श्लोक 1-2
अथातः श्यामात्रिवृत्कल्पं व्याख्यास्यामः||१||
इति ह स्माह भगवानात्रेयः||२||
श्लोक 3
विरेचने त्रिवृन्मूलं श्रेष्ठमाहुर्मनीषिणः |
तस्याः सञ्ज्ञा गुणाः कर्म भेदः कल्पश्च वक्ष्यते||३||
श्लोक 4
त्रिभण्डी त्रिवृता चैव श्यामा कूटरणा तथा|
सर्वानुभूतिः सुवहा शब्दैः पर्यायवाचकैः||४||
श्लोक 5-6
कषाया मधुरा रूक्षा विपाके कटुका च सा|
कफपित्तप्रशमनी रौक्ष्याच्चानिलकोपनी||५||
सेदानीमौषधैर्युक्ता वातपित्तकफापहैः|
कल्पवैशेष्यमासाद्य सर्वरोगहरा भवेत्||६||
श्लोक 7-9
मूलं तु द्विविधं तस्याः श्यामं चारुणमेव च|
तयोर्मुख्यतरं विद्धि मूलं यदरुणप्रभम्||७||
सुकुमारे शिशौ वृद्धे मृदुकोष्ठे च तच्छुभम् |
मोहयेदाशुकारित्वाच्छ्यामा क्षिण्वीत मूर्च्छयेत् ||८||
तैक्ष्ण्यात् कर्षति हृत्कण्ठमाशु दोषं हरत्यपि|
शस्यते बहुदोषाणां क्रूरकोष्ठाश्च ये नराः||९||
श्लोक 10-11
गुणवत्यां तयोर्भूमौ जातं मूलं समुद्धरेत्|
उपोष्य प्रयतः शुक्ले शुक्लवासाः समाहितः||१०||
गम्भीरानुगतं श्लक्ष्णमतिर्यग्विसृतं च यत्|
तद्विपाट्योद्धरेद्गर्भं त्वचं शुष्कां निधापयेत्||११||
श्लोक 12
स्निग्धस्विन्नो विरेच्यस्तु पेयामात्रोषितः सुखम्|१२|
श्लोक 12-13
अक्षमात्रं तयोः पिण्डं विनीयाम्लेन ना पिबेत्||१२||
गोऽव्यजामहिषीमूत्रसौवीरकतुषोदकैः|
प्रसन्नया त्रिफलया शृतया च पृथक् पिबेत्||१३||
श्लोक 14
एकैकं सैन्धवादीनां द्वादशानां सनागरम्|
त्रिवृद्द्विगुणसंयुक्तं चूर्णमुष्णाम्बुना पिबेत्||१४||
श्लोक 15-17
पिप्पली पिप्पलीमूलं मरिचं गजपिप्पली|
सरलः किलिमं हिङ्गु भार्गी तेजोवती तथा||१५||
मुस्तं हैमवती पथ्या चित्रको रजनी वचा|
स्वर्णक्षीर्यजमोदा च शृङ्गवेरं च तैः पृथक्||१६||
एकैकार्धांशसंयुक्तं पिबेद्गोमूत्रसंयुतम्|१७|
श्लोक 17
मधुकार्धांशसंयुक्तं शर्कराम्बुयुतं पिबेत्||१७||
श्लोक 18-20
जीवकर्षभकौ मेदां श्रावणीं कर्काटाह्वयाम्|
मुद्गमाषाख्यपर्ण्यौ च महतीं श्रावणीं तथा||१८||
काकोलीं क्षीरकाकोलीमिन्द्रां छिन्नरुहां तथा|
क्षीरशुक्लां पयस्यां च यष्ट्याह्वं विधिना पिबेत्||१९||
वातपित्तहितान्येतान्यन्यानि तु कफानिले|२०|
श्लोक 20-21
क्षीरमांसेक्षुकाश्मर्यद्राक्षापीलुरसैः पृथक्||२०||
सर्पिषा वा तयोश्चूर्णमभयार्धांशिकं पिबेत्|२१|
श्लोक 21-32
लिह्याद्वा मधुसर्पिर्भ्यां संयुक्तं ससितोपलम्||२१||
