राजयक्ष्मचिकित्सितम्

श्लोक 1-2

अथातो राजयक्ष्मचिकित्सितं व्याख्यास्यामः||१||

इति ह स्माह भगवानात्रेयः||२||

श्लोक 3-12

दिवौकसां कथयतामृषिभिर्वै श्रुता कथा|
कामव्यसनसंयुक्ता पौराणी शशिनं प्रति||३||

रोहिण्यामतिसक्तस्य शरीरं नानुरक्षतः|
आजगामाल्पतामिन्दोर्देहः स्नेहपरिक्षयात्||४||

दुहितॄणामसम्भोगाच्छेषाणां च प्रजापतेः|
क्रोधो निःश्वासरूपेण मूर्तिमान् निःसृतो मुखात्||५||

प्रजापतेर्हि दुहितॄरष्टाविंशतिमंशुमान्|
भार्यार्थं प्रतिजग्राह न च सर्वास्ववर्तत||६||

गुरुणा तमवध्यातं भार्यास्वसमवर्तिनम्|
रजःपरीतमबलं यक्ष्मा शशिनमाविशत्||७||

सोऽभिभूतोऽतिमहता गुरुक्रोधेन निष्प्रभः|
देवदेवर्षिसहितो जगाम शरणं गुरुम्||८||

अथ चन्द्रमसः शुद्धां मतिं बुद्ध्वा प्रजापतिः|
प्रसादं कृतवान् सोमस्ततोऽश्विभ्यां चिकित्सितः||९||

स विमुक्तग्रहश्चन्द्रो विरराज विशेषतः|
ओजसा वर्धितोऽश्विभ्यां शुद्धं सत्त्वमवाप च||१०||

क्रोधो यक्ष्मा ज्वरो रोग एकार्थो दुःखसञ्ज्ञकः|
यस्मात् स राज्ञः प्रागासीद्राजयक्ष्मा ततो मतः||११||

स यक्ष्मा हुङ्कृतोऽश्विभ्यां मानुषं लोकमागतः|
लब्ध्वा चतुर्विधं हेतुं समाविशति मानवान्||१२||

श्लोक 13

अयथाबलमारम्भं वेगसन्धारणं क्षयम्|
यक्ष्मणः कारणं विद्याच्चतुर्थं विषमाशनम्||१३||

श्लोक 14-19

युद्धाध्ययनभाराध्वलङ्घनप्लवनादिभिः|
पतनैरभिघातैर्वा साहसैर्वा तथाऽपरैः||१४||

अयथाबलमारम्भैर्जन्तोरुरसि विक्षते|
वायुः प्रकुपितो दोषावुदीर्योभौ प्रधावति||१५||

स शिरःस्थः शिरःशूलं करोति गलमाश्रितः|
कण्ठोद्ध्वंसं च कासं च स्वरभेदमरोचकम्||१६||

पार्श्वशूलं च पार्श्वस्थो वर्चोभेदं गुदे स्थितः|
जृम्भां ज्वरं च सन्धिस्थ उरःस्थश्चोरसो रुजम्||१७||

क्षणनादुरसः कासात् कफं ष्ठीवेत् सशोणितम्|
जर्जरेणोरसा कृच्छ्रमुरःशूलातिपीडितः||१८||

इति साहसिको यक्ष्मा रूपैरेतैः प्रपद्यते|
एकादशभिरात्मज्ञो भजेत्तस्मान्न साहसम्||१९||

श्लोक 20-23

ह्रीमत्त्वाद्वा घृणित्वाद्वा भयाद्वा वेगमागतम्|
वातमूत्रपुरीषाणां निगृह्णाति यदा नरः||२०||

तदा वेगप्रतीघातात् कफपित्ते समीरयन्|
ऊर्ध्वं तिर्यगधश्चैव विकारान् कुरुतेऽनिलः||२१||

प्रतिश्यायं च कासं च स्वरभेदमरोचकम्|
पार्श्वशूलं शिरःशूलं ज्वरमंसावमर्दनम्||२२||

अङ्गमर्दं मुहुश्छर्दिं वर्चोभेदं त्रिलक्षणम्|
रूपाण्येकादशैतानि यक्ष्मा यैरुच्यते महान्||२३||

श्लोक 24-27

ईर्ष्योत्कण्ठाभयत्रासक्रोधशोकातिकर्शनात्|
अतिव्यवायानशनाच्छुक्रमोजश्च हीयते||२४||

ततः स्नेहक्षयाद्वायुर्वृद्धो दोषावुदीरयन्|
प्रतिश्यायं ज्वरं कासमङ्गमर्दं शिरोरुजम्||२५||

