भगन्दरनिदानम्

श्लोक 1

भगन्दरपूर्वरूपपिडकालक्षणम्

अथ भगन्दरनिदानम् |
गुदस्य द्व्यङ्गुले क्षेत्रे पार्श्वतः पिडकाऽऽर्तिकृत् |
भिन्ना भगन्दरो ज्ञेयः स च पञ्चविधो मतः ||१||

श्लोक 2-3

वातिक(शतपोनक)भगन्दरस्य निदानसम्प्राप्तिपूर्वकं लक्षणम्

कषायरूक्षैस्त्वतिकोपितोऽनिलस्त्वपानदेशे पिडकां करोति याम् |
उपेक्षणात्पाकमुपैति दारुणं रुजा च भिन्नाऽरुणफेनवाहिनी ||२||

तत्रागमो मूत्रपुरीषरेतसां व्रणैरनेकैः शतपोनकं वदेत् |३|

श्लोक 3-4

पैत्तिक(उष्ट्रग्रीव)भगन्दरस्य निदानादिपूर्वकं लक्षणम्

प्रकोपणैः पित्तमतिप्रकोपितं करोति रक्तां पिडकां गुदाश्रिताम् ||३||

तदाऽऽशुपाकाऽहिमपूतिवाहिनीं भगन्दरं तूष्ट्रशिरोधरं वदेत् ||४||

श्लोक 5

श्लैष्मिक(परिस्रावि)भगन्दरस्य लक्षणम्

कण्डूयनो घनस्रावी कठिनो मन्दवेदनः |
श्वेतावभासः कफजः परिस्रावी भगन्दरः ||५||

श्लोक 6

सन्निपातज(शम्बूकावर्त)भगन्दरलक्षणम्

बहुवर्णरुजास्रावा पिडका गोस्तनोपमा |
शम्बूकावर्तवन्नाडी शम्बूकावर्तको मतः ||६||

श्लोक 7

आगन्तुक(उन्मार्गि)भगन्दरलक्षणम्

क्षताद्गतिः पायुगता विवर्धते ह्युपेक्षणात् स्युः क्रिमयो विदार्य ते |
प्रकुर्वते मार्गमनेकधा मुखैर्व्रणैस्तदुन्मार्गिभगन्दरं वदेत् ||७||

श्लोक 8

भगन्दरस्य साध्यासाध्यविचारः

घोराः साधयितुं दुःखाः सर्व एव भगन्दराः |
तेष्वसाध्यस्त्रिदोषोत्थः क्षतजश्च विशेषतः ||८||
(सु. नि. अ. ४) |

श्लोक 9

भगन्दरस्य असाध्यावस्था

वातमूत्रपुरीषाणि क्रिमयः शुक्रमेव च |
भगन्दरात् स्रवन्तस्तु नाशयन्ति तमातुरम् ||९||
(सु. सू. अ. ३३) |

पुष्पिका

इति श्रीमाधवकरविरचिते माधवनिदाने भगन्दरनिदानं समाप्तम्  ||४६||