श्लोक 1-2
अथातो जलौकावचारणीयमध्यायं व्याख्यास्यामः ||१||
यथोवाच भगवान् धन्वन्तरिः ||२||
श्लोक 3
नृपाढ्यबालस्थविरभीरुदुर्बलनारीसुकुमाराणामनुग्रहार्थं परमसुकुमारोऽयं शोणितावसेचनोपायोऽभिहितो जलौकसः ||३||
श्लोक 4
तत्र वातपित्तकफदुष्टशोणितं यथासङ्ख्यं शृङ्गजलौकालाबुभिरवसेचयेत्, सर्वाणि सर्वैर्वा (विशेषस्तु विस्राव्यं शृङ्गजलौकालाबुभिर्गृह्णीयात्) ||४||
श्लोक 5-7
भवन्ति चात्र श्लोकाः-
उष्णं समधुरं स्निग्धं गवां शृङ्गं प्रकीर्तितम् |
तस्माद्वातोपसृष्टे तु हितं तदवसेचने ||५||
शीताधिवासा मधुरा जलौका वारिसम्भवा |
तस्मात् पित्तोपसृष्टे तु हिता सा त्ववसेचने ||६||
अलाबु कटुकं रूक्षं तीक्ष्णं च परिकीर्तितम् |
तस्माच्छ्लेष्मोपसृष्टे तु हितं तदवसेचने ||७||
श्लोक 8
तत्र प्रच्छिते तनुबस्तिपटलावनद्धेन शृङ्गेण शोणितमवसेचयेदाचूषणात्, सान्तर्दीपयाऽलाब्वा (जलायुका वक्ष्यन्ते) ||८||
श्लोक 9
जलमासामायुरिति जलायुकाः, जलमासामोक इति जलौकसः ||९||
श्लोक 10
ता द्वादश; तासां सविषाः षट्, तावत्य एव निर्विषाः ||१०||
श्लोक 11
तत्र सविषाः-कृष्णा, कर्बुरा, अलगर्दा, इन्द्रायुधा, सामुद्रिका, गोचन्दना चेति |
तासु, अञ्जनचूर्णवर्णा पृथुशिराः कृष्णा; वर्मिमत्स्यवदायता छिन्नोन्नतकुक्षिः कर्बुरा; रोमशा महापार्श्वा कृष्णमुखी अलगर्दा; इन्द्रायुधवदूर्ध्वराजिभिश्चित्रा इन्द्रायुधा; ईषदसितपीतिका विचित्रपुष्पाकृतिचित्रा सामुद्रिकाः; गोवृषणवदधोभागे द्विधाभूताकृतिरणुमुखी गोचन्दनेति |
ताभिर्दष्टे पुरुषे दंशे श्वयथुरतिमात्रं कण्डूर्मूर्च्छा ज्वरो दाहश्छर्दिर्मदः सदनमिति लिङ्गानि भवन्ति |
तत्र महागदः पानालेपननस्यकर्मादिषूपयोज्यः |
इन्द्रायुधादष्टमसाध्यम् |
इत्येताः सविषाः सचिकित्सिता व्याख्याताः ||११||
श्लोक 12
अथ निर्विषाः-कपिला, पिङ्गला, शङ्कुमुखी, मूषिका, पुण्डरीकमुखी, सावरिका चेति |
तत्र, मनःशिलारञ्जिताभ्यामिव पार्श्वाभ्यां पृष्ठे स्निग्धा मुद्गवर्णा कपिला; किञ्चिद्रक्ता वृत्तकाया पिङ्गाऽऽशुगा च पिङ्गला; यकृद्वर्णा शीघ्रपायिनी दीर्घतीक्ष्णमुखी शङ्कुमुखी; मूषिकाकृतिवर्णाऽनिष्टगन्धा च मूषिका; मुद्गवर्णा पुण्डरीकतुल्यवक्त्रा पुण्डरीकमुखी; स्निग्धा पद्मपत्रवर्णाऽष्टादशाङ्गुलप्रमाणा सावरिका, सा च पश्वर्थे; इत्येता अविषा व्याख्याताः ||१२||
श्लोक 13
तासां यवनपाण्ड्यसह्यपौतनादीनि क्षेत्राणि; तेषु महाशरीरा बलवत्यः शीघ्रपायिन्यो महाशना निर्विषाश्च विशेषेण भवन्ति ||१३||
श्लोक 14-15
तत्र, सविषमत्स्यकीटदर्दुरमूत्रपुरीषकोथजाताः कलुषेष्वम्भसु च सविषाः; पद्मोत्पलनलिनकुमुदसौगन्धिककुवलयपुण्डरीकशैवलको-थजाता विमलेष्वम्भःसु च निर्विषाः ||१४||