श्वासं विड्भेदमरुचिं पार्श्वशूलं स्वरक्षयम्|
करोति चांससन्तापमेकादशगदानिमान् ||२६||

लिङ्गान्यावेदयन्त्येतान्येकादश महागदम्|
सम्प्राप्तं राजयक्ष्माणं क्षयात् प्राणक्षयप्रदम्||२७||

श्लोक 28-32

विविधान्यन्नपानानि वैषम्येण समश्नतः|
जनयन्त्यामयान् घोरान्विषमान्मारुतादयः||२८||

स्रोतांसि रुधिरादीनां वैषम्याद्विषमं गताः|
रुद्ध्वा रोगाय कल्पन्ते पुष्यन्ति च न धातवः||२९||

प्रतिश्यायं प्रसेकं च कासं छर्दिमरोचकम्|
ज्वरमंसाभितापं च छर्दनं रुधिरस्य च||३०||

पार्श्वशूलं शिरःशूलं स्वरभेदमथापि च|
कफपित्तानिलकृतं लिङ्गं विद्याद्यथाक्रमम्||३१||

इति व्याधिसमूहस्य रोगराजस्य हेतुजम्|
रूपमेकादशविधं हेतुश्चोक्तश्चतुर्विधः||३२||

श्लोक 33-38

पूर्वरूपं प्रतिश्यायो दौर्बल्यं दोषदर्शनम्|
अदोषेष्वपि भावेषु काये बीभत्सदर्शनम्||३३||

घृणित्वमश्नतश्चापि बलमांसपरिक्षयः|
स्त्रीमद्यमांसप्रियता प्रियता चावगुण्ठने||३४||

मक्षिकाघुणकेशानां तृणानां पतनानि च|
प्रायोऽन्नपाने केशानां नखानां चाभिवर्धनम्||३५||

पतत्रिभिः पतङ्गैश्च श्वापदैश्चाभिधर्षणम्|
स्वप्ने केशास्थिराशीनां भस्मनश्चाधिरोहणम्||३६||

जलाशयानां शैलानां वनानां ज्योतिषामपि|
शुष्यतां क्षीयमाणानां पततां यच्च दर्शनम्||३७||

प्राग्रूपं बहुरूपस्य तज्ज्ञेयं राजयक्ष्मणः|३८|

श्लोक 38-47

रूपं त्वस्य यथोद्देशं निर्देक्ष्यामि सभेषजम्||३८||

यथास्वेनोष्मणा पाकं शारीरा यान्ति धातवः|
स्रोतसा च यथास्वेन धातुः पुष्यति धातुतः||३९||

स्रोतसां सन्निरोधाच्च रक्तादीनां च सङ्क्षयात्|
धातूष्मणां चापचयाद्राजयक्ष्मा प्रवर्तते||४०||

तस्मिन् काले पचत्यग्निर्यदन्नं कोष्ठसंश्रितम्|
मलीभवति तत् प्रायः कल्पते किञ्चिदोजसे||४१||

तस्मात् पुरीषं संरक्ष्यं विशेषाद्राजयक्ष्मिणः|
सर्वधातुक्षयार्तस्य बलं तस्य हि विड्बलम्||४२||

रसः स्रोतःसु रुद्धेषु स्वस्थानस्थो विदह्यते |
स ऊर्ध्वं कासवेगेन बहुरूपः प्रवर्तते||४३||

जायन्ते व्याधयश्चातः षडेकादश वा पुनः|
येषां सङ्घातयोगेन राजयक्ष्मेति कथ्यते||४४||

कासोंऽसतापो वैस्वर्यं ज्वरः पार्श्वशिरोरुजा|
छर्दनं रक्तकफयोः श्वासवर्चोगदोऽरुचिः||४५||

रूपाण्येकादशैतानि यक्ष्मणः षडिमानि वा|
कासो ज्वरः पार्श्वशूलं स्वरवर्चोगदोऽरुचिः||४६||

सर्वैरर्धैस्त्रिभिर्वाऽपि लिङ्गैर्मांसबलक्षये|
युक्तो वर्ज्यश्चिकित्स्यस्तु सर्वरूपोऽप्यतोऽन्यथा||४७||

श्लोक 48-50

घ्राणमूले स्थितः श्लेष्मा रुधिरं पित्तमेव वा|
मारुताध्मातशिरसो मारुतं श्यायते प्रति||४८||

प्रतिश्यायस्ततो घोरो जायते देहकर्शनः|
तस्य रूपं शिरःशूलं गौरवं घ्राणविप्लवः||४९||

