प्रमेहचिकित्सितम्

श्लोक 1-2

अथातः प्रमेहचिकित्सितं व्याख्यास्यामः||१||

इति ह स्माह भगवानात्रेयः||२||

श्लोक 3

निर्मोहमानानुशयो निराशः पुनर्वसुर्ज्ञानतपोविशालः|
कालेऽग्निवेशाय सहेतुलिङ्गानुवाच मेहाञ्शमनं च तेषाम्||३||

श्लोक 4

आस्यासुखं स्वप्नसुखं दधीनि ग्राम्यौदकानूपरसाः पयांसि|
नवान्नपानं गुडवैकृतं च प्रमेहहेतुः कफकृच्च सर्वम्||४||

श्लोक 5-6

मेदश्च मांसं च शरीरजं च क्लेदं कफो बस्तिगतं प्रदूष्य|
करोति मेहान् समुदीर्णमुष्णैस्तानेव पित्तं परिदूष्य चापि||५||

क्षीणेषु दोषेष्ववकृष्य बस्तौ धातून् प्रमेहाननिलः करोति|
दोषो हि बस्तिं समुपेत्य मूत्रं सन्दूष्य मेहाञ्जनयेद्यथास्वम्||६||

श्लोक 7

साध्याः कफोत्था दश, पित्तजाः षट् याप्या, न साध्यः पवनाच्चतुष्कः|
समक्रियत्वाद्विषमक्रियत्वान्महात्ययत्वाच्च यथाक्रमं ते||७||

श्लोक 8

कफः सपित्तः पवनश्च दोषा मेदोऽस्रशुक्राम्बुवसालसीकाः|
मज्जा रसौजः पिशितं च दूष्याः प्रमेहिणां, विंशतिरेव मेहाः||८||

श्लोक 9-11

जलोपमं चेक्षुरसोपमं वा घनं घनं चोपरि विप्रसन्नम्|
शुक्लं सशुक्रं शिशिरं शनैर्वा लालेव वा वालुकया युतं वा||९||

विद्यात् प्रमेहान् कफजान् दशैतान् क्षारोपमं कालमथापि नीलम्|
हारिद्रमाञ्जिष्ठमथापि रक्तमेतान् प्रमेहान् षडुशन्ति पित्तात्||१०||

मज्जौजसा वा वसयाऽन्वितं वा लसीकया वा सततं विबद्धम्|
चतुर्विधं मूत्रयतीह वाताच्छेषेषु धातुष्वपकर्षितेषु||११||

श्लोक 12

वर्णं रसं स्पर्शमथापि गन्धं यथास्वदोषं भजते प्रमेहः|
श्यावारुणो वातकृतः सशूलो मज्जादिसाद्गुण्यमुपैत्यसाध्यः||१२||

श्लोक 13-14

स्वेदोऽङ्गगन्धः शिथिलाङ्गता च शय्यासनस्वप्नसुखे रतिश्च|
हृन्नेत्रजिह्वाश्रवणोपदेहो घनाङ्गता केशनखातिवृद्धिः||१३||

शीतप्रियत्वं गलतालुशोषो माधुर्यमास्ये करपाददाहः|
भविष्यतो मेहगदस्य रूपं मूत्रेऽभिधावन्ति पिपीलिकाश्च||१४||

श्लोक 15-17

स्थूलः प्रमेही बलवानिहैकः कृशस्तथैकः परिदुर्बलश्च|
सम्बृंहणं तत्र कृशस्य कार्यं संशोधनं दोषबलाधिकस्य||१५||

स्निग्धस्य योगा विविधाः प्रयोज्याः कल्पोपदिष्टा मलशोधनाय |
ऊर्ध्वं तथाऽधश्च मलेऽपनीते मेहेषु सन्तर्पणमेव कार्यम्||१६||

