैद्यमानिनश्चण्डस्यासूयकस्य
तीव्राधर्मारुचेरतिक्षीणबलमांसशोणितस्यासाध्यरोगोपहतस्य
मुमूर्षुलिङ्गान्वितस्य चेति|
एवंविधं ह्यातुरमुपचरन् भिषक् पापीयसाऽयशसा
योगमृच्छतीति||४५||

श्लोक 46-48

भवति चात्र-
तदात्वे चानुबन्धे वा यस्य स्यादशुभं फलम्। कर्मणस्तन्न कर्तव्यमेतद्बुद्धिमतां मतम्||४६||
(अल्पोदकद्रुमो यस्तु प्रवातः प्रचुरातपः । ज्ञेयः स जाङ्गलो देशः स्वल्परोगतमोऽपि च||४७||
प्रचुरोदकवृक्षो यो निवातो दुर्लभातपः।
अनूपो बहुदोषश्च, समः साधारणो मतः)||४८||

श्लोक 49-52

तत्र श्लोका:-
पूर्वरूपाणि सामान्या हेतवः सस्वलक्षणाः। देशोद्ध्वंसस्य भैषज्यं हेतूनां मूलमेव च||४९||
प्राग्विकारसमुत्पत्तिरायुषश्च क्षयक्रमः।
मरणं प्रति भूतानां कालाकालविनिश्चयः ||५०||
यथा चाकालमरणं यथायुक्तं च भेषजम्। सिद्धिं यात्यौषधं येषां न कुर्याद्येन हेतुना ||५१||
तदात्रेयोऽग्निवेशाय निखिलं सर्वमुक्तवान्। देशोद्ध्वंसनिमित्तीये विमाने मुनिसत्तमः ||५२||

पुष्पिका

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते विमानस्थाने जनपदोद्ध्वंसनीयविमानं नाम तृतीयोऽध्यायः||३||