ज्वरः कासः कफोत्क्लेशः स्वरभेदोऽरुचिः क्लमः|
इन्द्रियाणामसामर्थ्यं यक्ष्मा चातः प्रजायते||५०||

श्लोक 51

पिच्छिलं बहलं विस्रं हरितं श्वेतपीतकम्|
कासमानो रसं यक्ष्मी निष्ठीवति कफानुगम्||५१||

श्लोक 52

अंसपार्श्वाभितापश्च सन्तापः करपादयोः|
ज्वरः सर्वाङ्गगश्चेति लक्षणं राजयक्ष्मणः||५२||

श्लोक 53-56

वातात्पित्तात्कफाद्रक्तात् कासवेगात् सपीनसात्|
स्वरभेदो भवेद्वाताद्रूक्षः क्षामश्चलः स्वरः||५३||

तालुकण्ठपरिप्लोषः पित्ताद्वक्तुमसूयते|
कफाद्भेदो विबद्धश्च स्वरः खुरखुरायते ||५४||

सन्नो रक्तविबद्धत्वात् स्वरः कृच्छ्रात् प्रवर्तते|
कासातिवेगात् कषणः पीनसात्कफवातिकः||५५||

पार्श्वशूलं त्वनियतं सङ्कोचायामलक्षणम्|
शिरःशूलं ससन्तापं यक्ष्मिणः स्यात्सगौरवम्||५६||

श्लोक 57

अभिसन्ने शरीरे तु यक्ष्मिणो विषमाशनात्|
कण्ठात्प्रवर्तते रक्तं श्लेष्मा चोत्क्लिष्टसञ्चितः||५७|

श्लोक 58-59

रक्तं विबद्धमार्गत्वान्मांसादीन्नानुपद्यते |
आमाशयस्थमुत्क्लिष्टं बहुत्वात् कण्ठमेति च||५८||

वातश्लेष्मविबद्धत्वादुरसः श्वासमृच्छति|
दोषैरुपहते चाग्नौ सपिच्छमतिसार्यते||५९||

श्लोक 60-61

पृथग्दोषैः समस्तैर्वा जिह्वाहृदयसंश्रितैः|
जायतेऽरुचिराहारे द्विष्टैरर्थैश्च मानसैः||६०||

कषायतिक्तमधुरैर्विद्यान्मुखरसैः क्रमात्|
वाताद्यैररुचिं जातां मानसीं दोषदर्शनात्||६१||

श्लोक 62

अरोचकात् कासवेगाद्दोषोत्क्लेशाद्भयादपि|
छर्दिर्या सा विकाराणामन्येषामप्युपद्रवः||६२||

श्लोक 63-64

सर्वस्त्रिदोषजो यक्ष्मा दोषाणां तु बलाबलम्|
परीक्ष्यावस्थिकं वैद्यः शोषिणं समुपाचरेत्||६३||

प्रतिश्याये शिरःशूले कासे श्वासे स्वरक्षये|
पार्श्वशूले च विविधाः क्रियाः साधारणीः शृणु||६४||

श्लोक 65-70

पीनसे स्वेदमभ्यङ्गं धूममालेपनानि च|
परिषेकावगाहांश्च यावकं वाट्यमेव च||६५||

लवणाम्लकटूष्णांश्च रसान् स्नेहोपबृंहितान्|
लावतित्तिरिदक्षाणां वर्तकानां च कल्पयेत्||६६||

सपिप्पलीकं सयवं सकुलत्थं सनागरम्|
दाडिमामलकोपेतं स्निग्धमाजं रसं पिबेत्||६७||

तेन षड्विनिवर्तन्ते विकाराः पीनसादयः|
मूलकानां कुलत्थानां यूषैर्वा सूपकल्पितैः ||६८||

यवगोधूमशाल्यन्नैर्यथासात्म्यमुपाचरेत्|
पिबेत्प्रसादं वारुण्या जलं वा पाञ्चमूलिकम्||६९||

धान्यनागरसिद्धं वा तामलक्याऽथवा शृतम्|
पर्णिनीभिश्चतसृभिस्तेन चान्नानि कल्पयेत्||७०||

श्लोक 71-76

कृशरोत्कारिकामाषकुलत्थयवपायसैः|
सङ्करस्वेदविधिना कण्ठं पार्श्वमुरः शिरः||७१||

स्वेदयेत् पत्रभङ्गेण शिरश्च परिषेचयेत्|
बलागुडूचीमधुकशृतैर्वा वारिभिः सुखैः||७२||

बस्तमत्स्यशिरोभिर्वा नाडीस्वेदं प्रयोजयेत्|
कण्ठे शिरसि पार्श्वे च पयोभिर्वा सवातिकैः||७३||

