व्रणितोपासनीयाध्यायः

श्लोक 1-2

अथातो व्रणितोपासनीयमध्यायं व्याख्यास्यामः ||१||

यथोवाच भगवान् धन्वन्तरिः ||२||

श्लोक 3

व्रणितस्य प्रथममेवागारमन्विच्छेत्; तच्चागारं प्रशस्तवास्त्वादिकं कार्यम्||३||

श्लोक 4

प्रशस्तवास्तुनि गृहे शुचावातपवर्जिते |
निवाते न च रोगाः स्युः शारीरागन्तुमानसाः ||४||

श्लोक 5

तस्मिञ् शयनमसम्बाधं स्वास्तीर्णं मनोज्ञं प्राक्शिरस्कं सशस्त्रं कुर्वीत  ||५||

श्लोक 6

सुखचेष्टाप्रचारः स्यात् स्वास्तीर्णे शयने व्रणी |
प्राच्यां दिशि स्थिता देवास्तत्पूजार्थं च तच्छिरः ||६||

श्लोक 7

तस्मिन् सुहृद्भिरनुकूलैः प्रियंवदैरुपास्यमानो यथेष्टमासीत ||७||

श्लोक 8

सुहृदो विक्षिपन्त्याशु कथाभिर्व्रणवेदनाः |
आश्वासयन्तो बहुशः स्वनुकूलाः प्रियंवदाः ||८||

श्लोक 9

न च दिवानिद्रावशगः स्यात् ||९||

श्लोक 10

दिवास्वप्नाद्व्रणे कण्डूर्गात्राणां गौरवं तथा |
श्वयथुर्वेदना रागः स्रावश्चैव भृशं भवेत् ||१०||

श्लोक 11

उत्थानसंवेशनपरिवर्तनचङ्क्रमणोच्चैर्भाषणाद्यास्वात्मचेष्टास्वप्रमत्तो  व्रणंसंरक्षेत् ||११||

श्लोक 12

स्थानासनं चङ्क्रमणं दिवास्वप्नं तथैव च |
व्रणितो न निषेवेत शक्तिमानपि मानवः ||१२||

श्लोक 13

उत्थानाद्यासनं स्थानं शय्या चातिनिषेविता |
प्राप्नुयान्मारुतादङ्गरुजस्तस्माद्विवर्जयेत् ||१३||

श्लोक 14

गम्यानां च स्त्रीणां सन्दर्शनसम्भाषणसंस्पर्शनानि दूरत एव परिहरेत्  ||१४||

श्लोक 15

स्त्रीदर्शनादिभिः शुक्रं कदाचिच्चलितं स्रवेत् |
ग्राम्यधर्मकृतान्दोषान् सोऽसंसर्गेऽप्यवाप्नुयात् ||१५||

श्लोक 16

नवधान्यमाषतिलकलायकुलत्थनिष्पावहरितकशाकाम्ललवणकटुकगु-डपिष्टविकृतिवल्लूरशुष्कशाकाजाविकानूपौदक-मांसवसाशीतोदककृशरापायसदधिदुग्धतक्रप्रभृतीनि परिहरेत् ||१६||

श्लोक 17

तक्रान्तो नवधान्यादिर्योऽयं वर्ग उदाहृतः |
दोषसञ्जननो ह्येष विज्ञेयः पूयवर्धनः ||१७||

श्लोक 18

मद्यपश्च मैरेयारिष्टासवसीधुसुराविकारान् परिहरेत् ||१८||

श्लोक 19

मद्यमम्लं तथा रूक्षं तीक्ष्णमुष्णं च वीर्यतः |
आशुकारि च तत् पीतं क्षिप्रं व्यापादयेद्व्रणम् ||१९||

श्लोक 20

वातातपरजोधूमावश्यायातिसेवनातिभोजनानिष्टभोजनश्रवणदर्शनेर्ष्या-मर्षभयशोकध्यानरात्रिजागरणविषमाशन-शयनोपवासवाग्व्यायामस्थानचङ्क्रमणशीतवातविरुद्धाध्यशनाजीर्ण-मक्षिकाद्या बाधाः परिहरेत् ||२०||

श्लोक 21-22

व्रणिनः सम्प्रतप्तस्य कारणैरेवमादिभिः |
क्षीणशोणितमांसस्य भुक्तं सम्यङ्न जीर्यति ||२१||

