मदनकल्पः

श्लोक 1-2

अथातो मदनकल्पं व्याख्यास्यामः||१||

इति ह स्माह भगवानात्रेयः||२||

श्लोक 3

अथ खलु वमनविरेचनार्थं वमनविरेचनद्रव्याणां सुखोपभोगतमैः  सहान्यैर्द्रव्यैर्विविधैः कल्पनार्थं भेदार्थं विभागार्थं चेत्यर्थः , तद्योगानां च  क्रियाविधेः सुखोपायस्य सम्यगुपकल्पनार्थं कल्पस्थानमुपदेक्ष्यामोऽग्निवेश! ||३||

श्लोक 4

तत्र दोषहरणमूर्ध्वभागं वमनसञ्ज्ञकम्, अधोभागं विरेचनसञ्ज्ञकम्; उभयं वा शरीरमलविरेचनाद्विरेचनसञ्ज्ञां लभते||४||

श्लोक 5

तत्रोष्ण-तीक्ष्ण-सूक्ष्म-व्यवायि-विकाशीन्यौषधानि स्ववीर्येण हृदयमुपेत्य धमनीरनुसृत्य  स्थूलाणुस्रोतोभ्यः केवलं शरीरगतं दोषसङ्घातमाग्नेयत्वाद्  विष्यन्दयन्ति, तैक्ष्ण्याद्  विच्छिन्दन्ति, स विच्छिन्नः  परिप्लवन्  स्नेहभाविते काये स्नेहाक्तभाजनस्थमिव  क्षौद्रमसज्जन्नणुप्रवणभावादामाशयमागम्योदानप्रणुन्नोऽ- -ग्निवाय्वात्मकत्वादूर्ध्वभागप्रभावादौषधस्योर्ध्वमुत्क्षिप्यते,  सलिलपृथिव्यात्मकत्वादधोभागप्रभावाच्चौषधस्याधः प्रवर्तते,  उभयतश्चोभयगुणत्वात्|
इति लक्षणोद्देशः||५||

श्लोक 6

तत्र फल-जीमूतकेक्ष्वाकु-धामार्गव-कुटज-कृतवेधनानां, श्यामा-त्रिवृच्चतुरङ्गुल-तिल्वक-महावृक्ष-सप्तला-शङ्खिनी-दन्ती-द्रवन्तीनां च, नानाविधदेशकालसम्भवास्वाद-रस-वीर्य-विपाक-प्रभावग्रहणाद् देह-दोष-प्रकृति-वयो-बलाग्नि-भक्ति-सात्म्य-रोगावस्थादीनां नानाप्रभाववत्त्वाच्च , विचित्रगन्ध-वर्ण-रस-स्पर्शानामुपयोगसुखार्थमसङ्ख्येयसंयोगानामपि च सतां द्रव्याणां  विकल्पमार्गोपदर्शनार्थं षड्विरेचनयोगशतानि व्याख्यास्यामः||६||

श्लोक 7

तानि तु द्रव्याणि देश-काल-गुण-भाजन-सम्पद्वीर्यबलाधानात् क्रियासमर्थतमानि भवन्ति||७||

श्लोक 8

त्रिविधः खलु देशः- जाङ्गलः, आनूपः, साधारणश्चेति|
तत्र जाङ्गलः पर्याकाशभूयिष्ठः, तरुभिरपि च कदर-खदिरासनाश्वकर्ण-धव-तिनिश-शल्लकी-साल-सोमवल्क-बदरी-तिन्दुकाश्वत्थ-वटामलकीवनगहनः, अनेकशमी-ककुभ-शिंशपाप्रायः, स्थिरशुष्कपवनबलविधूयमानप्रनृत्यत्तरुणविटपः,  प्रततमृगतृष्णिकोपगूढतनुखरपरुषसिकताशर्कराबहुलः,  लावतित्तिरिचकोरानुचरितभूमिभागः, वातपित्तबहुलः,  स्थिरकठिनमनुष्यप्रायो ज्ञेयः, अथानूपो  हिन्तालतमालनारिकेलकदलीवनगहनः, सरित्समुद्रपर्यन्तप्रायः,  शिशिरपवनबहुलः, वञ्जुलवानीरोपशोभिततीराभिः  सरिद्भिरुपगतभूमिभागः, क्षितिधरनिकुञ्जोपशोभितः,  मन्दपवनानुवीजितक्षितिरुहगहनः,  अनेकवनराजीपुष्पितवनगहनभूमिभागः, स्निग्धतरुप्रतानोपगूढः,  हंस-चक्रवाक-बलाका-नन्दीमुख-पुण्डरीक-कादम्ब-मद्गु -भृङ्गराज-शतपत्र-मत्तकोकिलानुनादिततरुविटपः,  सुकुमारपुरुषः,  पवनकफप्रायो ज्ञेयः;  अनयोरेव  द्वयोर्देशयोर्वीरुद्वनस्पतिवानस्पत्यशकुनिमृगगणयुतः  स्थिरसुकुमारबलवर्णसंहननोपपन्नसाधारणगुणयुक्तपुरुषः साधारणो  ज्ञेयः ||८||