अजगन्धा तुगाक्षीरी विदारी शर्करा त्रिवृत्|
चूर्णितं क्षौद्रसर्पिर्भ्यां लीढ्वा साधु विरिच्यते||२२||
सन्निपातज्वरस्तम्भदाहतृष्णार्दितो नरः|
श्यामात्रिवृत्कषायेण कल्केन च सशर्करम्||२३||
साधयेद्विधिवल्लेहं लिह्यात् पाणितलं ततः|
सक्षौद्रां शर्करां पक्त्वा कुर्यान्मृद्भाजने नवे||२४||
क्षिपेच्छीते त्रिवृच्चूर्णं त्वक्पत्रमरिचैः सह|
मात्रया लेहयेदेतदीश्वराणां विरेचनम्||२५||
कुडवांशान् रसानिक्षुद्राक्षापीलुपरुषकात्|
सितोपलापलं क्षौद्रात् कुडवार्धं च साधयेत्||२६||
तं लेहं योजयेच्छीतं त्रिवृच्चूर्णेन शास्त्रवित्|
एतदुत्सन्नपित्तानामीश्वराणां विरेचनम्||२७||
शर्करामोदकान् वर्तीर्गुलिकामांसपूपकान्|
अनेन विधिना कुर्यात् पैत्तिकानां विरेचनम्||२८||
पिप्पलीं नागरं क्षारं श्यामां त्रिवृतया सह|
लेहयेन्मधुना सार्धं श्लेष्मलानां विरेचनम्||२९||
मातुलुङ्गाभयाधात्रीश्रीपर्णीकोलदाडिमात्|
सुभृष्टान् स्वरसांस्तैले साधयेत्तत्र चावपेत्||३०||
सहकारात् कपित्थाच्च मध्यमम्लं च यत् फलम्|
पूर्ववद्बहलीभूते त्रिवृच्चूर्णं समावपेत्||३१||
त्वक्पत्रकेशरैलानां चूर्णं मधु च मात्रया|
लेहोऽयं कफपूर्णानामीश्वराणां विरेचनम्||३२||
श्लोक 33
पानकानि रसान् यूषान्मोदकान् रागषाडवान्|
अनेन विधिना कुर्याद्विरेकार्थं कफाधिके||३३||
श्लोक 34-35
भृङ्गैलाभ्यां समा नीली तैस्त्रिवृत्तैश्च शर्करा|
चूर्णं फलरसक्षौद्रशक्तुभिस्तर्पणं पिबेत्||३४||
वातपित्तकफोत्थेषु रोगेष्वल्पानलेषु च|
नरेषु सुकुमारेषु निरपायं विरेचनम्||३५||
श्लोक 36
शर्करात्रिफलाश्यामात्रिवृत्पिप्पलिमाक्षिकैः|
मोदकः सन्निपातोर्ध्वरक्तपित्तज्वरापहः||३६||
श्लोक 37-39
त्रिवृच्छाणा मतास्तिस्रस्तिस्रश्च त्रिफलात्वचः|
विडङ्गपिप्पलीक्षारशाणास्तिस्रश्च चूर्णिताः||३७||
लिह्यात् सर्पिर्मधुभ्यां च मोदकं वा गुडेन तु|
भक्षयेन्निष्परीहारमेतच्छोधनमुत्तमम् ||३८||
गुल्मं प्लीहोदरं श्वासं हलीमकमरोचकम्|
कफवातकृतांश्चान्यान् व्याधीनेतह्यपोहति||३९||
श्लोक 40-45
विडङ्गपिप्पलीमूलत्रिफलाधान्यचित्रकान्|
मरिचेन्द्रयवाजाजीपिप्पलीहस्तिपिप्पलीः||४०||
लवणान्यजमोदां च चूर्णितं कार्षिकं पृथक्|
तिलतैलत्रिवृच्चूर्णभागौ चाष्टपलोन्मितौ||४१||
धात्रीफलरसप्रस्थांस्त्रीन् गुडार्धतुलां तथा|
पक्त्वा मृद्वग्निना खादेद्बदरोदुम्बरोपमान्||४२||