भवति चात्र-
क्षेत्रेषु विचरन्त्येताः सलिलाढ्यसुगन्धिषु |
न च सङ्कीर्णचारिण्यो न च पङ्केशयाः सुखाः ||१५||
श्लोक 16
तासां ग्रहणमार्द्रचर्मणा, अन्यैर्वा प्रयोगैर्गृह्णीयात् ||१६||
श्लोक 17
अथैनां नवे महति घटे सरस्तडागोदकपङ्कमावाप्य निदध्यात्; भक्ष्यार्थे चासामुपहरेच्छैवलं वल्लूरमौदकांश्च कन्दांश्चूर्णीकृत्य; शय्यार्थं तृणमौदकानि च पत्राणि; त्र्यहात्त्र्यहाच्चाभ्योऽन्यज्जलं भक्ष्यं च दद्यात्; सप्तरात्रात् सप्तरात्राच्च घटमन्यं सङ्क्रामयेत् ||१७||
श्लोक 18
भवति चात्र-
स्थूलमध्याः परिक्लिष्टाः पृथ्व्यो मन्दविचेष्टिताः |
अग्राहिण्योऽल्पपायिन्यः सविषाश्च न पूजिताः ||१८||
श्लोक 19
अथ जलौकोवसेकसाध्यव्याधितमुपवेश्य संवेश्य वा, विरूक्ष्य चास्य तमवकाशं मृद्गोमयचूर्णैर्यद्यरुजः स्यात् |
गृहीताश्च ताः सर्षपरजनीकल्कोदकप्रदिग्धगात्रीः सलिलसरकमध्ये मुहूर्तस्थिता विगतक्लमा ज्ञात्वा ताभी रोगं ग्राहयेत् |
श्लणशुक्लार्द्रपिचुप्रोतावच्छन्नां कृत्वा मुखमपावृणुयात्; अगृह्णन्त्यै क्षीरबिन्दुं शोणितबिन्दुं वा दद्यात्, शस्त्रपदानि वा कुर्वीत; यद्येवमपि न गृह्णीयात्तदाऽन्यां ग्राहयेत् ||१९||
श्लोक 20
यदा च निविशतेऽश्वखुरवदाननं कृत्वोन्नम्य च स्कन्धं तदा जानीयाद्गृह्णातीति; गृह्णन्तीं चार्द्रवस्त्रावच्छन्नां कृत्वा धारयेत् ||२०||
श्लोक 21
दंशे तोदकण्डुप्रादुर्भावैर्जानीयाच्छुद्धमियमादत्त इति; शुद्धमाददानामपनयेतः अथ शोणितगन्धेन न मुञ्चेन्मुखमस्याः सैन्धवचूर्णेनावकिरेत् ||२१||
श्लोक 22
अथ पतितां तण्डुलकण्डनप्रदिग्धगात्रीं तैललवणाभ्यक्तमुखीं वामहस्ताङ्गुष्ठाङ्गुलीभ्यां गृहीतपुच्छां दक्षिणहस्ताङ्गुष्ठाङ्गुलिभ्यां शनैः शनैरनुलोममनुमार्जयेदामुखात्, वामयेत् तावद्यावत् सम्यग्वान्तलिङ्गानीति |
सम्यग्वान्ता सलिलसरके न्यस्ता भोक्तुकामा सती चरेत् |
या सीदती न चेष्टते सा दुर्वान्ता, तां पुनः सम्यग्वामयेत् |
दुर्वान्ताया व्याधिरसाध्य इन्द्रमदो नाम भवति |
अथ सुवान्तां पूर्ववत् सन्निदध्यात् ||२२||
श्लोक 23
शोणितस्य योगायोगानवेक्ष्य शतधौतघृताभ्यङ्गः, तत्पिचुधारणं वा;
जलौकोव्रणान् मधुनाऽवघट्टयेत्, शीताभिरद्भिः परिषेचयेद्बध्नीत वा, कषायमधुरस्निग्धशीतैश्च प्रदेहैः प्रदिह्यादिति ||२३||
श्लोक 24
भवति चात्र-
क्षेत्राणि ग्रहणं जातीः पोषणं सावचारणम् |
जलौकसां च यो वेत्ति तत्साध्यान् स जयेद्गदान् ||२४||
पुष्पिका
इति सुश्रुतसंहितायां सूत्रस्थाने जलौकावचारणीयो नाम त्रयोदशोऽध्यायः ||१२||