श्लोक 1-2
अथातः श्वयथुचिकित्सितं व्याख्यास्यामः||१||
इति ह स्माह भगवानात्रेयः||२||
श्लोक 3
भिषग्वरिष्ठं सुरसिद्धजुष्टं मुनीन्द्रमत्र्यात्मजमग्निवेशः|
महागदस्य श्वयथोर्यथावत् प्रकोपरूपप्रशमानपृच्छत्||३||
श्लोक 4
तस्मै जगादागदवेदसिन्धुप्रवर्तनाद्रिप्रवरोऽत्रिजस्तान्|
वातादिभेदात्त्रिविधस्य सम्यङ्निजानिजैकाङ्गजसर्वजस्य||४||
श्लोक 5-6
शुद्ध्यामयाभक्तकृशाबलानां क्षाराम्लतीक्ष्णोष्णगुरूपसेवा|
दध्याममृच्छाकविरोधिदुष्टगरोपसृष्टान्ननिषेवणं च||५||
अर्शांस्यचेष्टा न च देहशुद्धिर्मर्मोपघातो विषमा प्रसूतिः|
मिथ्योपचारः प्रतिकर्मणां च निजस्य हेतुः श्वयथोः प्रदिष्टः||६||
श्लोक 7
बाह्यास्त्वचो दूषयिताऽभिघातः काष्ठाश्मशस्त्राग्निविषायसाद्यैः |
आगन्तुहेतुः, …|७|
श्लोक 7
… त्रिविधो निजश्च सर्वार्धगात्रावयवाश्रितत्वात्||७||
श्लोक 8
बाह्याः सिराः प्राप्य यदा कफासृक्पित्तानि सन्दूषयतीह वायुः|
तैर्बद्धमार्गः स तदा विसर्पन्नुत्सेधलिङ्गं श्वयथुं करोति||८||
श्लोक 9
उरःस्थितैरूर्ध्वमधस्तु वायोः स्थानस्थितैर्मध्यगतैस्तु मध्ये|
सर्वाङ्गगः सर्वगतैः क्वचित्स्थैर्दोषैः क्वचित् स्याच्छ्वयथुस्तदाख्यः ||९||
श्लोक 10
ऊष्मा तथा स्याद्दवथुः सिराणामायाम इत्येव च पूर्वरूपम्|१०|
श्लोक 10
सर्वस्त्रिदोषोऽधिकदोषलिङ्गैस्तच्छब्दमभ्येति भिषग्जितं च ||१०||
श्लोक 11
सगौरवं स्यादनवस्थितत्वं सोत्सेधमुष्माऽथ सिरातनुत्वम्|
सलोमहर्षाऽङ्गविवर्णता च सामान्यलिङ्गं श्वयथोः प्रदिष्टम्||११||
श्लोक 12
चलस्तनुत्वक्परुषोऽरुणोऽसितः प्रसुप्तिहर्षार्तियुतोऽनिमित्ततः|
प्रशाम्यति प्रोन्नमति प्रपीडितो दिवाबली च श्वयथुः समीरणात् ||१२||
श्लोक 13
मृदुः सगन्धोऽसितपीतरागवान् भ्रमज्वरस्वेदतृषामदान्वितः|
य उष्यते स्पर्शरुगक्षिरागकृत् स पित्तशोथो भृशदाहपाकवान्||१३||
श्लोक 14
गुरुः स्थिरः पाण्डुररोचकान्वितः प्रसेकनिद्रावमिवह्निमान्द्यकृत्|
स कृच्छ्रजन्मप्रशमो निपीडितो न चोन्नमेद्रात्रिबली कफात्मकः ||१४||
श्लोक 15
कृशस्य रोगैरबलस्य यो भवेदुपद्रवैर्वा वमिपूर्वकैर्युतः|
स हन्ति मर्मानुगतोऽथ राजिमान् परिस्रवेद्धीनबलस्य सर्वगः ||१५||
श्लोक 16
अहीनमांसस्य य एकदोषजो नवो बलस्थस्य सुखः स साधने |१६|
श्लोक 16
निदानदोषर्तुविपर्ययक्रमैरुपाचरेत्तं बलदोषकालवित्||१६||
श्लोक 17-19
अथामजं लङ्घनपाचनक्रमैर्विशोधनैरुल्बणदोषमादितः|
शिरोगतं शीर्षविरेचनैरधो विरेचनैरूर्ध्वहरैस्तथोर्ध्वजम्||१७||
