मूषिककल्पः

श्लोक 1-2

अथातो मूषिककल्पं व्याख्यास्यामः ||१||
यथोवाच भगवान् धन्वन्तरिः ||२||

श्लोक 3-6

पूर्वं शुक्रविषा उक्ता मूषिका ये समासतः |
नामलक्षणभैषज्यैरष्टादश निबोध मे ||३||

लालनः पुत्रकः कृष्णो हंसिरश्चिक्वि(क्कि)रस्तथा |
छुच्छुन्दरोऽलसश्चैव कषायदशनोऽपि च ||४||

कुलिङ्गश्चाजितश्चैव चपलः कपिलस्तथा
कोकिलोऽरुणसञ्ज्ञश्च महाकृष्णस्तथोन्दुरः ||५||

श्वेतेन महता सार्धं कपिलेनाखुना तथा |
मूषिकश्च कपोताभस्तथैवाष्टादश स्मृताः ||६||

श्लोक 7

शुक्रं पतति यत्रैषां शुक्रस्पृष्टैः स्पृशन्ति वा |
नखदन्तादिभिस्तस्मिन् गात्रे रक्तं प्रदुष्यति ||७||

श्लोक 8-10

जायन्ते ग्रन्थयः शोफाः कर्णिका मण्डलानि च |
पीडकोपचयश्चोग्रो विसर्पाः किटिभानि च ||८||

पर्वभेदो रुजस्तीव्रा मूर्च्छाऽङ्गसदनं ज्वरः |
दौर्बल्यमरुचिः श्वासो वमथुर्लोमहर्षणम् ||९||

दष्टरूपं समासोक्तमेतद्व्यासमतःशृणु |१०|

श्लोक 10-11

लालास्रावो लालनेन हिक्का छर्दिश्च जायते ||१०||

तण्डुलीयककल्कं तु लिह्यात्तत्र समाक्षिकम् |११|

श्लोक 11-12

पुत्रकेणाङ्गसादश्च पाण्डुवर्णश्च जायते ||११||

चीयते ग्रन्थिभिश्चाङ्गमाखुशावकसन्निभैः |
शिरीषेङ्गुदकल्कं तु लिह्यात्तत्र समाक्षिकम् ||१२||

श्लोक 13

कृष्णेन दंशे शोफोऽसृक्छर्दिः प्रायश्च दुर्दिने |
शिरीषफलकुष्ठं तु पिबेत् किंशुकभस्मना ||१३||

श्लोक 14

हंसिरेणान्नविद्वेषो जृम्भा रोम्णां च हर्षणम् |
पिबेदारग्वधादिं तु सुवान्तस्तत्र मानवः ||१४||

श्लोक 15-16

चिक्वि(क्कि)रेण शिरोदुःखं शोफो हिक्का वमिस्तथा |
जालिनीमदनाङ्कोठकषायैर्वामयेत्तु तम् ||१५||

यवनालर्षभीक्षारं बृहत्योश्चात्र दापयेत् |१६|

श्लोक 16-18

छुच्छुन्दरेण तृट् छर्दिर्ज्वरो दौर्बल्यमेव च ||१६||

ग्रीवास्तम्भः पृष्ठशोफो गन्धाज्ञानं विसूचिका |
चव्यं हरीतकी शुण्ठी विडङ्गं पिप्पली मधु ||१७||

अङ्कोठबीजं च तथा पिबेदत्र विषापहम् |१८|

श्लोक 18-21

ग्रीवास्तम्भोऽलसेनोर्ध्ववायुर्दंशे रुजा ज्वरः ||१८||

महागदं ससर्पिष्कं लिह्यात्तत्र समाक्षिकम् |
निद्रा कषायदन्तेन हृच्छोषः कार्श्यमेव च ||१९||

क्षौद्रोपेताः शिरीषस्य लिह्यात् सारफलत्वचः |
कुलिङ्गेन रुजः शोफो राज्यश्च दंशमण्डले ||२०||

सहे ससिन्धुवारे च लिह्यात्तत्र समाक्षिके |२१|

श्लोक 21-22

अजितेनाङ्गकृष्णत्वं छर्दिर्मूर्च्छा च हृद्ग्रहः ||२१||

स्नुक्क्षीरपिष्टां पालिन्दीं मञ्जिष्ठां मधुना लिहेत् |२२|

श्लोक 22-23

चपलेन भवेच्छर्दिर्मूर्च्छा च सह तृष्णया ||२२||

क्षौद्रेण त्रिफलां लिह्याद्भद्रकाष्ठजटान्विताम् |२३|

श्लोक 23-25

कपिलेन व्रणे कोथो ज्वरो ग्रन्थ्युद्गमः सतृट् ||२३||

लिह्यान्मधुयुतां श्वेतां श्वेतां चापि पुनर्नवाम् |
ग्रन्थयः कोकिलेनोग्रा ज्वरो दाहश्च दारुणः ||२४||