औदकानूपमांसानि सलिलं पाञ्चमूलिकम्|
सस्नेहमारनालं वा नाडीस्वेदे प्रयोजयेत्||७४||

जीवन्त्याः शतपुष्पाया बलाया मधुकस्य च|
वचाया वेशवारस्य विदार्या मूलकस्य च||७५||

औदकानूपमांसानामुपनाहाः सुसंस्कृताः|
शस्यन्ते सचतुःस्नेहाः शिरःपार्श्वांसशूलिनाम्||७६||

श्लोक 77-81

शतपुष्पा समधुकं कुष्ठं तगरचन्दने|
आलेपनं स्यात् सघृतं शिरःपार्श्वांसशूलनुत्||७७||

बला रास्ना तिलाः सर्पिर्मधुकं नीलमुत्पलम्|
पलङ्कषा देवदारु चन्दनं केशरं घृतम्||७८||

वीरा बला विदारी च कृष्णगन्धा पुनर्नवा|
शतावरी पयस्या च कत्तृणं मधुकं घृतम्||७९||

चत्वार एते श्लोकार्धैः प्रदेहाः परिकीर्तिताः|
शस्ताः संसृष्टदोषाणां शिरःपार्श्वांसशूलिनाम्||८०||

नावनं धूमपानानि स्नेहाश्चौत्तरभक्तिकाः|
तैलान्यभ्यङ्गयोगीनि बस्तिकर्म तथा परम्||८१||

श्लोक 82-86

शृङ्गालाबुजलौकोभिः प्रदुष्टं व्यधनेन वा|
शिरःपार्श्वांसशूलेषु रुधिरं तस्य निर्हरेत्||८२||

प्रदेहः सघृतश्चेष्टः पद्मकोशीरचन्दनैः|
दूर्वामधुकमञ्जिष्ठाकेशरैर्वा घृताप्लुतैः||८३||

प्रपौण्डरीकनिर्गुण्डीपद्मकेशरमुत्पलम् |
कशेरुकाः पयस्या च ससर्पिष्कं प्रलेपनम्||८४||

चन्दनाद्येन तैलेन शतधौतेन सर्पिषा|
अभ्यङ्गः, पयसा सेकः शस्तश्च मधुकाम्बुना||८५||

माहेन्द्रेण सुशीतेन चन्दनादिशृतेन वा|
परिषेकः प्रयोक्तव्य इति संशमनी क्रिया||८६||

श्लोक 87-88

दोषाधिकानां वमनं शस्यते सविरेचनम्|
स्नेहस्वेदोपपन्नानां सस्नेहं यन्न कर्शनम्||८७||

शोषी मुञ्चति गात्राणि पुरीषस्रंसनादपि|
अबलापेक्षिणीं मात्रां किं पुनर्यो विरिच्यते||८८||

श्लोक 89-102

योगान् संशुद्धकोष्ठानां कासे श्वासे स्वरक्षये|
शिरःपार्श्वांसशूलेषु सिद्धानेतान्प्रयोजयेत्||८९||

बलाविदारिगन्धाद्यैर्विदार्या मधुकेन वा|
सिद्धं सलवणं सर्पिर्नस्यं स्यात्स्वर्यमुत्तमम्||९०||

प्रपौण्डरीकं मधुकं पिप्पली बृहती बला|
क्षीरं सर्पिश्च तत्सिद्धं स्वर्यं स्यान्नावनं परम्||९१||

शिरःपार्श्वांसशूलघ्नं कासश्वासनिबर्हणम्|
प्रयुज्यमानं बहुशो घृतं चौत्तरभक्तिकम्||९२||

दशमूलेन पयसा सिद्धं मांसरसेन च|
बलागर्भं घृतं सद्यो रोगानेतान् प्रबाधते||९३||

भक्तस्योपरि मध्ये वा यथाग्न्यभ्यवचारितम्|
रास्नाघृतं वा सक्षीरं सक्षीरं वा बलाघृतम्||९४||

लेहान् कासापहान् स्वर्याञ् श्वासहिक्कानिबर्हणान्|
शिरःपार्श्वांसशूलघ्नान् स्नेहांश्चातः परं शृणु||९५||

घृतं खर्जूरमृद्वीकाशर्कराक्षौद्रसंयुतम् |
सपिप्पलीकं वैस्वर्यकासश्वासज्वरापहम्||९६||

दशमूलशृतात् क्षीरात् सर्पिर्यदुदियान्नवम्|
सपिप्पलीकं सक्षौद्रं तत् परं स्वरबोधनम्||९७||

