श्लोक 1-2
अथातो धामार्गवकल्पं व्याख्यास्यामः||१||
इति ह स्माह भगवानात्रेयः||२||
श्लोक 3
कर्कोटकी कोठफला महाजालिनिरेव च|
धामार्गवस्य पर्याया राजकोशातकी तथा||३||
श्लोक 4-5
गरे गुल्मोदरे कासे वाते श्लेष्माशयस्थिते|
कफे च कण्ठवक्रस्थे कफसञ्चयजेषु च||४||
रोगेष्वेषु प्रयोज्यं स्यात् स्थिराश्च गुरवश्च ये|५|
श्लोक 5
फलं पुष्पं प्रवालं च विधिना तस्य संहरेत्||५||
श्लोक 6
प्रवालस्वरसं शुष्कं कृत्वा च गुलिकाः पृथक्|
कोविदारादिभिः पेयाः कषायैर्मधुकस्य च||६||
श्लोक 7
पुष्पादिषु पयोयोगाश्चत्वारः पञ्चमी सुरा|
पूर्ववत्…|७|
श्लोक 7-9
… जीर्णशुष्काणामतः कल्पः प्रवक्ष्यते||७||
मधुकस्य कषायेण बीजकण्ठोद्धृतं फलम्|
सगुडं व्युषितं रात्रिं कोविदारादिभिस्तथा||८||
दद्याद्गुल्मोदरार्तेभ्यो ये चाप्यन्ये कफामयाः|९|
श्लोक 9
दद्यादन्नेन संयुक्तं छर्दिहृद्रोगशान्तये||९||
श्लोक 10
चूर्णैर्वाऽप्युत्पलादीनि भावितानि प्रभूतशः|
रसक्षीरयवाग्वादितृप्तो घ्रात्वा वमेत् सुखम्||१०||
श्लोक 11-12
चूर्णीकृतस्य वर्तिं वा कृत्वा बदरसम्मिताम्|
विनीयाञ्जलिमात्रे तु पिबेद्गोऽश्वशकृद्रसे ||११||
पृषतर्ष्यकुरङ्गाह्वगजोष्ट्राश्वतराविके|
श्वदंष्ट्रखरखङ्गानां चैवं पेया शकृद्रसे ||१२||
श्लोक 13-15
जीवकर्षभकौ वीरामात्मगुप्तां शतावरीम्|
काकोलीं श्रावणीं मेदां महामेदां मधूलिकाम्||१३||
एकैकशोऽभिसञ्चूर्ण्य सह धामार्गवेण ते|
शर्करामधुसंयुक्ता लेहा हृद्दाहकासिनाम्||१४||
सुखोदकानुपानाः स्युः पित्तोष्मसहिते कफे|१५|
श्लोक 15
धान्यतुम्बुरुयूषेण कल्कः सर्वविषापहः||१५||
श्लोक 16-18
जात्याः सौमनसायिन्या रजन्याश्चोरकस्य च|
वृश्चीरस्य महाक्षुद्रसहाहैमवतस्य च||१६||
बिम्ब्याः पुनर्नवाया वा कासमर्दस्य वा पृथक् |
एकं धामार्गवं द्वे वा कषाये परिमृद्य तु||१७||
पूतं मनोविकारेषु पिबेद्वमनमुत्तमम्|१८|
श्लोक 18
तच्छृतक्षीरजं सर्पिः साधितं वा फलादिभिः||१८||
श्लोक 19-20
तत्र श्लोकौ-
पल्लवे नव चत्वारः क्षीर एकः सुरासवे|
कषाये विंशतिः कल्के दश द्वौ च शकृद्रसे||१९||
अन्न एकस्तथा घ्रेये दश लेहास्तथा घृतम्|
कल्पे धामार्गवस्योक्ताः षष्टिर्योगा महर्षिणा||२०||
पुष्पिका
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसम्पूरिते कल्पस्थाने धामार्गवकल्पो नाम चतुर्थोऽध्यायः||४||