श्लोक 1-2
अथातः पूर्वरूपीयमिन्द्रियं व्याख्यास्यामः||१||
इति ह स्माह भगवानात्रेयः ||२||
श्लोक 3-5
पूर्वरूपाण्यसाध्यानां विकाराणां पृथक् पृथक्| भिन्नाभिन्नानि वक्ष्यामो भिषजां ज्ञानवृद्धये ||३||
पूर्वरूपाणि सर्वाणि ज्वरोक्तान्यतिमात्रया | यं विशन्ति विशत्येनं मृत्युर्ज्वरपुरःसरः||४||
-अन्यस्यापि च रोगस्य पूर्वरूपाणि यं नरम् | विशन्त्यनेन कल्पेन तस्यापि मरणं ध्रुवम् ||५||
श्लोक 6-9
पूर्वरूपैकदेशांस्तु वक्ष्यामोऽन्यान् सुदारुणान्। ये रोगाननुबध्नन्ति मृत्युर्यैरनुबध्यते [१] ||६||
बलं च हीयते यस्य प्रतिश्यायश्च वर्धते । तस्य नारीप्रसक्तस्य शोषोऽन्तायोपजायते ||७||
श्वभिरुष्ट्रैः खरैर्वाऽपि याति यो दक्षिणां दिशम् | स्वप्ने यक्ष्माणमासाद्य जीवितं स विमुञ्चति ||८||
प्रेतैः सह पिबेन्मद्यं स्वप्ने यः कृष्यते शुना । सुघोरं ज्वरमासाद्य जीवितं स विमुञ्चति||९||
श्लोक 10-11
लाक्षारक्ताम्बराभं यः पश्यत्यम्बरमन्तिकात्|
स रक्तपित्तमासाद्य तेनैवान्ताय नीयते ||१०||
रक्तस्रग्रक्तसर्वाङ्गो रक्तवासा मुहुर्हसन् ।
यः स्वप्ने ह्रियते [१] नार्या स रक्तं प्राप्य सीदति||११||
श्लोक 12-13
शूलाटोपान्त्रकूजाश्च दौर्बल्यं चातिमात्रया| नखादिषु च वैवर्ण्यं गुल्मेनान्तकरो ग्रहः||१२||
लता कण्टकिनी यस्य दारुणा हृदि जायते। स्वप्ने गुल्मस्तमन्ताय क्रूरो विशति मानवम्||१३||
श्लोक 14-15
कायेऽल्पमपि संस्पृष्टं सुभृशं यस्य दीर्यते। क्षतानि च न रोहन्ति कुष्ठैर्मृत्युर्हिनस्ति तम्||१४||
नग्नस्याज्यावसिक्तस्य जुह्वतोऽग्निमनर्चिषम्| पद्मान्युरसि जायन्ते स्वप्ने कुष्ठैर्मरिष्यतः||१५||
श्लोक 16-17
स्नातानुलिप्तगात्रेऽपि यस्मिन् गृध्नन्ति मक्षिकाः| स प्रमेहेण संस्पर्शं प्राप्य तेनैव हन्यते ||१६||
स्नेहं बहुविधं स्वप्ने चण्डालैः सह यः पिबेत्। बध्यते स प्रमेहेण स्पृश्यतेऽन्ताय मानवः||१७||
श्लोक 18-23
ध्यानायासी तथोद्वेगौ मोहश्चास्थानसम्भवः । -अरतिर्बलहानिश्च मृत्युरुन्मादपूर्वकः||१८||
आहारद्वेषिणं पश्यन् लुप्तचित्तमुदर्दितम्। विद्याद्धीरो मुमूर्षु तमुन्मादेनातिपातिना||१९||
क्रोधनं त्रासबहुलं सकृत्प्रहसिताननम्| मूर्च्छापिपासाबहुलं हन्त्युन्मादः शरीरिणम्||२०||
नृत्यन् रक्षोगणैः साकं यः स्वप्नेऽम्भसि सीदति [१] । स प्राप्य भृशमुन्मादं याति लोकमतः परम्||२१||
असत्तमः पश्यति यः शृणोत्यप्यसतः स्वनान्| बहून् बहुविधान् जाग्रत् सोऽपस्मारेण बध्यते||२२||
मत्तं नृत्यन्तमाविध्य प्रेतो हरति यं नरम् । स्वप्ने हरति तं मृत्युरपस्मारपुरःसरः||२३||
श्लोक 24-25
स्तभ्येते प्रतिबुद्धस्य हनू मन्ये तथाऽक्षिणी | यस्य तं बहिरायामो गृहीत्वा हन्त्यसंशयम्||२४||
शष्कुलीर्वाऽप्यपूपान् वा स्वप्ने खादति यो नरः |