गुडान् कृत्वा न चात्र स्याद्विहाराहारयन्त्रणा|
मन्दाग्नित्वं ज्वरं मूर्च्छां मूत्रकृच्छ्रमरोचकम्||४३||
अस्वप्नं गात्रशूलं च कासं श्वासं भ्रमं क्षयम्|
कुष्ठार्शःकामलामेहगुल्मोदरभगन्दरान्||४४||
ग्रहणीपाण्डुरोगांश्च हन्युः पुंसवनाश्च ते|
कल्याणका इति ख्याताः सर्वेष्वृतुषु यौगिकाः||४५||
इति कल्याणकगुडः|४६|
श्लोक 46-50
व्योषत्वक्पत्रमुस्तैलाविडङ्गामलकाभयाः |
समभागा भिषग्दद्याद्द्विगुणं च मुकूलकम्||४६||
त्रिवृतोऽष्टगुणं भागं शर्करायाश्च षड्गुणम्|
चूर्णितं गुडिकाः कृत्वा क्षौद्रेण पलसम्मिताः||४७||
भक्षयेत् कल्यमुत्थाय शीतं चानु पिबेज्जलम्|
मूत्रकृच्छ्रे ज्वरे वम्यां कासे श्वासे भ्रमे क्षये||४८||
तापे पाण्ड्वामयेऽल्पेऽग्नौ शस्ता निर्यन्त्रणाशिनः|
योगः सर्वविषाणां च मतः श्रेष्ठो विरेचने||४९||
मूत्रजानां च रोगाणां विधिज्ञेनावचारितः|५०|
श्लोक 50-51
पथ्याधात्र्युरुबूकाणां प्रसृतौ द्वौ त्रिवृत्पलम्||५०||
दश तान्मोदकान् कुर्यादीश्वराणां विरेचनम्|५१|
श्लोक 51-55
त्रिवृद्धैमवती श्यामा नीलिनी हस्तिपिप्पली||५१||
समूला पिप्पली मुस्तमजमोदा दुरालभा|
कार्षिकं नागरपलं गुडस्य पलविंशतिम्||५२||
चूर्णितं मोदकान् कुर्यादुदुम्बरफलोपमान्|
हिङ्गुसौवर्चलव्योषयवानीबिडजीरकैः||५३||
वचाजगन्धात्रिफलाचव्यचित्रकधान्यकैः|
मोदकान् वेष्टयेच्चूर्णैस्तान् सतुम्बुरुदाडिमैः||५४||
त्रिकवङ्क्षणहृद्बस्तिकोष्ठार्शःप्लीहशूलिनाम्|
हिक्काकासारुचिश्वासकफोदावर्तिनां शुभाः ||५५||
श्लोक 56-64
त्रिवृतां कौटजं बीजं पिप्पलीं विश्वभेषजम्|
क्षौद्रद्राक्षारसोपेतं वर्षास्वेतद्विरेचनम्||५६||
त्रिवृद्दुरालभामुस्तशर्करोदीच्यचन्दनम्|
द्राक्षाम्बुना सयष्ट्याह्वसातलं जलदात्यये||५७||
त्रिवृतां चित्रकं पाठामजाजीं सरलं वचाम्|
स्वर्णक्षीरीं च हेमन्ते पिष्ट्वा तूष्णाम्बुना पिबेत्||५८||
शर्करा त्रिवृता तुल्या ग्रीष्मकाले विरेचनम्|
त्रिवृत्त्रायन्तिहपुषाः सातलां कटुरोहिणीम् ||५९||
स्वर्णक्षीरीं च सञ्चूर्ण्य गोमूत्रे भावयेत्त्र्यहम्|
एष सर्वर्तुको योगः स्निग्धानां मलदोषहृत्||६०||
त्रिवृच्छ्यामा दुरालम्भा वत्सकं हस्तिपिप्पली|
नीलिनी त्रिफला मुस्तं कटुका च सुचूर्णितम्||६१||
सर्पिर्मांसरसोष्णाम्बुयुक्तं पाणितलं ततः|
पिबेत् सुखतमं ह्येतद्रूक्षाणामपि शस्यते||६२||
त्र्यूषणं त्रिफला हिङ्गु कार्षिकं त्रिवृतापलम्|