उपाचरेत् स्नेहभवं विरूक्षणैः प्रकल्पयेत् स्नेहविधिं च रूक्षजे|
विबद्धविट्केऽनिलजे निरूहणं घृतं तु पित्तानिलजे सतिक्तकम्||१८||
पयश्च मूर्च्छारतिदाहतर्षिते विशोधनीये तु समूत्रमिष्यते|
कफोत्थितं क्षारकटूष्णसंयुतैः समूत्रतक्रासवयुक्तिभिर्जयेत् ||१९||
श्लोक 20
ग्राम्याब्जानूपं पिशितमबलं शुष्कशाकं नवान्नं
गौडं पिष्टान्नं दधि तिलकृतं विज्जलं मद्यमम्लम्|
धाना वल्लूरं समशनमथो गुर्वसात्म्यं विदाहि
स्वप्नं चारात्रौ श्वयथुगदवान् वर्जयेन्मैथुनं च||२०||
श्लोक 21-22
व्योषं त्रिवृत्तिक्तकरोहिणी च सायोरजस्का त्रिफलारसेन|
पीतं कफोत्थं शमयेत्तु शोफं गव्येन मूत्रेण हरीतकी च||२१||
हरीतकीनागरदेवदारु सुखाम्बुयुक्तं सपुनर्नवं वा|
सर्वं पिबेत्त्रिष्वपि मूत्रयुक्तं स्नातश्च जीर्णे पयसाऽन्नमद्यात्||२२||
श्लोक 23-28
पुनर्नवानागरमुस्तकल्कान् प्रस्थेन धीरः पयसाऽक्षमात्रान्|
मयूरकं मागधिकां समूलां सनागरां वा प्रपिबेत् सवाते||२३||
दन्तीत्रिवृत्त्र्यूषणचित्रकैर्वा पयः शृतं दोषहरं पिबेन्ना|
द्विप्रस्थमात्रं तु पलार्धिकैस्तैरर्धावशिष्टं पवने सपित्ते||२४||
सशुण्ठिपीतद्रुरसं प्रयोज्यं श्यामोरुबूकोषणसाधितं वा|
त्वग्दारुवर्षाभुमहौषधैर्वा गुडूचिकानागरदन्तिभिर्वा||२५||
सप्ताहमौष्ट्रं त्वथवाऽपि मासं पयः पिबेद्भोजनवारिवर्जी|
गव्यं समूत्रं महिषीपयो वा क्षीराशनो मूत्रमथो गवां वा||२६||
तक्रं पिबेद्वा गुरुभिन्नवर्चाः सव्योषसौवर्चलमाक्षिकं च|
गुडाभयां वा गुडनागरं वा सदोषभिन्नामविबद्धवर्चाः||२७||
विड्वातसङ्गे पयसा रसैर्वा प्राग्भक्तमद्यादुरुबूकतैलम् |
स्रोतोविबन्धेऽग्निरुचिप्रणाशे मद्यान्यरिष्टांश्च पिबेत् सुजातान् ||२८||
श्लोक 29-31
गण्डीरभल्लातकचित्रकांश्च व्योषं विडङ्गं बृहतीद्वयं च|
द्विप्रस्थिकं गोमयपावकेन द्रोणे पचेत् कूर्चिकमस्तुनस्तु ||२९||
त्रिभागशेषं च सुपूतशीतं द्रोणेन तत् प्राकृतमस्तुना च|
सितोपलायाश्च शतेन युक्तं लिप्ते घटे चित्रकपिप्पलीनाम्||३०||
वैहायसे स्थापितमादशाहात् प्रयोजयंस्तद्विनिहन्ति शोफान्|
भगन्दरार्शःक्रिमिकुष्ठमेहान् वैवर्ण्यकार्श्यानिलहिक्कनं च ||३१|| इति गण्डीराद्यरिष्टः|
श्लोक 32-33
काश्मर्यधात्रीमरिचाभयाक्षद्राक्षाफलानां च सपिप्पलीनाम्|
शतं शतं जीर्णगुडात्तुलां च सङ्क्षुद्य कुम्भे मधुना प्रलिप्ते||३२||
सप्ताहमुष्णे द्विगुणं तु शीते स्थितं जलद्रोणयुतं पिबेन्ना|