शिरःपार्श्वांसशूलघ्नं कासश्वासज्वरापहम्|
पञ्चभिः पञ्चमूलैर्वा शृताद्यदुदियाद्घृतम्||९८||

पञ्चानां पञ्चमूलानां रसे क्षीरचतुर्गुणे|
सिद्धं सर्पिर्जयत्येतद्यक्ष्मणः सप्तकं बलम्||९९||

खर्जूरं पिप्पली द्राक्षा पथ्या शृङ्गी दुरालभा|
त्रिफला पिप्पली मुस्तं शृङ्गाटगुडशर्कराः||१००||

वीरा शटी पुष्कराख्यं सुरसः शर्करा गुडः|
नागरं चित्रको लाजाः पिप्पल्यामलकं गुडः||१०१||

श्लोकार्धैर्विहितानेतांल्लिह्यान्ना मधुसर्पिषा|
कासश्वासापहान्स्वर्यान्पार्श्वशूलापहांस्तथा||१०२||

श्लोक 103-104

सितोपलां तुगाक्षीरीं पिप्पलीं बहुलां त्वचम्|
अन्त्यादूर्ध्वं द्विगुणितं लेहयेन्मधुसर्पिषा||१०३||

चूर्णितं प्राशयेद्वा तच्छ्वासकासकफातुरम् |
सुप्तजिह्वारोचकिनमल्पाग्निं पार्श्वशूलिनम्||१०४||

श्लोक 105

हस्तपादाङ्गदाहेषु ज्वरे रक्ते तथोर्ध्वगे|
वासाघृतं शतावर्या सिद्धं वा परमं हितम्||१०५||

श्लोक 106-110

दुरालभां श्वदंष्ट्रां च चतस्रः पर्णिनीर्बलाम्|
भागान्पलोन्मितान् कृत्वा पलं पर्पटकस्य च||१०६||

पचेद्दशगुणे तोये दशभागावशेषिते|
रसे सुपूते द्रव्याणामेषां कल्कान् समावपेत्||१०७||

शट्याः पुष्करमूलस्य पिप्पलीत्रायमाणयोः|
तामलक्याः किरातानां तिक्तस्य कुटजस्य च||१०८||

फलानां सारिवायाश्च सुपिष्टान् कर्षसम्मितान्|
ततस्तेन घृतप्रस्थं क्षीरद्विगुणितं पचेत्||१०९||

ज्वरं दाहं भ्रमं कासमंसपार्श्वशिरोरुजम्|
तृष्णां छर्दिमतीसारमेतत् सर्पिर्व्यपोहति||११०||

श्लोक 111-113

जीवन्तीं मधुकं द्राक्षां फलानि कुटजस्य च|
शटीं पुष्करमूलं च व्याघ्रीं गोक्षुरकं बलाम्||१११||

नीलोत्पलं तामलकीं त्रायमाणां दुरालभाम्|
पिप्पलीं च समं पिष्ट्वा घृतं वैद्यो विपाचयेत्||११२||

एतद्व्याधिसमूहस्य रोगेशस्य समुत्थितम्|
रूपमेकादशविधं सर्पिरग्र्यं व्यपोहति||११३||

श्लोक 114-116

बलां स्थिरां पृश्निपर्णीं बृहतीं सनिदिग्धिकाम्|
साधयित्वा रसे तस्मिन्पयो गव्यं सनागरम्||११४||

द्राक्षाखर्जूरसर्पिर्भिः पिप्पल्या च शृतं सह|
सक्षौद्रं ज्वरकासघ्नं स्वर्यं चैतत् प्रयोजयेत्||११५||

आजस्य पयसश्चैवं प्रयोगो जाङ्गला रसाः|
यूषार्थे चणका मुद्गा मकुष्ठाश्चोपकल्पिताः||११६||

श्लोक 117-134

ज्वराणां शमनीयो यः पूर्वमुक्तः क्रियाविधिः|
यक्ष्मिणां ज्वरदाहेषु ससर्पिष्कः प्रशस्यते||११७||

कफप्रसेके बलवाञ् श्लैष्मिकश्छर्दयेन्नरः|
पयसा फलयुक्तेन माधुकेन रसेन वा||११८||

सर्पिष्मत्या यवाग्वा वा वमनीयोपसिद्धया|
वान्तोऽन्नकाले लघ्वन्नमाददीत सदीपनम्||११९||

यवगोधूममाध्वीकसिध्वरिष्टसुरासवान्|
जाङ्गलानि च शूल्यानि सेवमानः कफं जयेत्||१२०||

श्लेष्मणोऽतिप्रसेकेन वायुः श्लेष्माणमस्यति|
कफप्रसेकं तं विद्वान् स्निग्धोष्णेनैव निर्जयेत्||१२१||

