सप्तलाशङ्खिनीकल्पः

श्लोक 1-3

अथातः सप्तलाशङ्खिनीकल्पं व्याख्यास्यामः||१||

इति ह स्माह भगवानात्रेयः||२||

सप्तला चर्मसाह्वा च बहुफेनरसा च सा|
शङ्खिनी तिक्तला चैव यवतिक्ताऽक्षि(क्ष)पीडकः||३||

श्लोक 4-5

ते गुल्मगरहृद्रोगकुष्ठशोफोदरादिषु|
विकासितीक्ष्णरूक्षत्वाद्योज्ये श्लेष्माधिकेषु तु||४||

नातिशुष्कं फलं ग्राह्यं शङ्खिन्या निस्तुषीकृतम्|
सप्तलायाश्च मूलानि गृहीत्वा भाजने क्षिपेत्||५||

श्लोक 6-8

अक्षमात्रं तयोः पिण्डं प्रसन्नालवणायुतम्|
हृद्रोगे कफवातोत्थे गुल्मे चैव प्रयोजयेत्||६||

प्रियालपीलुकर्कन्धुकोलाम्रातकदाडिमैः|
द्राक्षापनसखर्जूरबदराम्लपरूषकैः||७||

मैरेये दधिमण्डेऽम्ले सौवीरकतुषोदके|
सीधौ चाप्येष कल्पः स्यात् सुखं शीघ्रविरेचनः||८||

श्लोक 9-10

तैलं विदारिगन्धाद्यैः पयसि क्वथिते पचेत्|
सप्तलाशङ्खिनीकल्के त्रिवृच्छ्यामार्धभागिके||९||

दधिमण्डेन सन्नीय सिद्धं तत् पाययेत च|
शङ्खिनीचूर्णभागौ द्वौ तिलचूर्णस्य चापरः||१०||

हरीतकीकषायेण तैलं तत्पीडितं पिबेत्|
अतसीसर्षपैरण्डकरञ्जष्वेष संविधिः||११||

श्लोक 12-16

शङ्खिनीसप्तलासिद्धात् क्षीराद्यदुदियाद्घृतम्|
कल्कभागे तयोरेव त्रिवृच्छ्यामार्धसंयुते||१२||

क्षीरेणालोड्य सम्पक्वं पिबेत्तच्च विरेचनम्|
दन्तीद्रवन्त्योः कल्पोऽयमजशृङ्ग्यजगन्धयोः||१३||

क्षीरिण्या नीलिकायाश्च तथैव च करञ्जयोः|
मसूरविदलायाश्च प्रत्यक्पर्ण्यास्तथैव च||१४||

द्विवर्गार्धांशकल्केन तद्वत् साध्यं घृतं पुनः|
शङ्खिनीसप्तलाधात्रीकषाये साधयेद्घृतम् ||१५||

त्रिवृत्कल्पेन सर्पिश्च त्रयो लेहाश्च लोध्रवत् |
सुराकम्पिल्लयोर्योगः कार्यो लोध्रवदेव च||१६||

श्लोक 17

दन्तीद्रवन्त्योः कल्पेन सौवीरकतुषोदके|
अजगन्धाजशृङ्ग्योश्च तद्वत् स्यातां विरेचने||१७||

श्लोक 18-19

तत्र श्लोकौ-
कषाया दश षट् चैव षट् तैलेऽष्टौ च सर्पिषि|
पञ्च मद्ये त्रयो लेहा योगः कम्पिल्लके तथा||१८||

सप्तलाशङ्खिनीभ्यां ते त्रिंशदुक्ता नवाधिकाः|
योगाः सिद्धाः समस्ताभ्यामेकशोऽपि च ते हिताः||१९||

पुष्पिका 

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते
दृढबलसम्पूरिते कल्पस्थाने सप्तलाशङ्खिनीकल्पो  नामैकादशोऽध्यायः||११||
error: Content is protected !!