शोफान् विबन्धान् कफवातजांश्च निहन्त्यरिष्टोऽष्टशतोऽग्निकृच्च||३३||
इत्यष्टशतोऽरिष्टः|
श्लोक 34-38
पुनर्नवे द्वे च बले सपाठे दन्तीं गुडूचीमथ चित्रकं च|
निदिग्धिकां च त्रिपलानि पक्त्वा द्रोणावशेषे सलिले ततस्तम् ||३४||
पूत्वा रसं द्वे च गुडात् पुराणात्तुले मधुप्रस्थयुतं सुशीतम्|
मासं निदध्याद्घृतभाजनस्थं पल्ले यवानां परतस्तु मासात् ||३५||
चूर्णीकृतैरर्धपलांशिकैस्तं पत्रत्वगेलामरिचाम्बुलोहैः |
गन्धान्वितं क्षौद्रघृतप्रदिग्धे जीर्णे पिबेद् व्याधिबलं समीक्ष्य ||३६||
हृत्पाण्डुरोगं श्वयथुं प्रवृद्धं प्लीहज्वरारोचकमेहगुल्मान्|
भगन्दरं षड्जठराणि कासं श्वासं ग्रहण्यामयकुष्ठकण्डूः||३७||
शाखानिलं बद्धपुरीषतां च हिक्कां किलासं च हलीमकं च|
क्षिप्रं जयेद्वर्णबलायुरोजस्तेजोन्वितो मांसरसान्नभोजी||३८||
इति पुनर्नवाद्यरिष्टः|
श्लोक 39-40
फलत्रिकं दीप्यकचित्रकौ च सपिप्पलीलोहरजो विडङ्गम्|
चूर्णीकृतं कौडविकं द्विरंशं क्षौद्रं पुराणस्य तुलां गुडस्य||३९||
मासं निदध्याद्घृतभाजनस्थं यवेषु तानेव निहन्ति रोगान्|
ये चार्शसां पाण्डुविकारिणां च प्रोक्ता हिताः शोफिषु तेऽप्यरिष्टाः||४०||
इति त्रिफलाद्यरिष्टः|
श्लोक 41-42
कृष्णा सपाठा गजपिप्पली च निदिग्धिका चित्रकनागरे च|
सपिप्पलीमूलरजन्यजाजीमुस्तं च चूर्णं सुखतोयपीतम्||४१||
हन्यात्त्रिदोषं चिरजं च शोफं कल्कश्च भूनिम्बमहौषधस्य|
अयोरजस्त्र्यूषणयावशूकचूर्णं च पीतं त्रिफलारसेन||४२||
श्लोक 43-46
क्षारद्वयं स्याल्लवणानि चत्वार्ययोरजो व्योषफलत्रिके च|
सपिप्पलीमूलविडङ्गसारं मुस्ताजमोदामरदारुबिल्वम्||४३||
कलिङ्गकाश्चित्रकमूलपाठे यष्ट्याह्वयं सातिविषं पलांशम्|
सहिङ्गुकर्षं त्वणुशुष्कचूर्णं द्रोणं तथा मूलकशुण्ठकानाम् ||४४||
स्याद्भस्मनस्तत् सलिलेन साध्यमालोड्य यावद्घनमप्रदग्धम्|
स्त्यानं ततः कोलसमां तु मात्रां कृत्वा सुशुष्कां विधिनोपयुञ्ज्यात्||४५||
प्लीहोदरश्वित्रहलीमकार्शःपाण्ड्वामयारोचकशोषशोफान्|
विसूचिकागुल्मगराश्मरीश्च सश्वासकासाः प्रणुदेत् सकुष्ठाः ||४६||
इति क्षारगुडिका|
श्लोक 47-48
प्रयोजयेदार्द्रकनागरं वा तुल्यं गुडेनार्धपलाभिवृद्ध्या|
मात्रा परं पञ्चपलानि मासं जीर्णे पयो यूषरसाश्च भक्तम्||४७||
गुल्मोदरार्शःश्वयथुप्रमेहाञ् श्वासप्रतिश्यालसकाविपाकान्|
सकामलाशोषमनोविकारान् कासं कफं चैव जयेत् प्रयोगः ||४८||
श्लोक 49
रसस्तथैवार्द्रकनागरस्य पेयोऽथ जीर्णे पयसाऽन्नमद्यात्|
