विरेचनद्रव्यविकल्पविज्ञानीयाध्यायः

श्लोक 1-2

अथातो विरेचनद्रव्यविकल्पविज्ञानीयमध्यायं व्याख्यास्यामः ||१||

यथोवाच भगवान् धन्वन्तरिः ||२||

श्लोक 3-4

अरुणाभं त्रिवृन्मूलं श्रेष्ठं मूलविरेचने |
प्रधानं तिल्वकस्त्वक्षु फलेष्वपि हरीतकी ||३||

तैलेष्वेरण्डजं तैलं स्वरसे कारवेल्लिका |
सुधापयः पयःसूक्तमिति प्राधान्यसङ्ग्रहः |
तेषां विधानं वक्ष्यामि यथावदनुपूर्वशः ||४||

श्लोक 5

वैरेचनद्रव्यरसानुपीतं मूलं महत्त्रैवृतमस्तदोषम् |
चूर्णीकृतं सैन्धवनागराढ्यमम्लैः पिबेन्मारुतरोगजुष्टः ||५||

श्लोक 6

इक्षोर्विकारैर्मधुरै रसैस्तत् पैत्ते गदे क्षीरयुतं पिबेच्च |६|

श्लोक 6

गुडूच्यरिष्टत्रिफलारसेन सव्योषमूत्रं कफजे पिबेत्तत् ||६||

श्लोक 7-8

त्रिवर्णकत्र्यूषणयुक्तमेतद्गुडेन लिह्यादनवेन चूर्णम् |
प्रस्थे च तन्मूलरसस्य दत्वा तन्मूलकल्कं कुडवप्रमाणम् ||७||

कर्षोन्मिते सैन्धवनागरे च विपाच्य कल्कीकृतमेतदद्यात् |
तत्कल्कभागः समहौषधार्धः ससैन्धवो मूत्रयुतश्च पेयः ||८||

श्लोक 9-11

समास्त्रिवृन्नागरकाभयाः स्युर्भागार्धकं पूगफलं सुपक्वम् |
विडङ्गसारो मरिचं सदारु योगः ससिन्धूद्भवमूत्रयुक्तः ||९||

(विरेचनद्रव्यभवं तु चूर्णं रसेन तेषां भिषजा विमृद्य |
तन्मूलसिद्धेन च सर्पिषाऽऽक्तं सेव्यं तदाज्ये गुटिकीकृतं च ||१०||

गुडे च पाकाभिमुखे निधाय चूर्णीकृतं सम्यगिदं विपाच्य |
शीतं त्रिजाताक्तमथो विमृद्य योगानुरूपा गुटिकाः प्रयोज्याः) ||११||

श्लोक 12-13

वैरेकीयद्रव्यचूर्णस्य भागं सिद्धं सार्धं क्वाथभागैश्चतुर्भिः |
आमृद्नीयात् सर्पिषा तच्छृतेन तत्क्वाथोष्मस्वेदितं सामितं च ||१२||

पाकप्राप्ते फाणिते चूर्णितं तत् क्षिप्तं पक्वं चावतार्य प्रयत्नात् |
शीतीभूता मोदका हृद्यगन्धाः कार्यास्त्वेते भक्ष्यकल्पाः समासात् ||१३||

श्लोक 14

रसेन तेषां परिभाव्य मुद्गान् यूषः ससिन्धूद्भवसर्पिरिष्टः |
वैरेचनेऽन्यैरपि वैदलैः स्यादेवं विदध्याद्वमनौषधैश्च ||१४||

श्लोक 15

भित्त्वा द्विधेक्षुं परिलिप्य कल्कैस्त्रिभण्डिजातैः प्रतिबध्य रज्ज्वा |
पक्वं च सम्यक् पुटपाकयुक्त्या खादेत्तु तं पित्तगदी सुशीतम् ||१५||

श्लोक 16-22

सिताजगन्धात्वक्क्षीरीविदारीत्रिवृतः समाः |
लिह्यान्मधुघृताभ्यां तु तृड्दाहज्वरशान्तये ||१६||