क्रिया कफप्रसेके या वम्यां सैव प्रशस्यते|
हृद्यानि चान्नपानानि वातघ्नानि लघूनि च||१२२||

प्रायेणोपहताग्नित्वात् सपिच्छमतिसार्यते|
प्राप्नोति चास्यवैरस्यं न चान्नमभिनन्दति||१२३||

तस्याग्निदीपनान् योगानतीसारनिबर्हणान्|
वक्त्रशुद्धिकरान् कुर्यादरुचिप्रतिबाधकान्||१२४||

सनागरानिन्द्रयवान् पाययेत्तण्डुलाम्बुना|
सिद्धां यवागूं जीर्णे च चाङ्गेरीतक्रदाडिमैः||१२५||

पाठा बिल्वं यमानी च पातव्यं तक्रसंयुतम्|
दुरालभा शृङ्गवेरं पाठा च सुरया सह||१२६||

जम्ब्वाम्रमध्यं बिल्वं च सकपित्थं सनागरम्|
पेयामण्डेन पातव्यमतीसारनिवृत्तये||१२७||

एतानेव च योगांस्त्रीन् पाठादीन् कारयेत् खडान्|
ससूप्यधान्यान्सस्नेहान् साम्लान्सङ्ग्रहणान् परम्||१२८||

वेतसार्जुनजम्बूनां मृणालीकृष्णगन्धयोः|
श्रीपर्ण्या मदयन्त्याश्च यूथिकायाश्च पल्लवान्||१२९||

मातुलुङ्गस्य धातक्या दाडिमस्य च कारयेत्|
स्नेहाम्ललवणोपेतान् खडान् साङ्ग्राहिकान् परम्||१३०||

चाङ्गेर्याश्चुक्रिकायाश्च दुग्धिकायाश्च कारयेत्|
खडान्दधिसरोपेतान् ससर्पिष्कान्सदाडिमान्||१३१||

मांसानां लघुपाकानां रसाः साङ्ग्राहिकैर्युताः|
व्यञ्जनार्थं प्रशस्यन्ते भोज्यार्थं रक्तशालयः||१३२||

स्थिरादिपञ्चमूलेन पाने शस्तं शृतं जलम्|
तक्रं सुरा सचुक्रीका दाडिमस्याथवा रसः||१३३||

इत्युक्तं भिन्नशकृतां दीपनं ग्राहि भेषजम्|१३४|

श्लोक 134-140

परं मुखस्य वैरस्यनाशनं रोचनं शृणु ||१३४||

द्वौ कालौ दन्तपवनं भक्षयेन्मुखधावनम्|
तद्वत् प्रक्षालयेदास्यं धारयेत् कवलग्रहान्||१३५||

पिबेद्धूमं ततो मृष्टमद्याद्दीपनपाचनम्|
भेषजं पानमन्नं च हितमिष्टोपकल्पितम्||१३६||

त्वङ्मुस्तमेला धान्यानि मुस्तमामलकं त्वचम्|
दार्वीत्वचो यवानी च तेजोह्वा पिप्पली तथा||१३७||

यवानी तिन्तिडीकं च पञ्चैते मुखधावनाः|
श्लोकपादेष्वभिहिता रोचना मुखशोधनाः||१३८||

गुटिकां धारयेदास्ये चूर्णैर्वा शोधयेन्मुखम्|
एषामालोडितानां वा धारयेत् कवलग्रहान्||१३९||

सुरामाध्वीकसीधूनां तैलस्य मधुसर्पिषोः|
कवलान् धारयेदिष्टान् क्षीरस्येक्षुरसस्य च||१४०||

श्लोक 141-144

यवानीं तिन्तिडीकं च नागरं साम्लवेतसम्|
दाडिमं बदरं चाम्लं कार्षिकं चोपकल्पयेत्||१४१||

धान्यसौवर्चलाजाजीवराङ्गं चार्धकार्षिकम्|
पिप्पलीनां शतं चैकं द्वे शते मरिचस्य च||१४२||

शर्करायाश्च चत्वारि पलान्येकत्र चूर्णयेत्|
जिह्वाविशोधनं हृद्यं तच्चूर्णं भक्तरोचनम्||१४३||

हृत्प्लीहपार्श्वशूलघ्नं विबन्धानाहनाशनम्|
कासश्वासहरं ग्राहि ग्रहण्यर्शोविकारनुत्||१४४||
इति यवानीषाडवम्|

श्लोक 145-148

तालीशपत्रं मरिचं नागरं पिप्पली शुभा|
यथोत्तरं भागवृद्ध्या त्वगेले चार्धभागिके||१४५||

