श्लोक 1-2
अथातः फलमात्रासिद्धिं व्याख्यास्यामः||१||
इति ह स्माह भगवानात्रेयः||२||
श्लोक 3-14
भगवन्तमुदारसत्त्वधीश्रुतिविज्ञानसमृद्धमत्रिजम्|
फलबस्तिवरत्वनिश्चये सविवादा मुनयोऽभ्युपागमन्||३||
भृगुकौशिककाप्यशौनकाः सपुलस्त्यासितगौतमादयः|
कतमत् प्रवरं फलादिषु स्मृतमास्थापनयोजनास्विति||४||
कफपित्तहरं वरं फलेष्वथ जीमूतकमाह शौनकः|
मृदुवीर्यतयाऽभिनत्ति तच्छकृदित्याह नृपोऽथ वामकः||५||
कटुतुम्बममन्यतोत्तमं वमने दोषसमीरणं च तत्|
तदवृष्यमशैत्यतीक्ष्णताकटुरौक्ष्यादिति गौतमोऽब्रवीत् ||६||
कफपित्तनिबर्हणं परं स च धामार्गवमित्यमन्यत |
तदमन्यत वातलं पुनर्बडिशो ग्लानिकरं बलापहम्||७||
कुटजं प्रशशंस चोत्तमं न बलघ्नं कफपित्तहारि च|
अतिविज्जलमौर्ध्वभागिकं पवनक्षोभि च काप्य आह तत्||८||
कृतवेधनमाह वातलं कफपित्तं प्रबलं हरेदिति|
तदसाध्विति भद्रशौनकः कटुकं चातिबलघ्नमित्यपि||९||
इति तद्वचनानि हेतुभिः सुविचित्राणि निशम्य बुद्धिमान् |
प्रशशंस फलेषु निश्चयं परमं चात्रिसुतोऽब्रवीदिदम्||१०||
फलदोषगुणान् सरस्वती प्रति सर्वैरपि सम्यगीरिता|
न तु किञ्चिददोषनिर्गुणं गुणभूयस्त्वमतो विचिन्त्यते ||११||
इह कुष्ठहिता गरागरी हितमिक्ष्वाकु तु मेहिने मतम्|
कुटजस्य फलं हृदामये प्रवरं कोठफलं च पाण्डुषु||१२||
उदरे कृतवेधनं हितं, मदनं सर्वगदाविरोधि तु|
मधुरं सकषायतिक्तकं तदरूक्षं सकटूष्णविज्जलम्||१३||
कफपित्तहृदाशुकारि चाप्यनपायं पवनानुलोमि च|
फलनाम विशेषतस्त्वतो लभतेऽन्येषु फलेषु सत्स्वपि||१४||
श्लोक 15-18
गुरुणेति वचस्युदाहृते मुनिसङ्घेन च पूजिते ततः |
प्रणिपत्य मुदा समन्वितः सहितः शिष्यगणोऽनुपृष्टवान्||१५||
सर्वकर्मगुणकृद्गुरुणोक्तो बस्तिरूर्ध्वमथ नैति नाभितः|
नाभ्यधो गुदमतः स शरीरात् सर्वतः कथमपोहति दोषान् ||१६||
तद्गुरुरब्रवीदिदं शरीरं तन्त्रयतेऽनिलः सङ्गविघातात् |
केवल एव दोषसहितो वा स्वाशयगः प्रकोपमुपयाति||१७||
तं पवनं सपित्तकफविट्कं शुद्धिकरोऽनुलोमयति बस्तिः|
सर्वशरीरगश्च गदसङ्घस्तत्प्रशमात् प्रशान्तिमुपयाति||१८||
श्लोक 19-22
अथाधिगम्यार्थमखण्डितं धिया गजोष्ट्रगोश्वाव्यजकर्म रोगनुत्|
अपृच्छदेनं स च बस्तिमब्रवीद्विधिं च तस्याह पुनः प्रचोदितः||१९||
आजोरणौ सौम्य गजोष्ट्रयोः कृते गवाश्वयोर्बस्तिमुशन्ति माहिषम्|
अजाविकानां तु जरद्गवोद्भवं वदन्ति बस्तिं तदुपायचिन्तकाः||२०||
अरत्निमष्टादशषोडशाङ्गुलं तथैव नेत्रं हि दशाङ्गुलं क्रमात्|
गजोष्ट्रगोश्वाव्यजबस्तिसन्धौ चतुर्थभागोपनयं हितं वदेत् ||२१||
