त्रिविधकुक्षीयविमानम्

श्लोक 1-2

अथातस्त्रिविधकुक्षीयं विमानं व्याख्यास्यामः ||१||
इति ह स्माह भगवानात्रेयः ||२||

श्लोक 3

त्रिविधं कुक्षौ स्थापयेदवकाशांशमाहारस्याहारमुपयुञ्जानः; तद्यथा- एकमवकाशांशं मूर्तानामाहारविकाराणाम्, एकं द्रवाणाम्, एकं पुनर्वातपित्तश्लेष्मणाम्; एतावतीं ह्याहारमात्रामुपयुञ्जानो नामात्राहारजं किञ्चिदशुभं प्राप्नोति ||३||

श्लोक 4

न च केवलं मात्रावत्त्वादेवाहारस्य कृत्स्नमाहारफलसौष्ठवमवाप्तुं शक्यं, प्रकृत्यादीनामष्टानामाहारविधिविशेषायतनानां
प्रविभक्तफलत्वात्||४||

श्लोक 5-6

तत्रायं तावदाहारराशिमधिकृत्य मात्रामात्राफलविनिश्चयार्थः प्रकृतः ।
एतावानेव ह्याहारराशिविधिविकल्पो यावन्मात्रावत्त्वममात्रावत्त्वं च||५||

तत्र मात्रावत्त्वं पूर्वमुद्दिष्टं कुक्ष्यंशविभागेन, तद्भूयो विस्तरेणानुव्याख्यास्यामः ।
तद्यथा- कुक्षेरप्रणीडनमाहारेण, हृदयस्यानवरोधः, पार्श्वयोरविपाटनम्, अनतिगौरवमुदरस्य, प्रीणनमिन्द्रियाणां, क्षुत्पिपासोपरमः,
स्थानासनशयनगमनोच्छ्वासप्रश्वासहास्यसङ्कथासु सुखानुवृत्तिः, सायं प्रातश्च सुखेन परिणमनं [१], बलवर्णोपचयकरत्वं च; इति मात्रावतो लक्षणमाहारस्य भवति
||६||

श्लोक 7

अमात्रावत्त्वं पुनर्द्विविधमाचक्षते – हीनम्, अधिकं च| तत्र हीनमात्रमाहारराशि
बलवर्णोपचयक्षयकरमतृप्तिकरमुदावर्तकरमनायुष्यवृष्यमनौ
जस्यं शरीरमनोबुद्धीन्द्रियोपघातकरं सारविधमनमलक्ष्म्यावहमशीतेश्च वातविकाराणामायतनमाचक्षते, अतिमात्रं पुनः सर्वदोषप्रकोपणमिच्छन्ति कुशलाः।
यो हि मूर्तानामाहारजातानां सौहित्यं गत्वा द्रवैस्तृप्तिमापद्यते भूयस्तस्यामाशयगता
वातपित्तश्लेष्माणोऽभ्यवहारेणातिमात्रेणातिप्रपीड्यमानाः सर्वे
युगपत् प्रकोपमापद्यन्ते, ते
प्रकुपितास्तमेवाहारराशिमपरिणतमाविश्य कुक्ष्येकदेशमन्नाश्रिता [१] विष्टम्भयन्तः सहसा वाऽप्युत्तराधराभ्यां मार्गाभ्यां प्रच्यावयन्तः पृथक् पृथगिमान् विकारानभिनिर्वर्तयन्त्यतिमात्रभोक्तुः।
तत्र वातः शूलानाहाङ्गमर्दमुखशोषमूर्च्छाभ्रमाग्निवैषम्य-
पार्श्वपृष्ठकटिग्रहसिराकुञ्चनस्तम्भनानि करोति, पित्तं पुनर्ज्वरातीसारान्तर्दाहतृष्णामदभ्रमप्रलपनानि, श्लेष्मा तु छर्द्यरोचकाविपाकशीतज्वरालस्यगात्रगौरवाणि||७||

श्लोक 8-9

न च खलु
केवलमतिमात्रमेवाहारराशिमामप्रदोषकरमिच्छन्ति
[१], अपि तु खलु
गुरुरूक्षशीतशुष्कद्विष्टविष्टम्भिविदाह्यशुचिविरुद्धानामकाले
चान्नपानानामुपसेवनं,
कामक्रोधलोभमोहेर्ष्याह्नीशोकमानोद्वेगभयोपतप्तमनसा वा
यदन्नपानमुपयुज्यते, तदप्याममेव प्रदूषयति||८||

भवति चात्र-
मात्राऽप्यभ्यवहृतं पथ्यं चान्नं न जीर्यति |
चिन्ताशोकभयक्रोधदुःखशय्याप्रजागरैः||९||