जत्वश्मजं च त्रिफलारसेन हन्यात्त्रिदोषं श्वयथुं प्रसह्य||४९||
इति शिलाजतुप्रयोगः|
श्लोक 50-52
द्विपञ्चमूलस्य पचेत् कषाये कंसेऽभयानां च शतं गुडस्य|
लेहे सुसिद्धेऽथ विनीय चूर्णं व्योषं त्रिसौगन्ध्यमुषास्थिते च ||५०||
प्रस्थार्धमात्रं मधुनः सुशीते किञ्चिच्च चूर्णादपि यावशूकात्|
एकाभयां प्राश्य ततश्च लेहाच्छुक्तिं निहन्ति श्वयथुं प्रवृद्धम् ||५१||
श्वासज्वरारोचकमेहगुल्मप्लीहत्रिदोषोदरपाण्डुरोगान्|
कार्श्यामवातावसृगम्लपित्तवैवर्ण्यमूत्रानिलशुक्रदोषान्||५२||
इति कंसहरीतकी|
श्लोक 53-54
पटोलमूलामरदारुदन्तीत्रायन्तिपिप्पल्यभयाविशालाः|
यष्ट्याह्वयं तिक्तकरोहिणी च सचन्दना स्यान्निचुलानि दार्वी ||५३||
कर्षोन्मितैस्तैः क्वथितः कषायो घृतेन पेयः कुडवेन युक्तः|
वीसर्पदाहज्वरसन्निपाततृष्णाविषाणि श्वयथुं च हन्ति||५४||
श्लोक 55-57
सचित्रकं धान्ययवान्यजाजीसौवर्चलं त्र्यूषणवेतसाम्लम्|
बिल्वात् फलं दाडिमयावशूकौ सपिप्पलीमूलमथापि चव्यम् ||५५||
पिष्ट्वाऽक्षमात्राणि जलाढकेन पक्त्वा घृतप्रस्थमथ प्रयुञ्ज्यात्|
अर्शांसि गुल्मं श्वयथुं च कृच्छ्रं निहन्ति वह्निं च करोति दीप्तम् ||५६||
पिबेद्घृतं वाऽष्टगुणाम्बुसिद्धं सचित्रकक्षारमुदारवीर्यम्|
कल्याणकं वाऽपि सपञ्चगव्यं तिक्तं महद्वाऽप्यथ तिक्तकं वा ||५७||
श्लोक 58-59
क्षीरं घटे चित्रककल्कलिप्ते दध्यागतं साधु विमथ्य तेन|
तज्जं घृतं चित्रकमूलगर्भं तक्रेण सिद्धं श्वयथुघ्नमग्र्यम्||५८||
अर्शोऽतिसारानिलगुल्ममेहांश्चैतन्निहन्त्यग्निबलप्रदं च|
तक्रेण चाद्यात् सघृतेन तेन भोज्यानि सिद्धामथवा यवागूम् ||५९||
इति चित्रकघृतम्|
श्लोक 60-63
जीवन्त्यजाजीशटिपुष्कराह्वैः सकारवीचित्रकबिल्वमध्यैः|
सयावशूकैर्बदरप्रमाणैर्वृक्षाम्लयुक्ता घृततैलभृष्टा||६०||
अर्शोऽतिसारानिलगुल्मशोफहृद्रोगमन्दाग्निहिता यवागूः|
या पञ्चकोलैर्विधिनैव तेन सिद्धा भवेत् सा च समा तयैव||६१||
कुलत्थयूषश्च सपिप्पलीको मौद्गश्च सत्र्यूषणयावशूकः|
रसस्तथा विष्किरजाङ्गलानां सकूर्मगोधाशिखिशल्लकानाम् ||६२||
सुवर्चला गृञ्जनकं पटोलं सवायसीमूलकवेत्रनिम्बम्|
शाकार्थिनां शाकमिति प्रशस्तं भोज्ये पुराणश्च यवः सशालिः ||६३||
श्लोक 64-67
आभ्यन्तरं भेषजमुक्तमेतद्बर्हिर्हितं यच्छृणु तद्यथावत्|
स्नेहान् प्रदेहान् परिषेचनानि स्वेदांश्च वातप्रबलस्य कुर्यात् ||६४||
शैलेयकुष्ठागुरुदारुकौन्तीत्वक्पद्मकैलाम्बुपलाशमुस्तैः|
प्रियङ्गुथौणेयकहेममांसीतालीशपत्रप्लवपत्रधान्यैः||६५||