शर्कराक्षौद्रसंयुक्तं त्रिवृच्चूर्णावचूर्णितम् |
रेचनं सुकुमाराणां त्वक्पत्रमरिचांशकम् ||१७||

पचेल्लेहं सिताक्षौद्रपलार्धकुडवान्वितम् |
त्रिवृच्चूर्णयुतं शीतं पित्तघ्नं तद्विरेचनम् ||१८||

त्रिवृच्छ्यामाक्षारशुण्ठीपिप्पलीर्मधुनाऽऽप्नुयात् |
सर्वश्लेष्मविकाराणां श्रेष्ठमेतद्विरेचनम् ||१९||

बीजाढ्यपथ्याकाश्मर्यधात्रीदाडिमकोलजान् |
तैलभृष्टान् रसानम्लफलैरावाप्य साधयेत् ||२०||

घनीभूतं त्रिसौगन्ध्यत्रिवृत्क्षौद्रसमन्वितम् |
लेह्यमेतत्कफप्रायैः सुकुमारैर्विरेचनम् ||२१||

नीलीतुल्यं त्वगेलं च तैस्त्रिवृत्ससितोपला |
चूर्णं सन्तर्पणं क्षौद्रफलाम्लं सन्निपातनुत् ||२२||

श्लोक 23

त्रिवृच्छ्यामासिताकृष्णात्रिफलामाक्षिकैः समैः |
मोदकाः सन्निपातोर्ध्वरक्तपित्तज्वरापहाः ||२३||

श्लोक 24-26

त्रिवृद्भागास्त्रयः प्रोक्तास्त्रिफला तत्समा तथा |
क्षारकृष्णाविडङ्गानि सञ्चूर्ण्य मधुसर्पिषा ||२४||

लिह्याद्गुडेन गुटिकाः कृत्वा वाऽप्यथ भक्षयेत् |
कफवातकृतान् गुल्मान् प्लीहोदरहलीमकान् ||२५||

हन्त्यन्यानपि चाप्येतन्निरपायं विरेचनम् |२६|

श्लोक 26-27

चूर्णं श्यामा त्रिवृन्नीली कट्वी मुस्ता दुरालभा ||२६||

चव्येन्द्रबीजं त्रिफला सर्पिर्मांसरसाम्बुभिः |
पीतं विरेचनं तद्धि रूक्षाणामपि शस्यते ||२७||

श्लोक 28-30

वैरेचनिकनिःक्वाथभागाः शीतास्त्रयो मताः |
द्वौ फाणितस्य तच्चापि पुनरग्नावधिश्रयेत् ||२८||

तत् साधुसिद्धं विज्ञाय शीतं कृत्वा निधापयेत् |
कलसे कृतसंस्कारे विभज्यर्तू हिमाहिमौ ||२९||

मासादूर्ध्वं जातरसं मधुगन्धं वरासवम् |
पिबेदसावेव विधिः क्षारमूत्रासवेष्वपि ||३०||

श्लोक 31-34

वैरेचनिकमूलानां क्वाथे माषान् सुभावितान् |
सुधौतांस्तत्कषायेण शालीनां चापि तण्डुलान् ||३१||

अवक्षुद्यैकतः पिण्डान् कृत्वा शुष्कान् सुचूर्णितान् |
शालितण्डुलचूर्णं च तत्कषायोष्मसाधितम् ||३२||

तस्य पिष्टस्य भागांस्त्रीन् किण्वभागविमिश्रितान् |
मण्डोदकार्थे क्वाथं च दद्यात्तत्सर्वमेकतः ||३३||

निदध्यात्कलसे तां तु सुरां जातरसां पिबेत् |
एष एव सुराकल्पो वमनेष्वपि कीर्तितः ||३४||

श्लोक 35-40

मूलानि त्रिवृदादीनां प्रथमस्य गणस्य च |
महतः पञ्चमूलस्य मूर्वाशार्ङ्गष्टयोरपि ||३५||

