वातव्याधिचिकित्सितम्

श्लोक 1-4

अथातो वातव्याधिचिकित्सितं व्याख्यास्यामः ||१||

यथोवाच भगवान् धन्वन्तरिः ||२||

आमाशयगते वाते च्छर्दयित्वा यथाक्रमम् |
देयः षड्धरणो योगः सप्तरात्रं सुखाम्बुना ||३||

चित्रकेन्द्रयवे पाठा कटुकाऽतिविषाऽभया |
वातव्याधिप्रशमनो योगः षड्धरणः स्मृतः ||४||

श्लोक 5

पक्वाशयगते चापि देयं स्नेहविरेचनम् |
बस्तयः शोधनीयाश्च प्राशाश्च लवणोत्तराः ||५||

श्लोक 6

कार्यो बस्तिगते चापि विधिर्बस्तिविशोधनः |६|

श्लोक 6

श्रोत्रादिषु प्रकुपिते कार्यश्चानिलहा क्रमः ||६||

श्लोक 7

स्नेहाभ्यङ्गोपनाहाश्च मर्दनालेपनानि च |
त्वङ्मांसासृक्सिराप्राप्ते कुर्यात् चासृग्विमोक्षणम् ||७||

श्लोक 8

स्नेहोपनाहाग्निकर्मबन्धनोन्मर्दनानि च |
स्नायुसन्ध्यस्थिसम्प्राप्ते कुर्याद्वायावतन्द्रितः ||८||

श्लोक 9

निरुद्धेऽस्थनि वा वायौ पाणिमन्थेन दारिते |
नाडीं दत्त्वाऽस्थनि भिषक् चूषयेत्पवनं बली ||९||

श्लोक 10

शुक्रप्राप्तेऽनिले कार्यं शुक्रदोषचिकित्सितम् |१०|

श्लोक 10-11

अवगाहकुटीकर्षूप्रस्तराभ्यङ्गबस्तिभिः ||१०||

जयेत् सर्वाङ्गजं वातं सिरामोक्षैश्च बुद्धिमान् |
एकाङ्गगं च मतिमाञ्छृङ्गैश्चावस्थितं जयेत् ||११||

श्लोक 12

बलासपित्तरक्तैस्तु संसृष्टमविरोधिभिः |१२|

श्लोक 12-13

सुप्तिवाते त्वसृङ्मोक्षं कुर्यात्तु बहुशो भिषक् ||१२||

दिह्याच्च लवणागारधूमैस्तैलसमन्वितैः |१३|

श्लोक 13-14

पञ्चमूलीशृतं क्षीरं फलाम्लो रस एव च ||१३||

सुस्निग्धो धान्ययूषो वा हितो वातविकारिणाम् |१४|

श्लोक 14-16

काकोल्यादिः सवातघ्नः सर्वाम्लद्रव्यसंयुतः ||१४||

सानूपौदकमांसस्तु सर्वस्नेहसमन्वितः |
सुखोष्णः स्पष्टलवणः साल्वणः परिकीर्तितः ||१५||

तेनोपनाहं कुर्वीत सर्वदा वातरोगिणाम् |१६|

श्लोक 16-18

कुञ्च्यमानं रुजार्तं वा गात्रं स्तब्धमथापि वा ||१६||

गाढं पट्टैर्निबध्नीयात् क्षौमकार्पासिकौर्णिकैः |
बिडालनकुलोन्द्राणां चर्मगोण्यां मृगस्य वा ||१७||

प्रवेशयेद्वा स्वभ्यक्तं साल्वणेनोपनाहितम् |१८|

श्लोक 18-19

स्कन्धवक्षस्त्रिकप्राप्तं वायुं मन्यागतं तथा ||१८||

वमनं हन्ति नस्यं च कुशलेन प्रयोजितम् |१९|

श्लोक 19-20

शिरोगतं शिरोबस्तिर्हन्ति वाऽसृग्विमोक्षणम् ||१९||

स्नेहं मात्रासहस्रं तु धारयेत्तत्र योगतः |२०|

श्लोक 20-21

सर्वाङ्गगतमेकाङ्गस्थितं वाऽपि समीरणम् ||२०||

रुणद्धि केवलो बस्तिर्वायुवेगमिवाचलः |२१|

श्लोक 21-26

स्नेहस्वेदस्तथाऽभ्यङ्गो बस्तिः स्नेहविरेचनम् ||२१||

शिरोबस्तिः शिरःस्नेहो धूमः स्नैहिक एव च |
सुखोष्णः स्नेहगण्डूषो नस्यं स्नैहिकमेव च ||२२||

रसाः क्षीराणि मांसानि स्नेहाः स्नेहान्वितं च यत् |
भोजनानि फलाम्लानि स्निग्धानि लवणानि च ||२३||

सुखोष्णाश्च परीषेकास्तथा संवाहनानि च |
कुङ्कुमागुरुपत्राणि कुष्ठैलातगराणि च ||२४||

कौशेयौर्णिकरौमाणि कार्पासानि गुरूणि च |
निवातातपयुक्तानि तथा गर्भगृहाणि च ||२५||

मृद्वी शय्याऽग्निसन्तापो ब्रह्मचर्यं तथैव च |
समासेनैवमादीनि योज्यान्यनिलरोगिषु ||२६||