प्रस्थस्त्वजाव्योर्हि निरूहमात्रा गवादिषु द्वित्रिगुणं यथाबलम्|
निरूहमुष्ट्रस्य तथाऽऽढकद्वयं गजस्य वृद्धिस्त्वनुवासनेऽष्टमः||२२||
श्लोक 23-26
कलिङ्गकुष्ठे मधुकं च पिप्पली वचा शताह्वा मदनं रसाञ्जनम्|
हितानि सर्वेषु गुडः ससैन्धवो द्विपञ्चमूलं च विकल्पना त्वियम्||२३||
गजेऽधिकाऽश्वत्थवटाश्वकर्णकाः सखादिरप्रग्रहशालतालजाः|
तथा च पर्ण्यौ धवशिग्रुपाटली मधूकसाराः सनिकुम्भचित्रकाः||२४||
पलाशभूतीकसुराह्वरोहिणीकषाय उक्तस्त्वधिको गवां हितः|
पलाशदन्तीसुरदारुकत्तृणद्रवन्त्य उक्तास्तुरगस्य चाधिकाः||२५||
खरोष्ट्रयोः पीलुकरीरखादिराः शम्याकबिल्वादिगणस्य च च्छदाः|
अजाविकानां त्रिफलापरूषकं कपित्थकर्कन्धु सबिल्वकोलजम्||२६||
श्लोक 27
अथाग्निवेशः सततातुरान् नरान् हितं च पप्रच्छ गुरुस्तदाह च|
सदाऽऽतुराः श्रोत्रियराजसेवकास्तथैव वेश्या सह पण्यजीविभिः||२७||
श्लोक 28-30
द्विजो हि वेदाध्ययनव्रताह्निकक्रियादिभिर्देहहितं न चेष्टते |
नृपोपसेवी नृपचित्तरक्षणात् परानुरोधाद्बहुचिन्तनाद्भयात् ||२८||
नृचित्तवर्तिन्युपचारतत्परा मृजाभि(वि)भूषानिरता पणाङ्गना|
सदासनादत्यनुबन्धविक्रयक्रयादिलोभादपि पण्यजीविनः||२९||
सदैव ते ह्यागतवेगनिग्रहं समाचरन्ते न च कालभोजनम्|
अकालनिर्हारविहारसेविनो भवन्ति येऽन्येऽपि सदाऽऽतुराश्च ते||३०||
श्लोक 31-36
समीरणं वेगविधारणोद्धतं विबन्धसर्वाङ्गरुजाकरं भिषक्|
समीक्ष्य तेषां फलवर्तिमादितः सुकल्पितां स्नेहवतीं प्रयोजयेत्||३१||
पुनर्नवैरण्डनिकुम्भचित्रकान् सदेवदारुत्रिवृतानिदिग्धिकान्|
महान्ति मूलानि च पञ्च यानि विपाच्य मूत्रे दधिमस्तुसंयुते||३२||
सतैलसर्पिर्लवणैश्च पञ्चभिर्विमूर्च्छितं बस्तिमथ प्रयोजयेत्|
निरूहितं धन्वरसेन भोजितं निकुम्भतैलेन ततोऽनुवासयेत्||३३||
बलां सरास्नां फलबिल्वचित्रकान् द्विपञ्चमूलं कृतमालकात् फलम्|
यवान् कुलत्थांश्च पचेज्जलाढके रसः स पेष्यैस्तु कलिङ्गकादिभिः||३४||
सतैलसर्पिर्गुडसैन्धवो हितः सदातुराणां बलवर्णवर्धनः|
तथाऽनुवास्ये मधुकेन साधितं फलेन बिल्वेन शताह्वयाऽपि वा||३५||
सजीवनीयस्तु रसोऽनुवासने निरूहणे चालवणः शिशोर्हितः|
न चान्यदाश्वङ्गबलाभिवर्धनं निरूहबस्तेः शिशुवृद्धयोः परम्||३६||
श्लोक 37
तत्र श्लोकः-
फलकर्म बस्तिवरता नेत्रं यद्बस्तयो गवादीनाम्|
सततातुराश्च दिष्टाः फलमात्रायां हितं चैषाम्||३७||
पुष्पिका
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसम्पूरिते
सिद्धिस्थाने फलमात्रासिद्धिर्नामैकादशोऽध्यायः||११||