श्लोक 9

तत्र देशे साधारणे जाङ्गले वा यथाकालं शिशिरातपपवनसलिलसेविते समे शुचौ प्रदक्षिणोदके श्मशान-चैत्य-देवयजनागार-सभा-श्वभ्राराम-वल्मीकोषरविरहिते कुशरोहिषास्तीर्णे स्निग्धकृष्णमधुरमृत्तिके  सुवर्णवर्णमधुरमृत्तिके वा  मृदावफालकृष्टेऽनुपहतेऽन्यैर्बलवत्तरैर्द्रुमैरौषधानि जातानि  प्रशस्यन्ते||९||

श्लोक 10

तत्र यानि कालजातान्युपागतसम्पूर्णप्रमाण-रसवीर्य-गन्धानि कालातपाग्निसलिलपवनजन्तुभिरनुपहतगन्ध-वर्ण-रस-स्पर्श-प्रभावाणि प्रत्यग्राण्युदीच्यां दिशि स्थितानि; तेषां  शाखापलाशमचिरप्ररूढं वर्षावसन्तयोर्ग्राह्यं, ग्रीष्मे मूलानि शिशिरे वा शीर्णप्ररूढपर्णानां, शरदि  त्वक्कन्दक्षीराणि, हेमन्ते साराणि, यथर्तु पुष्पफलमिति; मङ्गलाचारः  कल्याणवृत्तः शुचिः शुक्लवासाः सम्पूज्य देवता अश्विनौ गोब्राह्मणांश्च  कृतोपवासः प्राङ्मुख उदङ्मुखो वा गृह्णीयात्||१०||

श्लोक 11

गृहीत्वा चानुरूपगुणवद्भाजनस्थान्यागारेषू प्रागुदग्द्वारेषु  निवातप्रवातैकदेशेषु नित्यपुष्पोपहारबलिकर्मवत्सु, अग्नि-सलिलोपस्वेद-धूम-रजो-मूषक-चतुष्पदामनभिगमनीयानि स्ववच्छन्नानि शिक्येष्वासज्य स्थापयेत्||११||

श्लोक 12

तानि च यथादोषं प्रयुञ्जीत सुरा-सौवीरक-तुषोदक-मैरेय-मेदक-धान्याम्ल -फलाम्ल-दध्यम्लादिभिर्वाते, मृद्वीकामलक -मधु-मधुक-परूषक-फाणितक्षीरादिभिः पित्ते, श्लेष्मणि तु मधु-मूत्र-कषायादिभिर्भावितान्यालोडितानि च; इत्युद्देशः|
तं विस्तरेण द्रव्य-देह-दोष-सात्म्यादीनि प्रविभज्य व्याख्यास्यामः||१२||

श्लोक 13

वमनद्रव्याणां मदनफलानि श्रेष्ठतमान्याचक्षते, अनपायित्वात्|
तानि वसन्तग्रीष्मयोरन्तरे पुष्याश्वयुग्भ्यां मृगशिरसा वा गृह्णीयान्मैत्रे  मुहूर्ते|
यानि पक्वान्यकाणान्यहरितानि  पाण्डून्यक्रिमीण्यपूतीन्यजन्तुजग्धान्यह्रस्वानि; तानि प्रमृज्य , कुशपुटे  बद्ध्वा, गोमयेनालिप्य, यवतु(बु)षमाषशालिकुलत्थमुद्गपलानामन्यतमे  निदध्यादष्टरात्रम्|
अत ऊर्ध्वं मृदूभूतानि मध्विष्टगन्धान्युद्धृत्य शोषयेत्|
सुशुष्काणां फलपिप्पलीरुद्धरेत् |
तासां घृतदधिमधुपललविमृदितानां पुनः शुष्काणां नवं कलशं  सुप्रमृष्टवालुकमरजस्कमाकण्ठं पूरयित्वा स्ववच्छन्नं स्वनुगुप्तं  शिक्येष्वासज्य सम्यक् स्थापयेत्||१३||