सौवर्चलार्धकर्षं च पलार्धं चाम्लवेतसात्||६३||
तच्चूर्णं शर्करातुल्यं मद्येनाम्लेन वा पिबेत्|
गुल्मपार्श्वार्तिनुत्सिद्धं जीर्णे चाद्याद्रसौदनम्||६४||
श्लोक 65-66
त्रिवृतां त्रिफलां दन्तीं सप्तलां व्योषसैन्धवम्|
कृत्वा चूर्णं तु सप्ताहं भाव्यमामलकीरसे||६५||
तद्योज्यं तर्पणे यूषे पिशिते रागयुक्तिषु|६६|
श्लोक 66-68
तुल्याम्लं त्रिवृताकल्कसिद्धं गुल्महरं घृतम्||६६||
श्यामात्रिवृतयोर्मूलं पचेदामलकैः सह|
जले तेन कषायेण पक्त्वा सर्पिः पिबेन्नरः||६७||
श्यामात्रिवृत्कषायेण सिद्धं सर्पिः पिबेत्तथा|
साधितं वा पयस्ताभ्यां सुखं तेन विरिच्यते||६८||
श्लोक 69-71
त्रिवृन्मुष्टींस्तु सनखानष्टौ द्रोणेऽम्भसः पचेत् |
पादशेषं कषायं तं पूतं गुडतुलायुतम्||६९||
स्निग्धे स्थाप्यं घटे क्षौद्रपिप्पलीफलचित्रकैः|
प्रलिप्ते मधुना मासं जातं तन्मात्रया पिबेत्||७०||
ग्रहणीपाण्डुरोगघ्नं गुल्मश्वयथुनाशनम्|
सुरां वा त्रिवृतायोगकिण्वां तत्क्वाथसंयुताम्||७१||
श्लोक 72-73
यवैः श्यामात्रिवृत्क्वाथस्विन्नैः कुल्माषमम्भसा|
आसुतं षडहं पल्ले जातं सौवीरकं पिबेत्||७२||
भृष्टान् वा सतुषाञ्छुद्धान् यवांस्तच्चूर्णसंयुतान्|
आसुतानम्भसा तद्वत् पिबेज्जातं तुषोदकम्||७३||
श्लोक 74
तथा मदनकल्पोक्तान् षाडवादीन् पृथग्दश|
त्रिवृच्चूर्णेन संयोज्य विरेकार्थं प्रयोजयेत्||७४||
श्लोक 75-76
भवतश्चात्र-
त्वक्केशराम्रातकदाडिमैलासितोपलामाक्षिकमातुलुङ्गैः|
मद्यैस्तथाऽम्लैश्च मनोनुकूलैर्युक्तानि देयानि विरेचनानि||७५||
शीताम्बुना पीतवतश्च तस्य सिञ्चेन्मुखं छर्दिविघातहेतोः|
हृद्यांश्च मृत्पुष्पफलप्रवालानम्लं च दद्यादुपजिघ्रणार्थम्||७६||
श्लोक 77-80
तत्र श्लोकाः-
एकोऽम्लादिभिरष्टौ च दश द्वौ सैन्धवादिभिः|
मूत्रेऽष्टादश यष्ट्यां द्वौ जीवकादौ चतुर्दश||७७||
क्षीरादौ सप्त लेहेऽष्टौ चत्वारः सितयाऽपि च|
पानकादिषु पञ्चैव षडृतौ पञ्च मोदकाः||७८||
चत्वारश्च घृते क्षीरे द्वौ चूर्णे तर्पणे तथा|
द्वौ मद्ये काञ्जिके द्वौ च दशान्ये षाडवादिषु||७९||
श्यामायास्त्रिवृतायाश्च कल्पेऽस्मिन् समुदाहृतम्|
शतं दशोत्तरं सिद्धं योगानां परमर्षिणा||८०||
पुष्पिका
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते
दृढबलसम्पूरिते कल्पस्थाने श्यामात्रिवृत्कल्पो नाम सप्तमोऽध्यायः ||७||