विषयानुक्रमणिका

श्लोक 1-9

माधवनिदानान्तर्गतविषयानुक्रमणिका

अथ विषयानुक्रमणिका |
ज्वरोऽतिसारो ग्रहणी चार्शोऽजीर्णं विसूचिका |
अलसश्च विलम्बी च क्रिमिरुक्पाण्डुकामलाः ||१||

हलीमकं रक्तपित्तं राजयक्ष्मा उरःक्षतम् |
कासो हिक्का सह श्वासैः स्वरभेदस्त्वरोचकः ||२||

छर्दिस्तृष्णा च मूर्छाद्या रोगाः पानात्ययादयः |
दाहोन्मादावपस्मारः कथितोऽथानिलामयः ||३||

वातरक्तमूरुस्तम्भ आमवातोऽथ शूलरुक् |
पक्तिजं शूलमानाह उदावर्तोऽथ गुल्मरुक् ||४||

हृद्रोगो मूत्रकृच्छ्रं च मूत्राघातस्तथाऽश्मरी |
प्रमेहो मधुमेहश्च पिडकाश्च प्रमेहजाः ||५||

मेदस्तथोदरं शोथो वृद्धिश्च गलगण्डकः |
गण्डमालाऽपची ग्रन्थिरर्बुदः श्लीपदं तथा ||६||

विद्रधिर्व्रणशोथश्च द्वौ व्रणौ भग्ननाडिके |
भगन्दरोपदंशौ च शूकदोषस्त्वगामयः ||७||

शीतपित्तमुदर्दश्च कोठश्चैवाम्लपित्तकम् |
विसर्पश्च सविस्फोटः सरोमान्त्यो मसूरिकाः ||८||

क्षुद्रास्यकर्णनासाक्षिशिरःस्त्रीबालकामयाः |
विषं चेत्ययमुद्दिष्टो रुग्विनिश्चयसङ्ग्रहः ||९||

श्लोक 10-11

रुग्विनिश्चयप्रशस्तिः

सुभाषितं यत्र यदस्ति किञ्चित्तत् सर्वमेकीकृतमत्र यत्नात् |
विनिश्चये सर्वरुजां नराणां श्रीमाधववेनेन्दुकरात्मजेन ||१०||

यत् कृतं सुकृतं किञ्चित् कृत्वैवं रुग्विनिश्चयम् |
मुञ्चन्तु जन्तवस्तेन नित्यमातङ्कसन्ततिम् ||११||

पुष्पिका

इति श्रीमाधवकरविरचितं माधवनिदानं समाप्तम् ||७०||
error: Content is protected !!