वर्षाभूनीलिनीक्वाथकल्कसिद्धं घृतं पिबेत् |२५|

श्लोक 25-32

अरुणेनानिलः क्रुद्धो वातजान् कुरुते गदान् ||२५||

महाकृष्णेन पित्तं च श्वेतेन कफ एव च |
महता कपिलेनासृक् कपोतेन चतुष्टयम् ||२६||

भवन्ति चैषां दंशेषु ग्रन्थिमण्डलकर्णिकाः |
पिडकोपचयश्चोग्रः शोफश्च भृशदारुणः ||२७||

दधिक्षीरघृतप्रस्थास्त्रयः प्रत्येकशो मताः |
करञ्जारग्वधव्योषबृहत्यंशुमतीस्थिराः ||२८||

निष्क्वाथ्य चैषां क्वाथस्य चतुर्थोंऽशः पुनर्भवेत् |
त्रिवृद्गोज्यमृतावक्रसर्पगन्धाः समृत्तिकाः ||२९||

कपित्थदाडिमत्वक् च श्लक्ष्णपिष्टाः प्रदापयेत् |
तत् सर्वमेकतः कृत्वा शनैर्मृद्वग्निना पचेत् ||३०||

पञ्चानामरुणादीनां विषमेतद्व्यपोहति |
काकादनीकाकमाच्योः स्वरसेष्वथवा कृतम् ||३१||

सिराश्च स्रावयेत् प्राप्ताः कुर्यात् संशोधनानि च |३२|

श्लोक 32

सर्वेषां च विधिः कार्यो मूषिकाणां विषेष्वयम् ||३२||

श्लोक 33

दग्ध्वा विस्रावयेद्दंशं प्रच्छितं च प्रलेपयेत् |
शिरीषरजनीकुष्ठकुङ्कुमैरमृतायुतैः ||३३||

श्लोक 34

छर्दनं जालिनीक्वाथैः शुकाख्याङ्कोठयोरपि ||३४||

श्लोक 35-36

शुकाख्याकोषवत्योश्च मूलं मदन एव च |
देवदालीफलं चैव दध्ना पीत्वा विषं वमेत् |
सर्वमूषिकदष्टानामेष योगः सुखावहः ||३५||

फलं वचा देवदाली कुष्ठं गोभूत्रपेषितम् |
पूर्वकल्पेन योज्याः स्युः सर्वोन्दुरुविषच्छिदः ||३६||

श्लोक 37

विरेचने त्रिवृद्दन्तीत्रिफलाकल्क इष्यते |३७|

श्लोक 37-38

शिरोविरेचने सारः शिरीषस्य फलानि च ||३७||

हितस्त्रिकटुकाढ्यश्च गोमयस्वरसोऽञ्जने |३८|

श्लोक 38-40

कपित्थगोमयरसौ लिह्यान्माक्षिकसंयुतौ ||३८||

रसाञ्जनहरिद्रेन्द्रयवकट्वीषु वा कृतम् |
प्रातः सातिविषं कल्कं लिह्यान्माक्षिकसंयुतम् ||३९||

तण्डुलीयकमूलेषु सर्पिः सिद्धं पिबेन्नरः |
आस्फोतमूलसिद्धं वा पञ्चकापित्थमेव वा ||४०||

श्लोक 41

मूषिकाणां विषं प्रायः कुप्यत्यभ्रेष्वनिर्हृतम् |
तत्राप्येष विधिः कार्यो यश्च दूषीविषापहः ||४१||

श्लोक 42

स्थिराणां रुजतां वाऽपि व्रणानां कर्णिकां भिषक् |
पाटयित्वा यथादोषं व्रणवच्चापि शोधयेत् ||४२||

श्लोक 43-46

श्वशृगालतरक्ष्वृक्षव्याघ्रादीनां यदाऽनिलः |
श्लेष्मप्रदुष्टो मुष्णाति सञ्ज्ञां सञ्ज्ञावहाश्रितः ||४३||

तदा प्रस्रस्तलाङ्गूलहनुस्कन्धोऽतिलालवान् |
अत्यर्थबधिरोऽन्धश्च सोऽन्योन्यमभिधावति ||४४||

