विशिखानुप्रवेशनीयाध्यायः

श्लोक 1-2

अथातो विशिखानुप्रवेशनीयमध्यायं व्याख्यास्यामः ||१||

यथोवाच भगवान् धन्वन्तरिः ||२||

श्लोक 3

अधिगततन्त्रेणोपासिततन्त्रार्थेन दृष्टकर्मणा कृतयोग्येन शास्त्रं निगदता  राजानुज्ञातेन नीचनखरोम्णा शुचिना शुक्लवस्त्रपरिहितेन छत्रवता  दण्डहस्तेन सोपानत्केनानुद्धतवेशेन सुमनसा  कल्याणाभिव्याहारेणाकुहकेन बन्धुभूतेन भूतानां सुसहायवता वैद्येन  विशिखाऽनुप्रवेष्टव्या ||३||

श्लोक 4

ततो दूतनिमित्तशकुनमङ्गलानुलोम्येनातुरगृहमभिगम्य, उपविश्य,  आतुरमभिपश्येत् स्पृशेत् पृच्छेच्च |
त्रिभिरेतैर्विज्ञानोपायै रोगाः प्रायशो वेदितव्या इत्येके; तत्तु न सम्यक्,  षड्विधो हि रोगाणां विज्ञानोपायः,
तद्यथा- पञ्चभिः श्रोत्रादिभिः प्रश्नेन चेति ||४||

श्लोक 5

तत्र श्रोत्रेन्द्रियविज्ञेया विशेषा रोगेषु व्रणास्रावविज्ञानीयादिषु वक्ष्यन्ते- ‘तत्र  सफेनं रक्तमीरयन्ननिलः सशब्दो निर्गच्छति’(सू. अ.२६) इत्येवमादयः,  स्पर्शनेन्द्रियविज्ञेयाः शीतोष्णश्लक्ष्णकर्कशमृदुकठिनत्वादयः  (स्पर्शविशेषा ) ज्वरशोफादिषु, चक्षुरिन्द्रियविज्ञेयाः  शरीरोपचयापचयायुर्लक्षणबलवर्णविकारादयः, रसनेन्द्रियविज्ञेयाः  प्रमेहादिषु रसविशेषाः, घ्राणेन्द्रियविज्ञेया अरिष्टलिङ्गादिषु  व्रणानामव्रणानां च गन्धविशेषाः, प्रश्नेन च विजानीयाद्देशं कालं जातिं  सात्म्यमातङ्कसमुत्पत्तिं वेदनासमुच्छ्रायं बलमन्तरग्निं वातमूत्रपुरीषाणां  प्रवृत्तिमप्रवृत्तिं कालप्रकर्षादींश्च विशेषान् |
आत्मसदृशेषु विज्ञानाभ्युपायेषु तत्स्थानीयैर्जानीयात् ||५||

श्लोक 6

एवमभिसमीक्ष्य साध्यान् साधयेत्, याप्यान् यापयेत्,  असाध्यान्नैवोपक्रमेत, परिसंवत्सरोत्थितांश्च विकारान् प्रायशो वर्जयेत्  ||६||

श्लोक 7

भवति चात्र-
मिथ्यादृष्टा विकारा हि दुराख्यातास्तथैव च |
तथा दुष्परिमृष्टाश्च मोहयेयुश्चिकित्सकम् ||७||

श्लोक 8

तत्र साध्या अपि व्याधयः प्रायेणैषां दुश्चिकित्स्यतमा भवन्ति |
तद्यथा-श्रोत्रियनृपतिस्त्रीबालवृद्धभीरुराजसेवककितवदुर्बलवै द्यविदग्धव्याधिगोपकदरिद्रकृपणक्रोधनानामनात्मवतामनाथानां  च; एवं निरूप्य  चिकित्सां कुर्वन् धर्मार्थकामयशांसि प्राप्नोति ||८||

श्लोक 9

भवति चात्र-
स्त्रीभिः सहास्यां संवासं परिहासं च वर्जयेत् |
दत्तं च ताभ्यो नादेयमन्नादन्यद्भिषग्वरैः ||९||

पुष्पिका

इति सुश्रुतसंहितायां सूत्रस्थाने विशिखानुप्रवेशनीयो नाम  दशमोऽध्यायः ||१०||