श्लोक 1-2
अथातो यस्यश्यावनिमित्तीयमिन्द्रियं [१] व्याख्यास्यामः ||१||
इति ह स्माह भगवानात्रेयः ||२||
श्लोक 3-13
यस्य श्यावे परिध्वस्ते हरिते चापि दर्शने। आपन्नो व्याधिरन्ताय ज्ञेयस्तस्य विजानता||३||
निःसञ्ज्ञः परिशुष्कास्यः समृद्धो [१] व्याधिभिश्च यः । उपरुद्धायुषं ज्ञात्वा तं धीरः परिवर्जयेत्||४||
हरिताश्च [२] सिरा यस्य लोमकूपाश्च संवृताः। सोऽम्लाभिलाषी पुरुषः पित्तान्मरणमश्नुते||५||
शरीरान्ताश्च शोभन्ते शरीरं चोपशुष्यति । बलं च हीयते यस्य राजयक्ष्मा हिनस्ति तम्||६||
अंसाभितापो हिक्का च छर्दनं शोणितस्य च| आनाहः पार्श्वशूलं च भवत्यन्ताय शोषिणः||७||
वातव्याधिरपस्मारी कुष्ठी शोफी [३] तथोदरी | गुल्मी च मधुमेही च राजयक्ष्मी च यो नरः||८||
अचिकित्स्या भवन्त्येते बलमांसक्षये सति। -अन्येष्वपि विकारेषु तान् भिषक् परिवर्जयेत्||९||
विरेचनहृतानाहो यस्तृष्णानुगतो नरः ।
विरिक्तः पुनराध्माति यथा प्रेतस्तथैव सः||१०||
पेयं पातुं न शक्नोति कण्ठस्य च मुखस्य च| उरसश्च विशुष्कत्वाद्यो नरो न स जीवति [४] ||११||
स्वरस्य दुर्बलीभावं हानिं च बलवर्णयोः । रोगवृद्धिमयुक्त्या च दृष्ट्वा मरणमादिशेत् ||१२||
ऊर्ध्वश्वासं गतोष्माणं शूलोपहतवङ्क्षणम्। शर्म चानधिगच्छन्तं बुद्धिमान् परिवर्जयेत्||१३||
श्लोक 14-17
अपस्वरं भाषमाणं प्राप्तं मरणमात्मनः । श्रोतारं चाप्यशब्दस्य दूरतः परिवर्जयेत् ||१४||
यं नरं सहसा रोगो दुर्बलं परिमुञ्चति । संशयप्राप्तमात्रेयो जीवितं तस्य मन्यते || १५ ||
अथ चेज्ज्ञातयस्तस्य याचेरन् प्रणिपाततः | रसेनाद्यादिति ब्रूयान्नास्मै दद्याद्विशोधनम्||१६||
मासेन चेन्न दृश्येत विशेषस्तस्य शोभनः। रसैश्चान्यैर्बहुविधैर्दुर्लभं तस्य जीवितम्||१७||
श्लोक 18-22
निष्ठ्यूतं च पुरीषं च रेतश्चाम्भसि मज्जति। यस्य तस्यायुषः प्राप्तमन्तमाहुर्मनीषिणः||१८||
निष्ठ्यते यस्य दृश्यन्ते वर्णा बहुविधाः पृथक्। तच्च सीदत्यपः प्राप्य न स जीवितुमर्हति [१] ||१९||
पित्तमूष्मानुगं यस्य शङ्खौ प्राप्य विमूर्च्छति [२] | स रोगः शङ्खको नाम्ना त्रिरात्राद्धन्ति जीवितम्||२०||
सफेनं रुधिरं यस्य मुहुरास्यात् प्रसिच्यते।
शूलैश्च तुद्यते कुक्षिः प्रत्याख्येयस्तथाविधः||२१||
बलमांसक्षयस्तीव्रो रोगवृद्धिररोचकः ।
यस्यातुरस्य लक्ष्यन्ते त्रीन् पक्षान्न स जीवति||२२||
श्लोक 23-24
तत्र श्लोकौ-
विज्ञानानि मनुष्याणां मरणे प्रत्युपस्थिते ।
भवन्त्येतानि सम्पश्येदन्यान्येवंविधानि च ||२३||
तानि सर्वाणि लक्ष्यन्ते न तु सर्वाणि मानवम् | विशन्ति विनशिष्यन्तं तस्माद्बोध्यानि सर्वतः ||२४||
पुष्पिका
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते इन्द्रियस्थाने यस्यश्यावनिमित्तीयमिन्द्रियं नाम नवमोऽध्यायः||९||