श्लोक 27

त्रिवृद्दन्तीसुवर्णक्षीरीसप्तलाशङ्खिनीत्रिफलाविडङ्गानामक्षसमाः  भागाः , बिल्वमात्रः कल्कस्तिल्वकमूलकम्पिल्लकयोः,  त्रिफलारसदधिपात्रे द्वे द्वे, घृतपात्रमेकं, तदैकध्यं संसृज्य विपचेत्;  तिल्वकसर्पिरेतत् स्नेहविरेचनमुपदिशन्ति वातरोगिषु |
तिल्वकविधिरेवाशोकरम्यकयोर्द्रष्टव्यः ||२७||

श्लोक 28

तिलपरिपीडनोपकरणकाष्ठान्याहृत्यानल्पकालं तैलपरिपीतान्यणूनि  खण्डशः कल्पयित्वाऽवक्षुद्य महति कटाहे पानीयेनाभिप्लाव्य क्वाथयेत्,ततः स्नेहमम्बुपृष्ठाद्यदुदेति तत् सरकपाण्योरन्यतरेणादाय  वातघ्नौषधप्रतीवापं स्नेहपाककल्पेन विपचेत्, एतदणुतैलमुपदिशन्ति  वातरोगिषु; अणुभ्यस्तैलद्रव्येभ्यो निष्पाद्यत इत्यणुतैलम् ||२८||

श्लोक 29

अथ महापञ्चमूलकाष्ठैर्बहुभिरवदह्यावनिप्रदेशमसितमुषितमेकरात्र-मुपशान्तेऽग्नावपोह्य भस्म निवृत्तां भूमिं विदारिगन्धादिसिद्धेन  तैलघटशतेन तुल्यपयसाऽभिषिच्यैकरात्रमवस्थाप्य ततो यावती  मृत्तिका स्निग्धा स्यात्तामादायोष्णोदकेन महति कटाहेऽभ्यासिञ्चेत्, तत्र यत्तैलमुत्तिष्ठेत्तत् पाणिभ्यां पर्यादाय स्वनुगुप्तं निदध्यात्; ततस्तैलं  वातहरौषधक्वाथमांसरसक्षीराम्लभागसहस्रेण सहस्रपाकं विपचेद्यावता कालेन शक्नुयात् पक्तुं, प्रतिवापश्चात्र हैमवता दक्षिणापथगाश्च गन्धा  वातघ्नानि च, तस्मिन् सिध्यति शङ्खानाध्मापयेद्दुन्दुभीनाघातयेच्छत्रं धारयेद्बालव्यजनैश्च वीजयेद्ब्राह्मणसहस्रं भोजयेत्, तत् साधु  सिद्धमवतार्य सौवर्णे राजते मृन्मये वा पात्रे स्वनुगुप्तं निदध्यात्,  तदेतत् सहस्रपाकमप्रतिवारवीर्यं राजार्हं तैलम्; एवं भागशतविपक्वं  शतपाकम् ||२९||

श्लोक 30

गन्धर्वहस्तमुष्ककनक्तमालाटरूषकपूतीकारग्वधचित्रकादीनां  पत्राण्यार्द्राणि लवणेन सहोदूखलेऽवक्षुद्य स्नेहघटे प्रक्षिप्यावलिप्य  गोशकृद्भिर्दाहयेत्; एतत्पत्रलवणमुपदिशन्ति वातरोगेषु ||३०||

श्लोक 31

एवं स्नुहीकाण्डवार्ताकुशिग्रुलवणानि सङ्क्षुद्य घटं पूरयित्वा  सर्पिस्तैलवसामज्जभिः प्रक्षिप्यावलिप्य गोशकृद्भिर्दाहयेत्; एतत्  स्नेहलवणमुपदिशन्ति वातरोगेषु |
(इति काण्डलवणम्) ||३१||

श्लोक 32

गण्डीरपलाशकुटजबिल्वार्कस्नुह्यपामार्गपाटलापारिभद्रकनादेयी-कृष्णगन्धानीपनिम्बनिर्दहन्यटरूषकनक्तमालक-पूतिकबृहतीकण्टकारिकाभल्लातकेङ्गुदीवैजयन्तीकदलीबाष्पद्वये-क्षुरकेन्द्रवारुणीश्वेतमोक्षकाशोका इत्येवं वर्गं समूलपत्रशाखमार्द्रमाहृत्य लवणेन सह संसृज्य पूर्ववद्दग्ध्वा क्षारकल्पेन परिस्राव्य विपचेत्,  प्रतिवापश्चात्र हिङ्ग्वादिभिः पिप्पल्यादिभिर्वा |
इत्येतत् कल्याणकलवणं  वातरोगगुल्मप्लीहाग्निषङ्गाजीर्णार्शोऽरोचकार्तानां कासादिभिः  कृमिभिरुपद्रुतानां चोपदिशन्ति पानभोजनेष्वपीति ||३२||

श्लोक 33

भवति चात्र-
विष्यन्दनादुष्णभावाद्दोषाणां च विपाचनात् |
संस्कारपाचनाच्चेदं वातरोगेषु शस्यते ||३३||

पुष्पिका

इति सुश्रुतसंहितायां चिकित्सास्थाने वातव्याधिचिकित्सितं नाम  चतुर्थोऽध्यायः ||४||
error: Content is protected !!