श्लोक 14

अथ च्छर्दनीयमातुरं द्व्यहं त्र्यहं वा स्नेहस्वेदोपपन्नं श्वश्छर्दयितव्यमिति  ग्राम्यानूपौदकमांसरस-क्षीर-दधि-माष-तिल-शाकादिभिः समुत्क्लेशितश्लेष्माणं व्युषितं जीर्णाहारं पूर्वाह्णे  कृतबलिहोममङ्गलप्रायश्चित्तं निरन्नमनतिस्निग्धं यवाग्वा घृतमात्रां  पीतवन्तं, तासां फलपिप्पलीनामन्तर्नखमुष्टिं यावद्वा साधु मन्येत  जर्जरीकृत्य  यष्टिमधुकषायेण कोविदार-कर्बुदार-नीप-विदुल-बिम्बी-शणपुष्पी-सदापुष्पी-प्रत्यक्पुष्पी-कषायाणामन्यतमेन वा रात्रिमुषितं विमृद्य पूतं मधुसैन्धवयुक्तं सुखोष्णं  कृत्वा पूर्णं शरावं मन्त्रेणानेनाभिमन्त्रयेत्-
‘ॐ ब्रह्मदक्षाश्विरुद्रेन्द्रभूचन्द्रार्कानिलानलाः|
ऋषयः सौषधिग्रामा भूतसङ्घाश्च पान्तु ते|
रसायनमिवर्षीणां देवानाममृतं यथा|
सुधेवोत्तमनागानां भैषज्यमिदमस्तु ते’|
इत्येवमभिमन्त्र्योदङ्मुखं प्राङ्मुखं वाऽऽतुरं  पाययेच्छ्लेष्मज्वरगुल्मप्रतिश्यायार्तं विशेषेण पुनः पुनरापित्तागमनात्, तेन साधु वमति; हीनवेगं तु पिप्पल्यामलक-सर्षप-वचाकल्कलवणोष्णोदकैः पुनः पुनः प्रवर्तयेदापित्तदर्शनात्|
इत्येष सर्वश्छर्दनयोगविधिः||१४||

श्लोक 15

सर्वेषु तु मधुसैन्धवं कफविलयनच्छेदार्थं वमनेषु विदध्यात्|
न चोष्णविरोधो मधुनश्छर्दनयोगयुक्तस्य,  अविपक्वप्रत्यागमनाद्दोषनिर्हरणाच्च||१५||

श्लोक 16

फलपिप्पलीनां द्वौ द्वौ भागौ कोविदारादिकषायेण त्रिःसप्तकृत्वः  स्रावयेत्,  तेन रसेन तृतीयं भागं पिष्ट्वा मात्रां  हरीतकीभिर्बिभीतकैरामलैर्वा तुल्यां  वर्तयेत्, तासामेकां द्वे वा  पूर्वोक्तानां कषायाणामन्यतमस्याञ्जलिमात्रेण  विमृद्य बलवच्छ्लेष्मप्रसेकग्रन्थिज्वरोदरारुचिषु पाययेदिति समानं  पूर्वेण ||१६||

श्लोक 17

फलपिप्पलीक्षीरं, तेन वा क्षीरयवागूमधोभागे रक्तपित्ते हृद्दाहे च; तज्जस्य वादध्न उत्तरकं कफच्छर्दितमकप्रसेकेषु ; तस्य वा पयसः शीतस्य  सन्तानिकाञ्जलिं पित्ते प्रकुपिते उरःकण्ठहृदये च तनुकफोपदिग्धे, इति  समानं पूर्वेण||१७||

श्लोक 18

फलपिप्पलीशृतक्षीरान्नवनीतमुत्पन्नं फलादिकल्ककषायसिद्धं  कफाभिभूताग्निं विशुष्यद्देहं च मात्रया पाययेदिति समानं पूर्वेण||१८||