गुल्मः क्षयो मेहनबस्तिशूलं मूत्रग्रहश्चाप्यपतर्पणेन|
प्रमेहिणः स्युः, परितर्पणानि कार्याणि तस्य प्रसमीक्ष्य वह्निम्||१७||

श्लोक 18-24

संशोधनं नार्हति यः प्रमेही तस्य क्रिया संशमनी प्रयोज्या|
मन्थाः कषाया यवचूर्णलेहाः प्रमेहशान्त्यै लघवश्च भक्ष्याः||१८||

ये विष्किरा ये प्रतुदा विहङ्गास्तेषां रसैर्जाङ्गलजैर्मनोज्ञैः|
यवौदनं रूक्षमथापि वाट्यमद्यात् ससक्तूनपि चाप्यपूपान्||१९||

मुद्गादियूषैरथ तिक्तशाकैः पुराणशाल्योदनमाददीत|
दन्तीङ्गुदीतैलयुतं प्रमेही तथाऽतसीसर्षपतैलयुक्तम्||२०||

सषष्टिकं स्यात्तृणधान्यमन्नं यवप्रधानस्तु भवेत् प्रमेही|
यवस्य भक्ष्यान् विविधांस्तथाऽद्यात् कफप्रमेही मधुसम्प्रयुक्तान्||२१||

निशिस्थितानां त्रिफलाकषाये स्युस्तर्पणाः क्षौद्रयुता यवानाम्|
तान् सीधुयुक्तान् प्रपिबेत् प्रमेही प्रायोगिकान्मेहवधार्थमेव||२२||

ये श्लेष्ममेहे विहिताः कषायास्तैर्भावितानां च पृथग्यवानाम्|
सक्तूनपूपान् सगुडान् सधानान् भक्ष्यांस्तथाऽन्यान् विविधांश्च खादेत् ||२३||

खराश्वगोहंसपृषद्भृतानां तथा यवानां विविधाश्च भक्ष्याः|
देयास्तथा वेणुयवा यवानां कल्पेन गोधूममयाश्च भक्ष्याः||२४||

श्लोक 25

संशोधनोल्लेखनलङ्घनानि काले प्रयुक्तानि कफप्रमेहान्|
जयन्ति पित्तप्रभवान् विरेकः सन्तर्पणः संशमनो विधिश्च||२५||

श्लोक 26-34

दार्वीं सुराह्वां त्रिफलां समुस्तां कषायमुत्क्वाथ्य पिबेत् प्रमेही|
क्षौद्रेण युक्तामथवा हरिद्रां पिबेद्रसेनामलकीफलानाम्||२६||

हरीतकीकट्फलमुस्तलोध्रं पाठाविडङ्गार्जुनधन्वनाश्च|
उभे हरिद्रे तगरं विडङ्गं कदम्बशालार्जुनदीप्यकाश्च||२७||

दार्वी विडङ्गं खदिरो धवश्च सुराह्वकुष्ठागुरुचन्दनानि|
दार्व्यग्निमन्थौ त्रिफला सपाठा पाठा च मूर्वा च तथा श्वदंष्ट्रा||२८||

यवान्युशीराण्यभयागुडूचीचव्याभयाचित्रकसप्तपर्णाः|
पादैः कषायाः कफमेहिनां ते दशोपदिष्टा मधुसम्प्रयुक्ताः||२९||

उशीरलोध्राञ्जनचन्दनानामुशीरमुस्तामलकाभयानाम्|
पटोलनिम्बामलकामृतानां मुस्ताभयापद्मकवृक्षकाणाम्||३०||

लोध्राम्बुकालीयकधातकीनां निम्बार्जुनाम्रातनिशोत्पलानाम्|
शिरीषसर्जार्जुनकेशराणां प्रियङ्गुपद्मोत्पलकिंशुकानाम्||३१||

अश्वत्थपाठासनवेतसानां कटङ्कटेर्युत्पलमुस्तकानाम्|
पैत्तेषु मेहेषु दश प्रदिष्टाः पादैः कषाया मधुसम्प्रयुक्ताः||३२||