श्लोक 10-11

तं द्विविधमामप्रदोषमाचक्षते भिषजः- विसूचिकाम्, अलसकं च||१०||
तत्र विसूचिकामूर्ध्वं चाधश्च प्रवृत्तामदोषां यथोक्तरूपां विद्यात्||११||

श्लोक 12

अलसकमुपदेक्ष्यामः- दुर्बलस्याल्पाग्नेर्बहुश्लेष्मणो वातमूत्रपुरीषवेगविधारिणः
स्थिरगुरुबहुरूक्षशीतशुष्कान्नसेविनस्तदन्नपानमनिलप्रपीडितं
श्लेष्मणा च विबद्धमार्गमतिमात्रप्रलीनमलसत्वान्न
बहिर्मुखीभवति,
ततश्छर्द्यतीसारवर्ज्यान्यामप्रदोषलिङ्गान्यभिदर्शयत्यतिमात्राणि| अतिमात्रप्रदुष्टाश्च दोषाः प्रदुष्टामबद्धमार्गास्तिर्यग्गच्छन्तः कदाचिदेव केवलमस्य शरीरं दण्डवत् स्तम्भयन्ति, ततस्तं [१] दण्डालसकमसाध्यं ब्रुवते ।
विरुद्धाध्यशनाजीर्णाशनशीलिनः पुनरामदोषमामविषमित्याचक्षते [२] भिषजः, विषसदृशलिङ्गत्वात्; तत् परमसाध्यम्,
-आशुकारित्वाद्विरुद्धोपक्रमत्वाच्चेति||१२||

श्लोक 13

तत्र साध्यमामं प्रदुष्टमलसीभूतमुल्लेखयेदादौ पाययित्वा सलवणमुष्णं वारि, ततः स्वेदनवर्तिप्रणिधानाभ्यामुपाचरेदुपवासयेच्चैनम्|
विसूचिकायां तु लङ्घनमेवाग्रे विरिक्तवच्चानुपूर्वी । आमप्रदोषेषु त्वन्नकाले जीर्णाहारं पुनर्दोषावलिप्तामाशयं मितगुरुकोष्ठमनन्नाभिलाषिणमभिसमीक्ष्य पाययेद्दोषशेषपाचनार्थमौषधमग्निसन्धुक्षणार्थं च, नत्वेवाजीर्णाशनम्; आमप्रदोषदुर्बलो ह्यग्निर्न युगपद्दोषमौषधमाहारजातं च शक्तः पक्तुम्|
अपि चामप्रदोषाहारौषधविभ्रमोऽतिबलत्वादुपरतकायाग्निं [१] सहसैवातुरमबलमतिपातयेत्।
आमप्रदोषजानां पुनर्विकाराणामपतर्पणेनैवोपरमो भवति, सति त्वनुबन्धे कृतापतर्पणानां व्याधीनां निग्रहे निमित्तविपरीतमपास्यौषधमातङ्कविपरीतमेवावचारयेद्यथा
स्वम्।
सर्वविकाराणामपि च निग्रहे हेतुव्याधिविपरीतमौषधमिच्छन्ति कुशलाः, तदर्थकारि वा |
विमुक्तामप्रदोषस्य [२] पुनः परिपक्वदोषस्य दीप्ते चाग्नावभ्यङ्गास्थापनानुवासनं विधिवत् स्नेहपानं च युक्त्या प्रयोज्यं प्रसमीक्ष्य
दोषभेषजदेशकालबलशरीराहारसात्म्यसत्त्वप्रकृतिवयसामव
स्थान्तराणि विकारांश्च सम्यगिति||१३||

श्लोक 14

भवति चात्र-
आहारविध्यायतनानि चाष्टौ सम्यक् परीक्ष्यात्महितं विदध्यात्। अन्यश्च यः कश्चिदिहास्ति मार्गो हितोपयोगेषु भजेत तं च ||१४||

श्लोक 15-19

अशितं खादितं पीतं लीढं च क्व विपच्यते। एतत्त्वां धीर! पृच्छामस्तन्न आचक्ष्व बुद्धिमन्||१५||
इत्यग्निवेशप्रमुखैः शिष्यैः पृष्टः पुनर्वसुः। आचचक्षे ततस्तेभ्यो यत्राहारो विपच्यते||१६||
नाभिस्तनान्तरं जन्तोरामाशय इति स्मृतः। -अशितं खादितं पीतं लीढं चात्र विपच्यते||१७||
आमाशयगतः पाकमाहारः प्राप्य केवलम्। पक्वः सर्वाशयं पश्चाद्धमनीभिः प्रपद्यते||१८||
तत्र श्लोक:-
तस्य मात्रावतो लिङ्गं फलं चोक्तं यथायथम् | अमात्रस्य तथा लिङ्गं फलं चोक्तं विभागशः||१९||

पुष्पिका

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते विमानस्थाने त्रिविधकुक्षीयविमानं नाम द्वितीयोऽध्यायः ||२||