श्लोक 19

फलपिप्पलीनां फलादिकषायेण त्रिःसप्तकृत्वः सुपरिभावितेन पुष्परजः प्रकाशेन चूर्णेन सरसि सञ्जातं बृहत्सरोरुहं सायाह्नेऽवचूर्णयेत्, तद्रात्रिव्युषितंप्रभाते पुनरवचूर्णितमुद्धृत्य हरिद्राकृसरक्षीरयवागूनामन्यतमं  सैन्धवगुडफाणितयुक्तमाकण्ठं पीतवन्तमाघ्रापयेत्  सुकुमारमुत्क्लिष्टपित्तकफमौषधद्वेषिणमिति समानं पूर्वेण||१९||

श्लोक 20

फलपिप्पलीनां भल्लातकविधिपरिस्रुतं स्वरसं पक्त्वा  फाणितीभूतमातन्तुलीभावाल्लेहयेत्; आतपशुष्कं वा चूर्णीकृतं  जीमूतकादिकषायेण पित्ते कफस्थानगते पाययेदिति समानं पूर्वेण ||२०||

श्लोक 21

फलपिप्पलीचूर्णानि पूर्ववत् फलादीनां षण्णामन्यतमकषायस्रुतानि  वर्तिक्रियाः फलादिकषायोपसर्जनाः पेया इति समानं पूर्वेण||२१||

श्लोक 22

फलपिप्पलीनामारग्वध -वृक्षक-स्वादुकण्टक-पाठा-पाटला-शार्ङ्गेष्टा-मूर्वा-सप्तपर्ण-नक्तमाल-पिचुमर्द-पटोल-सुषवी-गुडूची-सोमवल्क-द्वीपिकानां पिप्पली-पिप्पलीमूल-हस्तिपिप्पली-चित्रक-शृङ्गवेराणां चान्यतमकषायेण सिद्धो लेह इति समानं पूर्वेण||२२||

श्लोक 23

फलपिप्पलीष्वेला-हरेणुका-शतपुष्पा-कुस्तुम्बुरु-तगर-कुष्ठ-त्वक्-चोरक-मरुबकागुरु-गुग्गुल्वेलवालुक-श्रीवेष्टक-परिपेलव-मांसी-शैलेयक-स्थौणेयक-सरल-पारावतपद्यशोकरोहिणीनां विंशतेरन्यतमस्य कषायेण  साधितोत्कारिका  उत्कारिकाकल्पेन, मोदका वा  मोदककल्पेन, यथादोषरोगभक्ति प्रयोज्या  इति समानं पूर्वेण||२३||

श्लोक 24-25

फलपिप्पलीस्वरसकषायपरिभावितानि तिलशालितण्डुलपिष्टानि  तत्कषायोपसर्जनानि शष्कुलीकल्पेन वा शष्कुल्यः, पूपकल्पेन वा पूपाः इतिसमानं पूर्वेण||२४||
एतेनैव च कल्पेन सुमुख-सुरस-कुठेरक-काण्डीर-कालमालक-पर्णासक-क्षवक-फणिज्झक-गृञ्जन-कासमर्द-भृङ्गराजानां पोटेक्षुवालिका-कालङ्कतक-दण्डैरकाणां चान्यतमस्य कषायेण कारयेत्||२५||

श्लोक 26

तथा बदरषाडव-राग-लेह-मोदकोत्कारिका-तर्पण-पानक-मांसरस-यूष-मद्यानां मदनफलान्यन्यतमेनोपसृज्य  यथादोषरोगभक्ति  दद्यात्; तैः साधु  वमतीति||२६||

श्लोक 27

मदनः करहाटश्च राठः पिण्डीतकः फलम्|
श्वसनश्चेति पर्यायैरुच्यते तस्य कल्पना||२७||

श्लोक 28-30

तत्र श्लोकाः-
नव योगाः कषायेषु, मात्रास्वष्टौ , पयोघृते|
पञ्च, फाणितचूर्णे द्वौ घ्रेये, वर्तिक्रियासु षट्||२८||

विंशतिर्विंशतिर्लेहमोदकोत्कारिकासु च|
शष्कुलीपूपयोश्चोक्ता योगाः षोडश षोडश||२९||

दशान्ये षाडवाद्येषु त्रयस्त्रिंशदिदं शतम्|
योगानां विधिवद्दिष्टं फलकल्पे महर्षिणा||३०||

पुष्पिका

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसम्पूरिते
कल्पस्थाने मदनकल्पो नाम प्रथमोऽध्यायः||१||
error: Content is protected !!