सर्वेषु मेहेषु मतौ तु पूर्वौ कषाययोगौ विहितास्तु सर्वे|
मन्थस्य पाने यवभावनायां स्युर्भोजने पानविधौ पृथक् च||३३||

सिद्धानि तैलानि घृतानि चैव देयानि मेहेष्वनिलात्मकेषु|
मेदः कफश्चैव कषाययोगैः स्नेहैश्च वायुः शममेति तेषाम्||३४||

श्लोक 35-36

कम्पिल्लसप्तच्छदशालजानि बैभीतरौहीतककौटजानि|
कपित्थपुष्पाणि च चूर्णितानि क्षौद्रेण लिह्यात् कफपित्तमेही||३५||

पिबेद्रसेनामलकस्य चापि कल्कीकृतान्यक्षसमानि काले|
जीर्णे च भुञ्जीत पुराणमन्नं मेही रसैर्जाङ्गलजैर्मनोज्ञैः||३६||

श्लोक 37-40

दृष्ट्वाऽनुबन्धं पवनात् कफस्य पित्तस्य वा स्नेहविधिर्विकल्प्यः|
तैलं कफे स्यात् स्वकषायसिद्धं पित्ते घृतं पित्तहरैः कषायैः||३७||

त्रिकण्टकाश्मन्तकसोमवल्कैर्भल्लातकैः सातिविषैः सलोध्रैः|
वचापटोलार्जुननिम्बमुस्तैर्हरिद्रया पद्मकदीप्यकैश्च||३८||

मञ्जिष्ठया चागुरुचन्दनैश्च सर्वैः समस्तैः कफवातजेषु|
मेहेषु तैलं विपचेद्, घृतं तु पैत्तेषु, मिश्रं त्रिषु लक्षणेषु||३९||

फलत्रिकं दारुनिशां विशालां मुस्तां च निःक्वाथ्य निशां सकल्काम्|
पिबेत् कषायं मधुसम्प्रयुक्तं सर्वप्रमेहेषु समुद्धतेषु||४०||

श्लोक 41-44

लोध्रं शटीं पुष्करमूलमेलां मूर्वां विडङ्गं त्रिफलां यमानीम्|
चव्यं प्रियङ्गुं क्रमुकं विशालां किराततिक्तं कटुरोहिणीं च||४१||

भार्ङ्गीं नतं चित्रकपिप्पलीनां मूलं सकुष्ठातिविषं सपाठम्|
कलिङ्गकन् केशरमिन्द्रसाह्वां नखं सपत्रं मरिचं प्लवं च||४२||

द्रोणेऽम्भसः कर्षसमानि पक्त्वा पूते चतुर्भागजलावशेषे|
रसेऽर्धभागं मधुनः प्रदाय पक्षं निधेयो घृतभाजनस्थः||४३||

मध्वासवोऽयं कफपित्तमेहान् क्षिप्रं निहन्याद्द्विपलप्रयोगात्|
पाण्ड्वामयार्शांस्यरुचिं ग्रहण्या दोषं किलासं विविधं च कुष्ठम्||४४||
इति मध्वासवः|

श्लोक 45

क्वाथः स एवाष्टपलं च दन्त्या भल्लातकानां च चतुष्पलं स्यात्|
सितोपला त्वष्टपला विशेषः क्षौद्रं च तावत् पृथगासवौ तौ||४५||

श्लोक 46-48

सारोदकं वाऽथ कुशोदकं वा मधूदकं वा त्रिफलारसं वा|
सीधुं पिबेद्वा निगदं प्रमेही माध्वीकमग्र्यं चिरसंस्थितं वा||४६||

मांसानि शूल्यानि मृगद्विजानां खादेद्यवानां विविधांश्च भक्ष्यान्|
संशोधनारिष्टकषायलेहैः सन्तर्पणोत्थाञ् शमयेत् प्रमेहान्||४७||