अजीर्णात् पवनादीनां विभ्रमो बलवान् भवेत् |
ततः शोफरुजास्रावदाहपाकानवाप्नुयात् ||२२||

श्लोक 23

सदा नीचनखरोम्णा शुचिना शुक्लवाससा  शान्तिमङ्गलदेवताब्राह्मणगुरुपरेण भवितव्यमिति |
तत् कस्य हेतोः? हिंसाविहाराणि हि महावीर्याणि रक्षांसि  पशुपतिकुबेरकुमारानुचराणि मांसशोणितप्रियत्वात् क्षतजनिमित्तं  व्रणिनमुपसर्पन्ति, सत्कारार्थं जिघांसूनि वा कदाचित् ||२३||

श्लोक 24

भवति चात्र |
तेषां सत्कारकामानां प्रयतेतान्तरात्मना |
धूपबल्युपहारांश्च भक्ष्यांश्चैवोपहारयेत् ||२४||

श्लोक 25-26

ते तु सन्तर्पिता आत्मवन्तं न हिंस्युः |
तस्मात् सततमतन्द्रितो जनपरिवृतो नित्यं  दीपोदकशस्त्रस्रग्दामपुष्पलाजाद्यलङ्कृते वेश्मनि  सम्पन्मङ्गलमनोऽनुकूलाः कथाः शृण्वन्नासीत ||२५||

सम्पदाद्यनुकूलाभिः कथाभिः प्रीतमानसः |
आशावान् व्याधिमोक्षाय क्षिप्रं सुखमवाप्नुयात् ||२६||

श्लोक 27

ऋग्यजुःसामाथर्ववेदाभिहितैरपरैश्चाशीर्विधानैरुपाध्याया भिषजश्च  सन्ध्ययो  रक्षां कुर्युः ||२७||

श्लोक 28

सर्षपारिष्टपत्राभ्यां सर्पिषा लवणेन च |
द्विरह्नः कारयेद्धूपं दशरात्रमतन्द्रितः ||२८||

श्लोक 29

छत्रामतिच्छत्रां लाङ्गू(ङ्ग)लीं जटिलां ब्रह्मचारिणीं लक्ष्मीं गुहामतिगुहां  वचामतिविषां शतवीर्यां सहस्रवीर्यां सिद्धार्थकांश्च शिरसा धारयेत्  ||२९||

श्लोक 30

व्यज्येत बालव्यजनैर्व्रणं न च विघट्टयेत् |
न तुदेन्न च कण्डूयेच्छयानः परिपालयेत् ||३०||

श्लोक 31

अनेन विधिना युक्तमादावेव निशाचराः |
वनं केशरिणऽऽक्रान्तं वर्जयन्ति मृगा इव ||३१||

श्लोक 32-35

जीर्णशाल्योदनं स्निग्धमल्पमुष्णं द्रवोत्तरम् |
भुञ्जानो जाङ्गलैर्मांसैः शीघ्रं व्रणमपोहति ||३२||

तण्डुलीयकजीवन्तीसुनिषण्णकवास्तुकैः |
बालमूलकवार्ताकपटोलैः कारवेल्लकैः ||३३||

सदाडिमैः सामलकैर्घृतभृष्टैः ससैन्धवैः |
अन्यैरेवङ्गुणैर्वाऽपि मुद्गादीनां रसेन वा ||३४||

शक्तून् विलेपीं कुल्माषाञ्जलं चापि शृतं पिबेत् |३५|

श्लोक 35-37

दिवा न निद्रावशगो निवातगृहगोचरः |
व्रणी वैद्यवशे तिष्ठञ् शीघ्रं व्रणमपोहति ||३५||

(व्रणे श्वयथुरायासात् स च रागश्च जागारात् |
तौ च रुक् च दिवास्वापात्ताश्च मृत्युश्च मैथुनात्) ||३६||

एवंवृत्तसमाचारो व्रणी सम्पद्यते सुखी |
आयुश्च दीर्घमाप्नोति धन्वन्तरिवचो यथा ||३७||

पुष्पिका

इति सुश्रुतसंहितायां सूत्रस्थाने व्रणितोपासनीयो नामैकोनविंशोऽध्यायः||१९||
error: Content is protected !!