पिप्पल्यष्टगुणा चात्र प्रदेया सितशर्करा|
कासश्वासारुचिहरं तच्चूर्णं दीपनं परम्||१४६||

हृत्पाण्डुग्रहणीदोषशोषप्लीहज्वरापहम्|
वम्यतीसारशूलघ्नं मूढवातानुलोमनम्||१४७||

कल्पयेद्गुटिकां चैतच्चूर्णं पक्त्वा सितोपलाम्|
गुटिका ह्यग्निसंयोगाच्चूर्णाल्लघुतराः स्मृताः||१४८||
इति तालीशाद्यं चूर्णं गुटिकाश्च|

श्लोक 149-172

शुष्यतां क्षीणमांसानां कल्पितानि विधानवित्|
दद्यान्मांसादमांसानि बृंहणानि विशेषतः||१४९||

शोषिणे बार्हिणं दद्याद्बर्हिशब्देन चापरान्|
गृध्रानुलूकांश्चाषांश्च विधिवत् सूपकल्पितान्||१५०||

काकांस्तित्तिरिशब्देन वर्मिशब्देन चोरगान्|
भृष्टान् मत्स्यान्त्रशब्देन दद्याद्गण्डूपदानपि||१५१||

लोपाकान् स्थूलनकुलान् बिडालांश्चोपकल्पितान्|
शृगालशावांश्च भिषक् शशशब्देन दापयेत्||१५२||

सिंहानृक्षांस्तरक्षूंश्च व्याघ्रानेवंविधांस्तथा|
मांसादान् मृगशब्देन दद्यान्मांसाभिवृद्धये||१५३||

गजखड्गितुरङ्गाणां वेशवारीकृतं भिषक्|
दद्यान्महिषशब्देन मांसं मांसाभिवृद्धये||१५४||

मांसेनोपचिताङ्गानां मांसं मांसकरं परम्|
तीक्ष्णोष्णलाघवाच्छस्तं विशेषान्मृगपक्षिणाम्||१५५||

मांसानि यान्यनभ्यासादनिष्टानि प्रयोजयेत्|
तेषूपधा, सुखं भोक्तुं तथा शक्यानि तानि हि||१५६||

जानञ्जुगुप्सन्नैवाद्याज्जग्धं वा पुनरुल्लिखेत्|
तस्माच्छद्मोपसिद्धानि मांसान्येतानि दापयेत्||१५७||

बर्हितित्तिरिदक्षाणां हंसानां शूकरोष्ट्रयोः|
खरगोमहिषाणां च मांसं मांसकरं परम्||१५८||

योनिरष्टविधा चोक्ता मांसानामन्नपानिके|
तां परीक्ष्य भिषग्विद्वान् दद्यान्मांसानि शोषिणे||१५९||

प्रसहा भूशयानूपवारिजा वारिचारिणः|
आहारार्थं प्रदातव्या मात्रया वातशोषिणे||१६०||

प्रतुदा विष्किराश्चैव धन्वजाश्च मृगद्विजाः|
कफपित्तपरीतानां प्रयोज्याः शोषरोगिणाम्||१६१||

विधिवत्सूपसिद्धानि मनोज्ञानि मृदूनि च|
रसवन्ति सुगन्धीनि मांसान्येतानि भक्षयेत्||१६२||

मांसमेवाश्नतः शोषो माध्वीकं पिबतोऽपि च|
नियतानल्पचित्तस्य चिरं काये न तिष्ठति||१६३||

वारुणीमण्डनित्यस्य बहिर्मार्जनसेविनः|
अविधारितवेगस्य यक्ष्मा न लभतेऽन्तरम्||१६४||

प्रसन्नां वारुणीं सीधुमरिष्टानासवान्मधु|
यथार्हमनुपानार्थं पिबेन्मांसानि भक्षयन्||१६५||

मद्यं तैक्ष्ण्यौष्ण्यवैशद्यसूक्ष्मत्वात् स्रोतसां मुखम्|
प्रमथ्य विवृणोत्याशु तन्मोक्षात् सप्त धातवः||१६६||

पुष्यन्ति धातुपोषाच्च शीघ्रं शोषः प्रशाम्यति|
मांसादमांसस्वरसे सिद्धं सर्पिः प्रयोजयेत्||१६७||

सक्षौद्रं, पयसा सिद्धं सर्पिर्दशगुणेन वा|
सिद्धं मधुरकैर्द्रव्यैर्दशमूलकषायकैः||१६८||

