योनिव्यापन्निदानम्

श्लोक  1

योनिरोगनिदानम्

अथ योनिव्यापन्निदानम् |
विंशतिर्व्यापदो योनौ निर्दिष्टा रोगसङ्ग्रहे |
मिथ्याचारेण ताः स्त्रीणां प्रदुष्टेनार्तवेन च ||१||
जायन्ते बीजदोषाच्च दैवाच्च शृणु ताः पृथक् |
(च. चि. अ. ३०) |

श्लोक  2-4

वातिकयोनिरोगाणां लक्षणम्

सा फेनिलमुदावर्ता रजः कृच्छ्रेण मुञ्चति ||२||

वन्ध्यां नष्टार्तवां विद्याद्विप्लुतां नित्यवेदनाम् |
परिप्लुतायां भवति ग्राम्यधर्मेण रुग्भृशम् ||३||

वातला कर्कशा स्तब्धा शूलनिस्तोदपीडिता |
चतसृष्वपि चाद्यासु भवन्त्यनिलवेदनाः ||४||
(सु. उ. तं. अ. ३८) |

श्लोक  5-7

पैत्तिकयोनिरोगाणां लक्षणम्

सदाहं क्षीयते रक्तं यस्यां सा लोहितक्षया |
सवातमुद्गिरेद्बीजं वामिनी रजसा युतम् ||५||

प्रस्रंसिनी स्रंसते च क्षोभिता दुष्प्रजायिनी |
स्थितं स्थितं हन्ति गर्भं पुत्रघ्नी रक्तसङ्क्षयात् ||६||

अत्यर्थं पित्तला योनिर्दाहपाकज्वरान्विता |
चतसृष्वपि चाद्यासु पित्तलिङ्गोच्छ्रयो भवेत् ||७||
(सु. उ. तं. अ. ३८) |

श्लोक  8-10

श्लैष्मिकयोनिरोगाणां लक्षणम्

अत्यानन्दा न सन्तोषं ग्राम्यधर्मेण गच्छति |
कर्णिन्यां कर्णिका योनौ श्लेष्मासृग्भ्यां प्रजायते ||८||

मैथुनेऽचरणा पूर्वं पुरुषादतिरिच्यते |
बहुशश्चातिचरणा तयोर्बीजं न विन्दति ||९||

श्लेष्मला पिच्छिला योनिः कण्डूग्रस्ताऽतिशीतला |
चतसृष्वपि चाद्यासु श्लेष्मलिङ्गोच्छ्रयो भवेत् ||१०||
(सु. उ. तं. अ. ३८) |

श्लोक  11-13

सान्निपातिकयोनिरोगाणां लक्षणम्

अनार्तवाऽस्तनी षण्डी खरस्पर्शा च मैथुने |
अतिकायगृहीतायास्तरुण्यास्त्वण्डली भवेत् ||११||

विवृता च महायोनिः सूचीवक्त्राऽतिसंवृता |
सर्वलिङ्गसमुत्थाना सर्वदोषप्रकोपजा ||१२||

चतसृष्वपि चाद्यासु सर्वलिङ्गोच्छ्रयो भवेत् |
पञ्चासाध्या भवन्तीह योनयः सर्वदोषजाः ||१३||
(सु. उ. तं. अ. ३८) |

पुष्पिका

इति श्रीमाधवकरविरचिते माधवनिदाने योनिव्यापन्निदानं समाप्तम्  ||६२||
error: Content is protected !!