श्लोक 1-2
अथातो यन्त्रविधिमध्यायं व्याख्यास्यामः ||१||
यथोवाच भगवान् धन्वन्तरिः ||२||
श्लोक 3
यन्त्रशतमेकोत्तरम्; अत्र हस्तमेव प्रधानतमं यन्त्राणामवगच्छ, (किं कारणं ? यस्माद्धस्तादृते यन्त्राणामप्रवृत्तिरेव) तदधीनत्वाद्यन्त्रकर्मणाम् ||३||
श्लोक 4
तत्र, मनःशरीराबाधकराणि शल्यानि; तेषामाहरणोपायो यन्त्राणि ||४||
श्लोक 5
तानि षट्प्रकाराणि; तद्यथा-स्वस्तिकयन्त्राणि, सन्दंशयन्त्राणि, तालयन्त्राणि, नाडीयन्त्राणि, शलाकायन्त्राणि, उपयन्त्राणि चेति ||५||
श्लोक 6
तत्र चतुर्विंशतिः स्वस्तिकयन्त्राणि , द्वे सन्दंशयन्त्रे, द्वे एव तालयन्त्रे , विंशतिर्नाड्यः, अष्टाविंशतिः शलाकाः, पञ्चविंशतिरुपयन्त्राणि ||६||
श्लोक 7
तानि प्रायशो लौहानि भवन्ति; तत्प्रतिरूपकाणि वा तदलाभे ||७||
श्लोक 8
तत्र, नानाप्रकाराणां व्यालानां मृगपक्षिणां मुखैर्मुखानि यन्त्राणां प्रायशःसदृशानि; तस्मात्तत्सारूप्यादागमादुपदेशादन्ययन्त्रदर्शनाद्युक्तितश्च कारयेत् ||८||
श्लोक 9
समाहितानि यन्त्राणि खरश्लक्ष्णमुखानि च |
सुदृढानि सुरूपाणि सुग्रहाणि च कारयेत् ||९||
श्लोक 10
तत्र स्वस्तिकयन्त्राणि-अष्टादशाङ्गुलप्रमाणानि, सिंहव्याघ्रवृकतरक्ष्वृक्षद्वीपिमार्जारशृगालमृगै-र्वारुककाककङ्ककुररचासभासशशघात्युलूकचिल्लिश्येन-गृध्रक्रौञ्चभृङ्गराजाञ्जलिकर्णावभञ्जननन्दीमुखमुखानि , मसूराकृतिभिःकीलैरवबद्धानि , मूलेऽङ्कुशवदावृत्तवारङ्गाणि , अस्थिविदष्टशल्योद्धरणार्थमुपदिश्यन्ते ||१०||
श्लोक 11
सनिग्रहोऽनिग्रहश्च सन्दंशौ षोडशाङ्गुलौ भवतः, त्वङ्मांससिरास्नायुगतशल्योद्धरणार्थमुपदिश्येते ||११||
श्लोक 12
तालयन्त्रे – द्वादशाङ्गुले मत्स्यतालवदेकतालद्वितालके,
कर्णनासानाडीशल्यानामाहरणार्थम् ||१२||
श्लोक 13
नाडीयन्त्राणि -अनेकप्रकाराणि, अनेकप्रयोजनानि, एकतोमुखान्युभयतोमुखानि च; तानि स्रोतोगतशल्योद्धरणार्थं, रोगदर्शनार्थम्, आचूषणार्थं, क्रियासौकर्यार्थं चेति; तानि स्रोतोद्वारपरिणाहानि,यथायोगदीर्घाणि च |
तत्र भगन्दरार्शोव्रणबस्त्युत्तरबस्तिमूत्रवृद्धिदकोदरधूमनिरुद्धप्रकशस-न्निरुद्धगुदयन्त्राण्यलाबूशृङ्गयन्त्राणि चोपरिष्टाद्वक्ष्यामः ||१३||
श्लोक 14
शलाकायन्त्राण्यपि नानाप्रकाराणि, नानाप्रयोजनानि, यथायोगपरिणाहदीर्घाणि च; तेषां गण्डूपदसर्पफणशरपुङ्खबडिशमुखे द्वे द्वे, एषणव्यूहनचालनाहरणार्थमुपदिश्येते ; मसूरदलमात्रमुखे द्वे किञ्चिदानताग्रे स्रोतोगतशल्योद्धरणार्थं; षट् कार्पासकृतोष्णीषाणि , प्रमार्जनक्रियासु; त्रीणि दर्व्याकृतीनि खल्लमुखानि, क्षारौषधप्रणिधानार्थं ; त्रीण्यन्यानि जाम्बववदनानि, त्रीण्यङ्कुशवदनानि, षडेवाग्निकर्मस्वभिप्रेतानि; नासार्बुदहरणार्थमेकं कोलास्थिदलमात्रमुखं खल्लतीक्ष्णौष्ठं ; अञ्जनार्थमेकं कलायपरिमण्डलमुभयतो मुकुलाग्रं; मूत्रमार्गविशोधनार्थमेकं मालतीपुष्पवृन्ताग्रप्रमाणपरिमण्डलमिति ||१४||
श्लोक 15-16
उपयन्त्राण्यपि-रज्जुवेणिकापट्टचर्मान्तवल्कललतावस्त्राष्ठीलाश्ममुद्गरपाणिपादतला-ङ्गुलिजिह्वा-दन्तनखमुखबालाश्वकटकशाखाष्ठीवनप्रवाहणहर्षायस्कान्तमयानि क्षाराग्निभेषजानि चेति ||१५||
एतानि देहे सर्वस्मिन् देहस्यावयवे तथा |
सन्धौ कोष्ठे धमन्यां च यथायोगं प्रयोजयेत् ||१६||
श्लोक 17
यन्त्रकर्माणि तु-निर्घातनपूरणबन्धनव्यूहनवर्तनचालनविवर्तनविवरणपीडनमार्गविशो-धनविकर्षणाहरणाञ्छनोन्नमन-विनमनभञ्जनोन्मथनाचूषणैषणदारणर्जूकरणप्रक्षालनप्रधमनप्रमार्जनानि चतुर्विंशतिः ||१७||
श्लोक 18
स्वबुद्ध्या चापि विभजेद्यन्त्रकर्माणि बुद्धिमान् |
असङ्ख्येयविकल्पत्वाच्छल्यानामिति निश्चयः ||१८||
श्लोक 19
तत्र, अतिस्थूलम्, असारम्, अतिदीर्घम्, अतिह्रस्वम्, अग्राहि, विषमग्राहि, वक्रं, शिथिलम्, अत्युन्नतम्, मृदुकीलं, मृदुमुखं, मृदुपाशम्, इति द्वादश यन्त्रदोषाः ||१९||
श्लोक 20
एतैर्दोषैर्विनिर्मुक्तं यन्त्रमष्टादशाङ्गुलम् |
प्रशस्तं भिषजा ज्ञेयं तद्धि कर्मसु योजयेत् ||२०||
श्लोक 21
दृश्यं सिंहमुखाद्यैस्तु गूढं कङ्कमुखादिभिः |
निर्हरेत शनैः शल्यं शास्त्रयुक्तिव्यपेक्षया ||२१||
श्लोक 22
नि(वि)वर्तते साध्ववगाहते च शल्यं निगृह्योद्धरते च यस्मात् |
यन्त्रेष्वतः कङ्कमुखं प्रधानं स्थानेषु सर्वेष्वधि(वि)कारि चैव ||२२||
पुष्पिका
इति सुश्रुतसंहितायां सूत्रस्थाने यन्त्रविधिर्नाम सप्तमोऽध्यायः ||७||