तिस्रैषणीयोऽध्यायः

इत्यसात्म्येन्द्रियार्थसंयोगः, प्रज्ञापराधः, परिणामश्चेति त्रयस्त्रिविधविकल्पा हेतवो विकाराणां; समयोगयुक्तास्तु प्रकृतिहेतवो भवन्ति ||४३||

सर्वेषामेव भावानां भावाभावौ नान्तरेण योगायोगातियोगमिथ्यायोगान् समुपलभ्येते; यथास्वयुक्त्यपेक्षिणौ हि भावाभावौ||४४||

त्रयो रोगा इति- निजागन्तुमानसाः। तत्र निजः शारीरदोषसमुत्थः, आगन्तुर्भूतविषवाय्वग्निसम्प्रहारादिस मुत्थः, मानसः पुनरिष्टस्य लाभाल्लाभाच्चानिष्टस्योपजायते||४५||

तत्र
बुद्धिमता मानसव्याधिपरीतेनापि सता बुद्ध्या हिताहितमवेक्ष्यावेक्ष्य धर्मार्थकामानामहितानामनुपसेवने
हितानां चोपसेवने प्रयतितव्यं, ह्यन्तरेण लोके
त्रयमेतन्मानसं किञ्चिन्निष्पद्यते सुखं वा दुःखं वा;
तस्मादेतच्चानुष्ठेयं
तद्विद्यानां []

चोपसेवने
प्रयतितव्यम्, आत्मदेशकुलकालबलशक्तिज्ञाने
यथावच्चेति||४६||

भवति चात्र-
मानसं प्रति भैषज्यं त्रिवर्गस्यान्ववेक्षणम्। तद्विद्यसेवा विज्ञानमात्मादीनां च सर्वशः||४७||

त्रयो रोगमार्गा इति – शाखा, मर्मास्थिसन्धयः, कोष्ठश्च
तत्र शाखा रक्तादयो धातवस्त्वक् च, स बाह्यो रोगमार्गः; मर्माणि पुनर्बस्तिहृदयमूर्धादीनि, अस्थिसन्धयोऽस्थिसंयोगास्तत्रोपनिबद्धाश्च स्नायुकण्डराः [१] स मध्यमो रोगमार्गः; कोष्ठः पुनरुच्यते महास्रोतः शरीरमध्यं महानिम्नमामपक्वाशयश्चेति पर्यायशब्दैस्तन्त्रे, स रोगमार्ग आभ्यन्तरः || ४८||
,

तत्र, गण्डपिडकालज्यपचीचर्मकीलाधिमांसमषककुष्ठव्यङ्गादयो विकारा बहिर्मार्गजाश्च विसर्पश्वयथुगुल्मार्शोविद्रध्यादयः शाखानुसारिणो भवन्ति रोगाः; पक्षवधग्रहापतानकार्दितशोषराजयक्ष्मास्थिसन्धिशूलगुदभ्रंशादयः शिरोहृद्बस्तिरोगादयश्च मध्यममार्गानुसारिणो भवन्ति रोगाः; ज्वरातीसारच्छर्द्यलसकविसूचिकाकासश्वासहिक्कानाहोदरप्लीहादयोऽन्तर्मार्गजाश्च विसर्पश्वयथुगुल्मार्शोविद्रध्यादयः कोष्ठानुसारिणो भवन्ति रोगाः||४९||

त्रिविधा भिषज इति-
भिषक्छद्मचराः सन्ति सन्त्येके सिद्धसाधिताः | सन्ति वैद्यगुणैर्युक्तास्त्रिविधा भिषजो भुवि||५०||

वैद्यभाण्डौषधैः पुस्तैः पल्लवैरवलोकनैः । लभन्ते ये भिषक्शब्दमज्ञास्ते प्रतिरूपकाः||५१||

श्रीयशोज्ञानसिद्धानां व्यपदेशादतद्विधाः । वैद्यशब्दं लभन्ते ये ज्ञेयास्ते सिद्धसाधिताः||५२||

प्रयोगज्ञानविज्ञान सिद्धिसिद्धाः सुखप्रदाः।
जीविताभिसरास्ते स्युर्वैद्यत्वं तेष्ववस्थितमिति||५३||

त्रिविधमौषधमिति – दैवव्यपाश्रयं, युक्तिव्यपाश्रयं, सत्त्वावजयश्च । तत्र दैवव्यपाश्रयं-
मन्त्रौषधिमणिमङ्गलबल्युपहारहोमनियमप्रायश्चित्तोपवासस्वस्त्ययनप्रणिपा तगमनादि, युक्तिव्यपाश्रयं – पुनराहारौषधद्रव्याणां योजना, सत्त्वावजयः पुनरहितेभ्योऽर्थेभ्यो मनोनिग्रहः||५४||

शरीरदोषप्रकोपे खलु शरीरमेवाश्रित्य प्रायशस्त्रिविधमौषधमिच्छन्ति- -अन्तः परिमार्जनं, बहिः परिमार्जनं, शस्त्रप्रणिधानं चेति | तत्रान्तःपरिमार्जनं यदन्तःशरीरमनुप्रविश्यौषधमाहारजातव्याधीन् यत्पुनर्बहिःस्पर्शमाश्रित्याभ्यङ्गस्वेदप्रदेहपरिषेकोन्मर्दनाद्यैरामयान् तद्बहिः परिमार्जनं, शस्त्रप्रणिधानं प्रमार्ष्टि, प्रमार्ष्टि पुनश्छेदनभेदनव्यधनदारणलेखनोत्पाटनप्रच्छनसीवनैषणक्षारजलौकसश्चेति ||५५||

भवन्ति चात्र-
प्राज्ञो रोगे समुत्पन्ने बाह्येनाभ्यन्तरेण वा । कर्मणा लभते शर्म शस्त्रोपक्रमणेन वा||५६||

बालस्तु खलु मोहाद्वा प्रमादाद्वा न बुध्यते । उत्पद्यमानं प्रथमं रोगं शत्रुमिवाबुधः||५७||

अणुर्हि प्रथमं भूत्वा रोगः पश्चाद्विवर्धते । स जातमूलो मुष्णाति बलमायुश्च दुर्मतेः ||५८||

न मूढो लभते सञ्ज्ञां [१] तावद्यावन्न पीड्यते| पीडितस्तु मतिं पश्चात् कुरुते व्याधिनिग्रहे||५९||

अथ पुत्रांश्च दारांश्च ज्ञातींश्चाहूय भाषते। सर्वस्वेनापि मे कश्चिद्भिषगानीयतामिति||६०||

तथाविधं च कः शक्तो दुर्बलं व्याधिपीडितम्| कृशं क्षीणेन्द्रियं दीनं परित्रातुं गतायुषम् ||६१||

सत्रातारमनासाद्य बालस्त्यजति जीवितम्| गोधा लाङ्गूलबद्धेवाकृष्यमाणा बलीयसा||६२||

तस्मात् प्रागेव रोगेभ्यो रोगेषु तरुणेषु वा । भेषजैः प्रतिकुर्वीत य इच्छेत् सुखमात्मनः||६३||

तत्र श्लोकौ-
एषणाः समुपस्तम्भा बलं कारणमामयाः। तित्रैषणीये मार्गाश्च भिषजो भेषजानि च||६४||

त्रित्वेनाष्टौ समुद्दिष्टाः कृष्णात्रेयेण धीमता । भावा, भावेष्वसक्तेन येषु सर्वं प्रतिष्ठितम्||६५||

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने तित्रैषणीयो
नामैकादशोऽध्यायः||११||