नैगमेषप्रतिषेधाध्यायः

श्लोक 1-2

अथातो नैगमेषप्रतिषेधं व्याख्यास्यामः ||१||

यथोवाच भगवान् धन्वन्तरिः ||२||

श्लोक 3-4

बिल्वाग्निमन्थपूतीकाः कार्याः स्युः परिषेचने |
सुरा सबीजं धान्याम्लं परिषेके च शस्यते ||३||

प्रियङ्गुसरलानन्ताशतपुष्पाकुटन्नटैः |
पचेत्तैलं सगोमूत्रैर्दधिमस्त्वम्लकाञ्जिकैः ||४||

श्लोक 5

पञ्चमूलद्वयक्वाथे क्षीरे मधुरकेषु च |
पचेद्घृतं च मेधावी खर्जूरीमस्तकेऽपि वा ||५||

श्लोक 6

वचां वयःस्थां गोलोमीं जटिलां चापि धारयेत् |
उत्सादनं हितं चात्र स्कन्दापस्मारनाशनम् ||६||

श्लोक 7

सिद्धार्थकवचाहिङ्गुकुष्ठं चैवाक्षतैः सह |
भल्लातकाजमोदाश्च हितमुद्धूपनं शिशोः ||७||

श्लोक 8

मर्कटोलूकगृध्राणां पुरीषाणि नवग्रहे |
धूपः सुप्ते जने कार्यो बालस्य हितमिच्छता ||८||

श्लोक 9

तिलतण्डुलकं माल्यं भक्ष्यांश्च विविधानपि |
कुमारपितृमेषाय वृक्षमूले निवेदयेत् ||९||

श्लोक 10-11

अधस्ताद्वटवृक्षस्य स्नपनं चोपदिश्यते |
बलिं न्यग्रोधवृक्षेषु तिथौ षष्ठ्यां निवेदयेत् ||१०||

अजाननश्चलाक्षिभ्रः कामरूपी महायशाः |
बालं बालपिता देवो नैगमेषोऽभिरक्षतु ||११||

पुष्पिका

इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कुमारतन्त्रे नैगमेषप्रतिषेधो नाम (दशमोऽध्यायः, आदितः) षट्त्रिंशोऽध्यायः ||३६||
error: Content is protected !!