सुधां हैमवतीं चैव त्रिफलातिविषे वचाम् |
संहृत्यैतानि भागौ द्वौ कारयेदेकमेतयोः ||३६||

कुर्यान्निःक्वाथमेकस्मिन्नेकस्मिंश्चूर्णमेव तु |
क्षुण्णांस्तस्मिंस्तु निःक्वाथे भावयेद्बहुशो यवान् ||३७||

शुष्काणां मृदुभृष्टानां तेषां भागास्त्रयो मताः |
चतुर्थं भागमावाप्य चूर्णानामत्र कीर्तितम् ||३८||

प्रक्षिप्य कलसे सम्यक् ततस्तं तदनन्तरम् |
तेषामेव कषायेण शीतलेन सुयोजितम् ||३९||

पूर्ववत् सन्निदध्यात्तु ज्ञेयं सौवीरकं हि तत् |४०|

श्लोक 40-45

पूर्वोक्तं वर्गमाहृत्य द्विधा कृत्वैकमेतयोः ||४०||

भागं सङ्क्षुद्य संसृज्य यवैः स्थाल्यामधिश्रयेत् |
अजशृङ्ग्याः कषायेण तमभ्यासिच्य साधयेत् ||४१||

सुसिद्धांश्चावतार्यैतानौषधिभ्यो विवेचयेत् |
विमृद्य सतुषान् सम्यक् ततस्तान् पूर्ववन्मितान् ||४२||

पूर्वोक्तौषधभागस्य चूर्णं दत्त्वा तु पूर्ववत् |
तेनैव सह यूषेण कलसे पूर्ववत् क्षिपेत् ||४३||

ज्ञात्वा जातरसं चापि तत्तुषोदकमादिशेत् |
तुषाम्बुसौवीरकयोर्विधिरेष प्रकीर्तितः ||४४||

षड्रात्रात् सप्तरात्राद्वा ते च पेये प्रकीर्तिते |४५|

श्लोक 45

वैरेचनेषु सर्व्येषु त्रिवृन्मूलविधिः स्मृतः ||४५||

श्लोक 46-47

दन्तीद्रवन्त्योर्मूलानि विशेषान्मृत्कुशान्तरे |
पिप्पलीक्षौद्रयुक्तानि स्विन्नान्युद्धृत्य शोषयेत् ||४६||

ततस्त्रिवृद्विधानेन योजयेच्छ्लेष्मपित्तयोः |४७|

श्लोक 47-49

तयोः कल्ककषायाभ्यां चक्रतैलं विपाचयेत् ||४७||

सर्पिश्च पक्वं वीसर्पकक्षादाहालजीर्जयेत् |
मेहगुल्मानिलश्लेष्मविबन्धांस्तैलमेव च ||४८||

चतुःस्नेहं शकृच्छुक्रवातसंरोधजा रुजः |४९|

श्लोक 49-51

दन्तीद्रवन्तीमरिचकनकाह्वयवासकैः ||४९||

विश्वभेषजमृद्वीकाचित्रकैर्मूत्रभावितम् |
सप्ताहं सर्पिषा चूर्णं योज्यमेतद्विरेचनम् ||५०||

जीर्णे सन्तर्पणं क्षौद्रं पित्तश्लेष्मरुजापहम् |
अजीर्णपार्श्वरुक्पाण्डुप्लीहोदरनिबर्हणम् ||५१||

श्लोक 52-54

गुडस्याष्टपले पथ्या विंशतिः स्युः पलं पलम् |
दन्तीचित्रकयोः कर्षौ पिप्पलीत्रिवृतोर्दश ||५२||

कृत्वैतान्मोदकानेकं दशमे दशमेऽहनि |
ततः खादेदुष्णतोयसेवी निर्यन्त्रणास्त्विमे ||५३||

