पुष्पितकमिन्द्रियम्

श्लोक 1-3

अथातः पुष्पितकमिन्द्रियं व्याख्यास्यामह||१||
इति ह स्माह भगवानात्रेयः ||२||
पुष्पं यथा पूर्वरूपं फलस्येह भविष्यतः। तथा लिङ्गमरिष्टाख्यं पूर्वरूपं मरिष्यतः||३||

श्लोक 4-5

अप्येवं तु भवेत् पुष्पं फलेनाननुबन्धि यत्।
फलं चापि भवेत् किञ्चिद्यस्य पुष्पं न पूर्वजम् [१] ||४||
न त्वरिष्टस्य जातस्य नाशोऽस्ति मरणादृते।
मरणं चापि तन्नास्ति यन्नारिष्टपुरःसरम्||५||

श्लोक 6

मिथ्यादृष्टमरिष्टाभमनरिष्टमजानता|
अरिष्टं वाऽप्यसम्बुद्धमेतत् प्रज्ञापराधजम्||६||

श्लोक 7

ज्ञानसम्बोधनार्थं तु लिङ्गैर्मरणपूर्वजैः। पुष्पितानुपदेक्ष्यामो नरान् बहुविधैर्बहून् [१] ||७||

श्लोक 8-17

नानापुष्पोपमो गन्धो यस्य भाति [१] दिवानिशम् । पुष्पितस्य वनस्येव नानाद्रुमलतावतः ||८||
तमाहुः पुष्पितं धीरा नरं मरणलक्षणैः ।
स ना [२] संवत्सराद्देहं जहातीति विनिश्चयः||९||
एवमेकैकशः पुष्पैर्यस्य गन्धः समो भवेत्। इष्टैर्वा यदि वाऽनिष्टैः स च पुष्पित उच्यते ||१०||
समासेनाशुभान् गन्धानेकत्वेनाथवा पुनः। आजिघ्रेद्यस्य गात्रेषु तं विद्यात् पुष्पितं भिषक् ||११||
आप्लुतानाप्लुते काये यस्य गन्धाः शुभाशुभाः । व्यत्यासेनानिमित्ताः स्युः स च पुष्पित उच्यते ||१२||
तद्यथा- चन्दनं कुष्ठं तगरागुरुणी मधु । माल्यं मूत्रपुरीषे च मृतानि [३] कुणपानि च||१३||
ये चान्ये विविधात्मानो गन्धा विविधयोनयः । तेऽप्यनेनानुमानेन विज्ञेया विकृतिं गताः||१४||
इदं चाप्यतिदेशार्थं लक्षणं गन्धसंश्रयम् । वक्ष्यामो यदभिज्ञाय भिषङ्गरणमादिशेत् ||१५||
वियोनिर्विदुरो [४] गन्धो यस्य गात्रेषु जायते। इष्टो वा यदि वाऽनिष्टो न स जीवति तां समाम् ||१६||

एतावद्गन्धविज्ञानं,…|१७|

श्लोक 17-22

…रसज्ञानमतः परम्।
आतुराणां शरीरेषु वक्ष्यते विधिपूर्वकम् ||१७||

यो रसः प्रकृतिस्थानां नराणां देहसम्भवः । स एषां चरमे काले विकारं भजते द्वयम् ||१८||
कश्चिदेवास्यवैरस्यमत्यर्थमुपपद्यते। स्वादुत्वमपरश्चापि विपुलं भजते रसः ||१९||
तमनेनानुमानेन विद्याद्विकृतिमागतम् ।
मनुष्यो हि मनुष्यस्य कथं रसमवाप्नुयात्||२०||
मक्षिकाश्चैव यूकाश्च दंशाश्च मशकैः सह । विरसादपसर्पन्ति जन्तोः कायान्मुमूर्षतः ||२१||
अत्यर्थरसिकं कायं कालपक्वस्य मक्षिकाः । अपि स्नातानुलिप्तस्य भृशमायान्ति सर्वशः ||२२||

श्लोक 23

तत्र श्लोक:-
सामान्येन मयोक्तानि लिङ्गानि रसगन्धयोः| पुष्पितस्य नरस्यैतत्फलं मरणमादिशेत्||२३||

पुष्पिका

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते इन्द्रियस्थाने पुष्पितकमिन्द्रियं नाम द्वितीयोऽध्यायः ||२||