तेनोन्मत्तेन दष्टस्य दंष्ट्रिणा सविषेण तु |
सुप्तता जायते दंशे कृष्णं चातिस्रवत्यसृक् ||४५||

दिग्धविद्धस्य लिङ्गेन प्रायशश्चोपलक्षितः |४६|

श्लोक 46-47

येन चापि भवेद्दष्टस्तस्य चेष्टां रुतं नरः ||४६||

बहुशः प्रतिकुर्वाणः क्रियाहीनो विनश्यति |४७|

श्लोक 47-48

दंष्ट्रिणा येन दष्टश्च तद्रूपं यस्तु पश्यति ||४७||

अप्सु वा यदि वाऽऽदर्शेऽरिष्टं तस्य विनिर्दिशेत् |४८|

श्लोक 48-49

त्रस्यत्यकस्माद्योऽभीक्ष्णं दृष्ट्वा स्पृष्ट्वाऽपि वा जलम् ||४८||

जलत्रासं तु विद्यात्तं रिष्टं तदपि कीर्तितम् |४९|

श्लोक 49-50

अदष्टो वा जलत्रासी न कथञ्चन सिध्यति ||४९||

प्रसुप्तोऽथोत्थितो वाऽपि स्वस्थस्त्रस्तो न सिध्यति |५०|

श्लोक 50-53

दंशं विस्राव्य तैर्दष्टे सर्पिषा परिदाहितम् ||५०||

प्रदिह्यादगदैः, सर्पिः पुराणं पाययेत च |
अर्कक्षीरयुतं ह्यस्य दद्याच्चापि विशोधनम् ||५१||

श्वेतां पुनर्नवां चास्य दद्याद्धत्तूरकायुताम् |
पललं तिलतैलं च रूपिकायाः पयो गुडः ||५२||

निहन्ति विषमालर्कं मेघवृन्दमिवानिलः |५३|

श्लोक 53-59

मूलस्य शरपुङ्खायाः कर्षं धत्तूरकार्धिकम् ||५३||

तण्डुलोदकमादाय पेषयेत्तण्डुलैः सह |
उन्मत्तकस्य पत्रैस्तु संवेष्ट्यापूपकं पचेत् ||५४||

खादेदौषधकाले तमलर्कविषदूषितः |
करोति श्वविकारांस्तु तस्मिञ्जीर्यति चौषधे ||५५||

विकाराः शिशिरे याप्या गृहे वारिविवर्जिते |
ततः शान्तविकारस्तु स्नात्वा चैवापरेऽहनि ||५६||

शालिषष्टिकयोर्भक्तं क्षीरेणोष्णेन भोजयेत् |
दिनत्रये पञ्चमे वा विधिरेषोऽर्धमात्रया ||५७||

कर्तव्यो भिषजाऽवश्यमलर्कविषनाशनः |
कुप्येत् स्वयं विषं यस्य न स जीवति मानवः ||५८||

तस्मात् प्रकोपयेदाशु स्वयं यावत् प्रकुप्यति |५९|

श्लोक 59-62

बीजरत्नौषधीगर्भैः कुम्भैः शीताम्बुपूरितैः ||५९||

स्नापयेत्तं नदीतीरे समन्त्रैर्वा चतुष्पथे |
बलिं निवेद्य तत्रापि पिण्याकं पललं दधि ||६०||

माल्यानि च विचित्राणि मांसं पक्वामकं तथा |
अलकाधिपते यक्ष सारमेयगणाधिप ! ||६१||

अलर्कजुष्टमेतन्मे निर्विषं कुरु माचिरात् |६२|

श्लोक 62-63

दद्यात् संशोधनं तीक्ष्णमेवं स्नातस्य देहिनः ||६२||

अशुद्धस्य सुरूढेऽपि व्रणे कुप्यति तद्विषम् |६३|

श्लोक 63-64

श्वादयोऽभिहिता व्याला येऽत्र दंष्ट्राविषा मया ||६३||

अतः करोति दष्टस्तु तेषां चेष्टां रुतं नरः |
बहुशः प्रतिकुर्वाणो न चिरान्म्रियते च सः ||६४||

श्लोक 65

नखदन्तक्षतं व्यालैर्यत्कृतं तद्विमर्दयेत् |
सिञ्चेत्तैलेन कोष्णेन ते हि वातप्रकोपकाः ||६५||

पुष्पिका

इति सुश्रुतसंहितायां कल्पस्थाने मूषिककल्पो नाम सप्तमोऽध्यायः  ||७||
error: Content is protected !!