शिष्योपनयनीयाध्यायः

श्लोक 1-2

अथातः शिष्योपनयनीयमध्यायं व्याख्यास्यामः ||१||

यथोवाच भगवान् धन्वन्तरिः ||२||

श्लोक 3

ब्राह्मणक्षत्रियवैश्यानामन्यतममन्वयवयःशीलशौर्यशौचाचारविनयशक्ति-बलमेधाधृतिस्मृतिमतिप्रतिपत्तियुक्तं  तनुजिह्वौष्ठदन्ताग्रमृजुवक्त्राक्षिनासं  प्रसन्नचित्तवाक्चेष्टं क्लेशसहं च  भिषक् शिष्यमुपनयेत् |
अतो विपरीतगुणं नोपनयेत् ||३||

श्लोक 4

उपनयनीयं तु ब्राह्मणं प्रशस्तेषु तिथिकरणमुहूर्तनक्षत्रेषु प्रशस्तायां  दिशि  शुचौ समे देशे चतुर्हस्तं चतुरस्रं स्थण्डिलमुपलिप्य गोमयेन,  दर्भैः संस्तीर्य  रत्नपुष्पलाजभक्तैर्देवताः पूजयित्वा विप्रान् भिषजश्च,  तत्रोल्लिख्याभ्युक्ष्य च दक्षिणतो ब्रह्माणं स्थापयित्वाऽग्निमुपसमाधाय,  खदिरपलाशदेवदारुबिल्वानां समिद्भिश्चतुर्णां वा क्षीरिवृक्षाणां  (न्यग्रोधोदुम्बराश्वत्थमधूकानां) दधिमधुघृताक्ताभिर्दार्वीहौमिकेन  विधिना  सप्रणवाभिर्महाव्याहृतिभिः स्रुवेणाज्याहुतीर्जुहुयात्, ततः  प्रतिदैवतमृषींश्च स्वाहाकारं कुर्यात्, शिष्यमपि कारयेत् ||४||

श्लोक 5

ब्राह्मणस्त्रयाणां वर्णानामुपनयनं कर्तुमर्हति, (राजन्यो द्वयस्य, वैश्यो  वैश्यस्यैवेति;) शूद्रमपि कुलगुणसम्पन्नं  मन्त्रवर्जमनुपनीतमध्यापयेदित्येके  ||५||

श्लोक 6

ततोऽग्निं त्रिः परिणीयाग्निसाक्षिकं शिष्यं ब्रूयात्-कामक्रोधलोभमोहमानाहङ्कारेर्ष्यापारुष्यपैशुन्यानृतालस्यायशस्यानि हित्वा,नीचनखरोम्णाशुचिना कषायवाससा  सत्यव्रतब्रह्मचर्याभिवादनतत्परे-णावश्यं भवितव्यं,  मदनुमतस्थानगमनशयनासनभोजनाध्ययनपरेण  भूत्वा मत्प्रियहितेषु वर्तितव्यम्; अतोऽन्यथा ते वर्तमानस्याधर्मो भवति,  अफला च विद्या, न च प्राकाश्यं प्राप्नोति ||६||

श्लोक 7

अहं वा त्वयि सम्यग्वर्तमाने यद्यन्यथादर्शी  स्यामेनोभाग्भवेयमफलविद्यश्च  ||७||

श्लोक 8

द्विजगुरुदरिद्रमित्रप्रव्रजितोपनतसाध्वनाथाभ्युपगतानां  चात्मबान्धवानामिव स्वभैषजैः प्रतिकर्तव्यम्, एवं साधु भवति;  व्याधशाकुनिकपतितपापकारिणां च न प्रतिकर्तव्यम्; एवं विद्या  प्रकाशते मित्रयशोधर्मार्थकामांश्च प्राप्नोति ||८||

श्लोक 9-10

भवतश्चात्र-
कृष्णेऽष्टमी तन्निधनेऽहनी द्वे शुक्ले तथाऽप्येवमहर्द्विसन्ध्यम् |
अकालविद्युत्स्तनयित्नुघोषे स्वतन्त्रराष्ट्रक्षितिपव्यथासु ||९||

श्मशानयानाद्यतनाहवेषु महोत्सवौत्पातिकदर्शनेषु |
नाध्येयमन्येषु च येषु विप्रा नाधीयते नाशुचिना च नित्यम् ||१०||

पुष्पिका

इति सुश्रुतसंहितायां सूत्रस्थाने शिष्योपनयनीयो नाम द्वितीयोऽध्यायः ||२||