दोषघ्ना ग्रहणीपाण्डुरोगार्शःकुष्ठनाशनाः |५४|

श्लोक 54-59

व्योषं त्रिजातकं मुस्ता विडङ्गामलके तथा ||५४||

नवैतानि समांशानि त्रिवृदष्टगुणानि वै |
श्लक्ष्णचूर्णीकृतानीह दन्तीभागद्वयं तथा ||५५||

(सर्वाणि चूर्णितानीह गालितानि विमिश्रयेत् ) |
षड्भिश्च शर्कराभागैरीषत्सैन्धवमाक्षिकैः ||५६||

पिण्डितं भक्षयित्वा तु ततः शीताम्बु पाययेत् |
बस्तिरुक्तृड्ज्वरच्छर्दिशोषपाण्डुभ्रमापहम् ||५७||

निर्यन्त्रणमिदं सर्वविषघ्नं तु विरेचनम् |
त्रिवृदष्टकसञ्ज्ञोऽयं प्रशस्तः पित्तरोगिणाम् ||५८||

भक्ष्यः क्षीरानुपानो वा पित्तश्लेष्मातुरैर्नरैः |
भक्ष्यरूपसधर्मत्वादाढ्येष्वेव विधीयते ||५९||

श्लोक 60-62

तिल्वकस्य त्वचं बाह्यामन्तर्वल्कविवर्जिताम् |
चूर्णयित्वा तु द्वौ भागौ तत्कषायेण गालयेत् ||६०||

तृतीयं भावितं तेन भागं शुष्कं तु भावितम् |
दशमूलीकषायेण त्रिवृद्वत्सम्प्रयोजयेत् ||६१||

विधानं त्वक्षु निर्दिष्टं … |६२|

श्लोक 62-69

… फलानामथ वक्ष्यते |
हरीतक्याः फलं त्वस्थिविमुक्तं दोषवर्जितम् ||६२||

योज्यं त्रिवृद्विधानेन सर्वव्याधिनिबर्हणम् |
रसायनं परं मेध्यं दुष्टान्तर्व्रणशोधनम् ||६३||

हरीतकी विडङ्गानि सैन्धवं नागरं त्रिवृत् |
मरिचानि च तत्सर्वं गोमुत्रेण विरेचनम् ||६४||

हरीतकी भद्रदारु कुष्ठं पूगफलं तथा |
सैन्धवं शृङ्गवेरं च गोमूत्रेण विरेचनम् ||६५||

नीलिनीफलचूर्णं तु नागराभययोस्तथा |
लिह्याद्गुडेन सलिलं पश्चादुष्णं पिबेन्नरः ||६६||

पिप्पल्यादिकषायेण पिबेत्पिष्टां हरीतकीम् |
सैन्धवोपहितां सद्य एष योगो विरेचयेत् ||६७||

हरीतकी भक्ष्यमाणा नागरेण गुडेन वा |
सैन्धवोपहिता वाऽपि सातत्येनाग्निदीपनी ||६८||

वातानुलोमनी वृष्या चेन्द्रियाणां प्रसादनी |
सन्तर्पणकृतान् रोगान् प्रायो हन्ति हरीतकी ||६९||

श्लोक 70-71

शीतमामलकं रूक्षं पित्तमेदःकफापहम् |
बिभीतकमनुष्णं तु कफपित्तनिबर्हणम् ||७०||

त्रीण्यप्यम्लकषायाणि सतिक्तमधुराणि च |७१|

श्लोक 71-72

त्रिफला सर्वरोगघ्नी त्रिभागघृतमूर्च्छिता ||७१||

वयसः स्थापनं चापि कुर्यात् सन्ततसेविता |७२|

श्लोक 72-73

हरीतकीविधानेन फलान्येवं प्रयोजयेत् ||७२||

विरेचनानि सर्वाणि… |७३|

श्लोक 73-76

… विशेषाच्चतुरङ्गुलात् |
फलं काले समुद्धृत्य सिकतायां निधापयेत् ||७३||

सप्ताहमातपे शुष्कमतो मज्जानमुद्धरेत् |
तैलं ग्राह्यं जले पक्त्वा तिलवद्वा प्रपीड्य च ||७४||