भृष्टान् यवान् भक्षयतः प्रयोगाच्छुष्कांश्च सक्तून्न भवन्ति मेहाः|
श्वित्रं च कृच्छ्रं कफजं च कुष्ठं तथैव मुद्गामलकप्रयोगान्||४८||

श्लोक 49

सन्तर्पणोत्थेषु गदेषु योगा मेदस्विनां ये च मयोपदिष्टाः|
विरूक्षणार्थं कफपित्तजेषु सिद्धाः प्रमेहेष्वपि ते प्रयोज्याः||४९||

श्लोक 50

व्यायामयोगैर्विविधैः प्रगाढैरुद्वर्तनैः स्नानजलावसेकैः|
सेव्यत्वगेलागुरुचन्दनाद्यैर्विलेपनैश्चाशु न सन्ति मेहाः||५०||

श्लोक 51

क्लेदश्च मेदश्च कफश्च वृद्धः प्रमेहहेतुः प्रसमीक्ष्य तस्मात्|
वैद्येन पूर्वं कफपित्तजेषु मेहेषु कार्याण्यपतर्पणानि||५१||

श्लोक 52

या वातमेहान् प्रति पूर्वमुक्ता वातोल्बणानां विहिता क्रिया सा|
वायुर्हि मेहेष्वतिकर्शितानां कुप्यत्यसाध्यान् प्रति नास्ति चिन्ता||५२||

श्लोक 53

यैर्हेतुभिर्ये प्रभवन्ति मेहास्तेषु प्रमेहेषु न ते निषेव्याः|
हेतोरसेवा विहिता यथैव जातस्य रोगस्य भवेच्चिकित्सा||५३||

श्लोक 54

हारिद्रवर्णं रुधिरं च मूत्रं विना प्रमेहस्य हि पूर्वरूपैः|
यो मूत्रयेत्तं न वदेत् प्रमेहं रक्तस्य पित्तस्य हि स प्रकोपः||५४||

श्लोक 55

दृष्ट्वा प्रमेहं मधुरं सपिच्छं मधूपमं स्याद्द्विविधो विचारः|
क्षीणेषु दोषेष्वनिलात्मकः स्यात् सन्तर्पणाद्वा कफसम्भवः स्यात्||५५||

श्लोक 56

सपूर्वरूपाः कफपित्तमेहाः क्रमेण ये वातकृताश्च मेहाः|
साध्या न ते, पित्तकृतास्तु याप्याः, साध्यास्तु मेदो यदि न प्रदुष्टम्||५६||

श्लोक 57

जातः प्रमेही मधुमेहिनो वा न साध्य उक्तः स हि बीजदोषात्|
ये चापि केचित् कुलजा विकारा भवन्ति तांश्च प्रवदन्त्यसाध्यान्||५७||

श्लोक 58

प्रमेहिणां याः पिडका मयोक्ता रोगाधिकारे पृथगेव सप्त|
ताः शल्यविद्भिः कुशलैश्चिकित्स्याः शस्त्रेण संशोधनरोपणैश्च||५८||

श्लोक 59-61

तत्र श्लोकाः-
हेतुर्दोषो दूष्यं मेहानां साध्यतानुरूपश्च|
मेही द्विविधस्त्रिविधं भिषग्जितमतिक्षपणदोषः||५९||

आद्या यवान्नविकृतिर्मन्था मेहापहाः कषायाश्च|
तैलघृतलेहयोगा भक्ष्याः प्रवरासवाः सिद्धाः||६०||

व्यायामविधिर्विविधः स्नानान्युद्वर्तनानि गन्धाश्च|
मेहानां प्रशमार्थं चिकित्सिते दिष्टमेतावत्||६१||

पुष्पिका

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सितस्थाने
प्रमेहचिकित्सितं नाम षष्ठोऽध्यायः||६||