क्षीरमांसरसोपेतैर्घृतं शोषहरं परम्|
पिप्पलीपिप्पलीमूलचव्यचित्रकनागरैः||१६९||

सयावशूकैः सक्षीरैः स्रोतसां शोधनं घृतम्|
रास्नाबलागोक्षुरकस्थिरावर्षाभुसाधितम्||१७०||

जीवन्तीपिप्पलीगर्भं सक्षीरं शोषनुद्घृतम्|
यवाग्वा वा पिबेन्मात्रां लिह्याद्वा मधुना सह||१७१||

सिद्धानां सर्पिषामेषामद्यादन्नेन वा सह|
शुष्यतामेष निर्दिष्टो विधिराभ्यवहारिकः||१७२||

श्लोक 173-179

बहिःस्पर्शनमाश्रित्य वक्ष्यतेऽतः परं विधिः|
स्नेहक्षीराम्बुकोष्ठेषु स्वभ्यक्तमवगाहयेत्||१७३||

स्रोतोविबन्धमोक्षार्थं बलपुष्ट्यर्थमेव च|
उत्तीर्णं मिश्रकैःस्नेहैः पुनराक्तैः सुखैः करैः||१७४||

मृद्नीयात् सुखमासीनं सुखं चोत्सादयेन्नरम्|
जीवन्तीं शतवीर्यां च विकसां सपुनर्नवाम्||१७५||

अश्वगन्धामपामार्गं तर्कारीं मधुकं बलाम्|
विदारीं सर्षपं कुष्ठं तण्डुलानतसीफलम्||१७६||

माषांस्तिलांश्च किण्वं च सर्वमेकत्र चूर्णयेत्|
यवचूर्णत्रिगुणितं दध्ना युक्तं समाक्षिकम्||१७७||

एतदुत्सादनं कार्यं पुष्टिवर्णबलप्रदम्|
गौरसर्षपकल्केन कल्कैश्चापि सुगन्धिभिः||१७८||

स्नायादृतुसुखैस्तोयैर्जीवनीयौषधैः शृतैः|१७९|

श्लोक 179-189

गन्धैः समाल्यैर्वासोभिर्भूषणैश्च विभूषितः||१७९||

स्पृश्यान् संस्पृश्य सम्पूज्य देवताः सभिषग्द्विजाः|
इष्टवर्णरसस्पर्शगन्धवत् पानभोजनम्||१८०||

इष्टमिष्टैरुपहितं सुखमद्यात् सुखप्रदम्|
समातीतानि धान्यानि कल्पनीयानि शुष्यताम्||१८१||

लघून्यहीनवीर्याणि स्वादूनि गन्धवन्ति च|
यानि प्रहर्षकारीणि तानि पथ्यतमानि हि||१८२||

यच्चोपदेक्ष्यते पथ्यं क्षतक्षीणचिकित्सिते|
यक्ष्मिणस्तत् प्रयोक्तव्यं बलमांसाभिवृद्धये||१८३||

अभ्यङ्गोत्सादनैश्चैव वासोभिरहतैः प्रियैः|
यथर्तुविहितैः स्नानैरवगाहैर्विमार्जनैः||१८४||

बस्तिभिः क्षीरसर्पिर्भिर्मांसैर्मांसरसौदनैः|
इष्टैर्मद्यैर्मनोज्ञानां गन्धानामुपसेवनैः||१८५||

सुहृदां रमणीयानां प्रमदानां च दर्शनैः|
गीतवादित्रशब्दैश्च प्रियश्रुतिभिरेव च||१८६||

हर्षणाश्वासनैर्नित्यं गुरूणां समुपासनैः|
ब्रह्मचर्येण दानेन तपसा देवतार्चनैः||१८७||

सत्येनाचारयोगेन मङ्गल्यैरप्यहिंसया|
वैद्यविप्रार्चनाच्चैव रोगराजो निवर्तते||१८८||

यया प्रयुक्तया चेष्ट्या राजयक्ष्मा पुरा जितः|
तां वेदविहितामिष्टिमारोग्यार्थी प्रयोजयेत्||१८९||

श्लोक 190-191

तत्र श्लोकौ-
प्रागुत्पत्तिर्निमित्तानि प्राग्रूपं रूपसङ्ग्रहः|
समासाद् व्यासतश्चोक्तं भेषजं राजयक्ष्मणः||१९०||

नामहेतुरसाध्यत्वं साध्यत्वं कृच्छ्रसाध्यता|
इत्युक्तः सङ्ग्रहः कृत्स्नो राजयक्ष्मचिकित्सिते||१९१||

पुष्पिका

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सास्थाने
राजयक्ष्मचिकित्सितं नामाष्टमोऽध्यायः||८||