तस्योपयोगो बालानां यावद्वर्षाणि द्वादश |
लिह्यादेरण्डतैलेन कुष्ठत्रिकटुकान्वितम् ||७५||

सुखोदकं चानुपिबेदेष योगो विरेचयेत् |७६|

श्लोक 76-78

एरण्डतैलं त्रिफलाक्वाथेन त्रिगुणेन तु ||७६||

युक्तं पीतं तथा क्षीररसाभ्यां तु विरेचयेत् |
बालवृद्धक्षतक्षीणसुकुमारेषु योजितम् ||७७||

फलानां विधिरुद्दिष्टः …. |७८|

श्लोक 78-80

… क्षीराणां शृणु सुश्रुत! |
विरेचनानां तीक्ष्णानां पयः सौधं परं मतम् ||७८||

अज्ञप्रयुक्तं तद्धन्ति विषवत् कर्मविभ्रमात् |
विजानता प्रयुक्तं तु महान्तमपि सञ्चयम् ||७९||

भिनत्त्याश्वेव दोषाणां रोगान् हन्ति च दुस्तरान् |८०|

श्लोक 80-84

महत्याः पञ्चमूल्यास्तु बृहत्योश्चैकशः पृथक् ||८०||

कषायैः समभागं तु तदङ्गारेषु शोषितम् |
अम्लादिभिः पूर्ववत्तु प्रयोज्यं कोलसम्मितम् ||८१||

महावृक्षपयः पीतैर्यवागूस्तण्डुलैः कृता |
पीता विरेचयत्याशु गुडेनोत्कारिका कृता ||८२||

लेहो वा साधितः सम्यक् स्नुहीक्षीरपयोघृतैः |
भावितास्तु स्नुहीक्षीरे पिप्पल्यो लवणान्विताः ||८३||

चूर्णं काम्पिल्लकं वाऽपि तत्पीतं गुटिकीकृतम् |८४|

श्लोक 84-86

सप्तला शङ्खिनी दन्ती त्रिवृदारग्वधं गवाम् ||८४||

मूत्रेणाप्लाव्य सप्ताहं स्नुहीक्षीरे ततः परम् |
कीर्णं तेनैव चूर्णेन माल्यं वसनमेव च ||८५||

आघ्रायावृत्य वा सम्यङ्मृदुकोष्ठो विरिच्यते |८६|

श्लोक 86-89

क्षीरत्वक्फलमूलानां विधानैः परिकीर्तितैः |
अवेक्ष्य सम्यग्रोगादीन् यथावदुपयोजयेत् ||८६||

त्रिवृच्छाणा मितास्तिस्रस्तिस्रश्च त्रिफलात्वचः |
विडङ्गपिप्पलीक्षारशाणास्तिस्रश्च चूर्णिताः ||८७||

लिह्यात् सर्पिर्मधुभ्यां च मोदकं वा गुडेन वा |
भक्षयेन्निष्परीहारमेतच्छ्रेष्ठं विरेचनम् ||८८||

गुल्मं प्लीहोदरं कासं हलीमकमरोचकम् |
कफवातकृतांश्चान्यान् व्याधीनेतद्व्यपोहति ||८९||

श्लोक 90

घृतेषु तैलेषु पयःसु चापि मद्येषु मूत्रेषु तथा रसेषु |
भक्ष्यान्नलेह्येषु च तेषु तेषु विरेचनान्यग्रमतिर्विदध्यात् ||९०||

श्लोक 91

क्षीरं रसः कल्कमथो कषायः शृतश्च शीतश्च तथैव चूर्णम् |
कल्पाः षडेते खलु भेषजानां यथोत्तरं ते लघवः प्रदिष्टाः ||९१||

पुष्पिका

इति सुश्रुतसंहितायां सूत्रस्थाने विरेचनद्रव्यविकल्पविज्ञानीयो नाम  चतुश्चत्वारिंशोऽध्यायः ||४४||
error: Content is protected !!