स चेत्तादृक् [१] छर्दयति प्रतिबुद्धो न जीवति||२५||
श्लोक 26
एतानि पूर्वरूपाणि यः सम्यगवबुध्यते।
स एषामनुबन्धं च फलं च ज्ञातुमर्हति||२६||
श्लोक 27-40
इमांश्चाप्यपरान् स्वप्नान् दारुणानुपलक्षयेत्। व्याधितानां विनाशाय क्लेशाय महतेऽपि वा||२७||
यस्योत्तमाङ्गे जायन्ते वंशगुल्मलतादयः।
वयांसि च विलीयन्ते स्वप्ने मौण्ड्यमियाच्च यः ||२८||
गृध्रोलूकश्वकाकाद्यैः स्वप्ने यः परिवार्यते।
रक्षः प्रेतपिशाचस्त्रीचण्डालद्रविडान्ध्रकैः [१] ||२९||
वंशवेत्रलतापाशतृणकण्टकसङ्कटे।
संसज्जति [२] हि यः स्वप्ने यो गच्छन् [३] प्रपतत्यपि ||३०||
भूमौ पशूपधानायां वल्मीके वाऽथ भस्मनि|
श्मशानायतने श्वभ्रे स्वप्ने यः प्रपतत्यपि [४] ||३१||
कलुषेऽम्भसि पङ्के वा कूपे वा तमसाऽऽवृते।
स्वप्ने मज्जति शीघ्रेण स्रोतसा ह्रियते [५] च यः||३२||
स्नेहपानं तथाऽभ्यङ्गः प्रच्छर्दनविरेचने। हिरण्यलाभः कलहः स्वप्ने बन्धपराजयौ||३३||
उपानद्युगनाशश्च प्रपातः पादचर्मणोः ।
हर्षः स्वप्ने प्रकुपितैः पितृभिश्चावभर्त्सनम्||३४||
दन्तचन्द्रार्कनक्षत्रदेवतादीपचक्षुषाम् [६] |
पतनं वा विनाशो वा स्वप्ने भेदो नगस्य वा ||३५||
रक्तपुष्पं वनं भूमिं पापकर्मालयं चिताम्| गुहान्धकारसम्बाधं स्वप्ने यः प्रविशत्यपि ||३६||
रक्तमाली हसन्नुच्चैर्दिग्वासा दक्षिणां दिशम्। दारुणामटवीं स्वप्ने कपियुक्तेन याति वा||३७||
काषायिणामसौम्यानां नग्नानां दण्डधारिणाम्| कृष्णानां रक्तनेत्राणां स्वप्ने नेच्छन्ति दर्शनम्||३८||
कृष्णा पापा [७] निराचारा दीर्घकेशनखस्तनी| विरागमाल्यवसना स्वप्ने कालनिशा मता ||३९||
इत्येते दारुणाः स्वप्ना रोगी यैर्याति पञ्चताम्| अरोगः संशयं गत्वा कश्चिदेव प्रमुच्यते||४०||
श्लोक 41-42
मनोवहानां
पूर्णत्वाद्दोषैरतिबलैस्त्रिभिः।
स्रोतसां दारुणान् स्वप्नान् काले पश्यति दारुणे||४१||
नातिप्रसुप्तः पुरुषः सफलानफलांस्तथा |
इन्द्रियेशेन मनसा स्वप्नान् पश्यत्यनेकधा||४२||
श्लोक 43
दृष्टं श्रुतानुभूतं च प्रार्थितं कल्पितं तथा। भाविकं दोषजं चैव स्वप्नं सप्तविधं विदुः||४३||
श्लोक 44-47
तत्र पञ्चविधं पूर्वमफलं भिषगादिशेत्। दिवास्वप्नमतिह्रस्वमतिदीर्घं च [१] बुद्धिमान् ||४४||
दृष्टः प्रथमरात्रे यः स्वप्नः सोऽल्पफलो [२] भवेत्। न स्वपेद्यं पुनर्दृष्ट्वा स सद्यः स्यान्महाफलः||४५||
अकल्याणमपि स्वप्नं दृष्ट्वा तत्रैव यः पुनः।
पश्येत् सौम्यं शुभाकारं तस्य विद्याच्छुभं फलम्||४६||
तत्र श्लोक:-
पूर्वरूपाण्यथ स्वप्नान् य इमान् वेत्ति दारुणान्|
न स मोहादसाध्येषु कर्माण्यारभते भिषक् ||४७||
पुष्पिका
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते इन्द्रियस्थाने पूर्वरूपीयमिन्द्रियं नाम पञ्चमोऽध्यायः||५||