श्लेष्माभिष्यन्दप्रतिषेधाध्यायः

श्लोक 1-2

अथातः श्लेष्माभिष्यन्दप्रतिषेधं व्याख्यास्यामः ||१||

यथोवाच भगवान् धन्वन्तरिः ||२||

श्लोक 3-5

स्यन्दाधिमन्थौ कफजौ प्रवृद्धौ जयेत् सिराणामथ मोक्षणेन |
स्वेदावपीडाञ्जनधूमसेकप्रलेपयोगैः कवलग्रहैश्च ||३||

रूक्षैस्तथाऽऽश्च्योतनसंविधानैस्तथैव रूक्षैः पुटपाकयोगैः |
त्र्यहात्त्र्यहाच्चाप्यपतर्पणान्ते प्रातस्तयोस्तिक्तघृतं प्रशस्तम् ||४||

तदन्नपानं च समाचरेद्धि यच्छ्लेष्मणो नैव करोति वृद्धिम् |५|

श्लोक 5-6

कुटन्नटास्फोटफणिज्झबिल्वपत्तूरपिल्वर्ककपित्थभङ्गैः ||५||

स्वेदं विदध्यात्… |६|

श्लोक 6

… अथवाऽनुलेपं बर्हिष्ठशुण्ठीसुरकाष्ठकुष्ठैः |६|

श्लोक 6-10

सिन्धूत्थहिङ्गुत्रिफलामधूकप्रपौण्डरीकाञ्जनतुत्थताम्रैः ||६||

पिष्टैर्जलेनाञ्जनवर्तयः स्युः पथ्याहरिद्रामधुकाञ्जनैर्वा |
त्रीण्यूषणानि त्रिफला हरिद्रा विडङ्गसारश्च समानि च स्युः ||७||

बर्हिष्ठकुष्ठामरकाष्ठशङ्खपाठामलव्योषमनःशिलाश्च |
पिष्ट्वाऽम्बुना वा कुसुमानि जातिकरञ्जशोभाञ्जनजानि युञ्ज्यात् ||८||

फलं प्रकीर्यादथवाऽपि शिग्रोः पुष्पं च तुल्यं बृहतीद्वयस्य |
रसाञ्जनं सैन्धवचन्दनं च मनःशिलाले लशुनं च तुल्यम् ||९||

पिष्ट्वाऽञ्जनार्थे कफजेषु धीमान् वर्तीर्विदध्यान्नयनामयेषु |१०|

श्लोक 10-12

रोगे बलासग्रथितेऽञ्जनं ज्ञैः कर्तव्यमेतत् सुविशुद्धकाये ||१०||

नीलान् यवान् गव्यपयोऽनुपीतान् शलाकिनः शुष्कतनून् विदह्य |
तथाऽर्जकास्फोतकपित्थबिल्वनिर्गुण्डिजातीकुसुमानि चैव ||११||

तत्क्षारवत्सैन्धवतुत्थरोचनं पक्वं विदध्यादथ लोहनाड्याम् |
एतद्बलासग्रथितेऽञ्जनं स्यादेषोऽनुकल्पस्तु फणिज्झकादौ ||१२||

श्लोक 13

महौषधं मागधिकां च मुस्तां ससैन्धवं यन्मरिचं च शुक्लम् |
तन्मातुलुङ्गस्वरसेन पिष्टं नेत्राञ्जनं पिष्टकमाशु हन्यात् ||१३||

श्लोक 14

फले बृहत्या मगधोद्भवानां निधाय कल्कं फलपाककाले |
स्रोतोजयुक्तं च तदुद्धृतं स्यात्तद्वत्तु पिष्टे … |१४|

श्लोक 14-15

…विधिरेष चापि ||१४||

वार्ताकशिग्र्विन्द्रसुरापटोलकिराततिक्तामलकीफलेषु |१५|

श्लोक 15-16

कासीससामुद्ररसाञ्जनानि जात्यास्तथा क्षा(को)रकमेव चापि ||१५||

प्रक्लिन्नवर्त्मन्युपदिश्यते तु योगाञ्जनं तन्मधुनाऽवघृष्टम् |१६|

श्लोक 16-17

नादेयमग्र्यं मरिचं च शुक्लं नेपालजाता च समप्रमाणा ||१६||

समातुलुङ्गद्रव एष योगः कण्डूं निहन्यात् सकृदञ्जनेन |१७|

श्लोक 17-18

सशृङ्गवेरं सुरदारु मुस्तं सिन्धुप्रभू(सू)तं मुकुलानि जात्याः ||१७||

सुराप्रपिष्टं त्विदमञ्जनं हि कण्ड्वां च शोफे च हितं वदन्ति |१८|

श्लोक 18-19

स्यन्दाधिमन्थक्रममाचरेच्च सर्वेषु चैतेषु सदाऽप्रमत्तः ||१८||

(विशेषतो नावनमेव कार्यं संसर्जनं चापि यथोपदिष्टम् ) ||१९||

पुष्पिका

इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे
कफाभिष्यन्दप्रतिषेधो नामैकादशोऽध्यायः ||११||
error: Content is protected !!