श्रीवेष्टकध्यामकपिप्पलीभिः स्पृक्कानखैश्चैव यथोपलाभम्|
वातान्वितेऽभ्यङ्गमुशन्ति तैलं सिद्धं सुपिष्टैरपि च प्रदेहम्||६६||
जलैश्च वासार्ककरञ्जशिग्रुकाश्मर्यपत्रार्जकजैश्च सिद्धैः|
स्विन्नो मृदूष्णै रवितप्ततोयैः स्नातश्च गन्धैरनुलेपनीयः||६७||
श्लोक 68-69
सवेतसाः क्षीरवतां द्रुमाणां त्वचः समञ्जिष्ठलतामृणालाः|
सचन्दनाः पद्मकवालकौ च पैत्ते प्रदेहस्तु सतैलपाकः||६८||
आक्तस्य तेनाम्बु रविप्रतप्तं सचन्दनं साभयपद्मकं च|
स्नाने हितं क्षीरवतां कषायः क्षीरोदकं चन्दनलेपनं च||६९||
श्लोक 70-73
कफे तु कृष्णासिकतापुराणपिण्याकशिग्रुत्वगुमाप्रलेपः|
कुलत्थशुण्ठीजलमूत्रसेकश्चण्डागुरुभ्यामनुलेपनं च||७०||
बिभीतकानां फलमध्यलेपः सर्वेषु दाहार्तिहरः प्रदिष्टः|
यष्ट्याह्वमुस्तैः सकपित्थपत्रैः सचन्दनैस्तत्पिडकासु लेपः||७१||
रास्नावृषार्कत्रिफलाविडङ्गं शिग्रुत्वचो मूषिकपर्णिका च|
निम्बार्जकौ व्याघ्रनखः सदूर्वा सुवर्चला तिक्तकरोहिणी च ||७२||
सकाकमाची बृहती सकुष्ठा पुनर्नवा चित्रकनागरे च|
उन्मर्दनं शोफिषु मूत्रपिष्टं शस्तस्तथा मूलकतोयसेकः||७३||
श्लोक 74
शोफास्तु गात्रावयवाश्रिता ये ते स्थानदूष्याकृतिनामभेदात्|
अनेकसङ्ख्याः कतिचिच्च तेषां निदर्शनार्थं गदतो निबोध ||७४||
श्लोक 75
दोषास्त्रयः स्वैः कुपिता निदानैः कुर्वन्ति शोफं शिरसः सुघोरम् |७५|
श्लोक 75
अन्तर्गले घुर्घुरिकान्वितं च शालूकमुच्छ्वासनिरोधकारि||७५||
श्लोक 76
गलस्य सन्धौ चिबुके गले च सदाहरागः श्वसनासु चोग्रः|
शोफो भृशार्तिस्तु बिडालिका स्याद्धन्याद्गले चेद्वलयीकृता सा ||७६||
श्लोक 77-78
स्यात्तालुविद्रध्यपि दाहरागपाकान्वितस्तालुनि सा त्रिदोषात्|
जिह्वोपरिष्टादुपजिह्विका स्यात् कफादधस्तादधिजिह्विका च ||७७||
यो दन्तमांसेषु तु रक्तपित्तात् पाको भवेत् सोपकुशः प्रदिष्टः|
स्याद्दन्तविद्रध्यपि दन्तमांसे शोफः कफाच्छोणितसञ्चयोत्थः ||७८||
श्लोक 79-80
गलस्य पार्श्वे गलगण्ड एकः स्याद्गण्डमाला बहुभिस्तु गण्डैः|
साध्याः स्मृताः पीनसपार्श्वशूलकासज्वरच्छर्दियुतास्त्वसाध्याः ||७९||
तेषां सिराकायशिरोविरेका धूमः पुराणस्य घृतस्य पानम्|
स्याल्लङ्घनं वक्त्रभवेषु चापि प्रघर्षणं स्यात् कवलग्रहश्च||८०||
श्लोक 81-86
अङ्गैकदेशेष्वनिलादिभिः स्यात् स्वरूपधारी स्फुरणः सिराभिः|
ग्रन्थिर्महान्मांसभवस्त्वनर्तिर्मेदोभवः स्निग्धतमश्चलश्च||८१||
संशोधिते स्वेदितमश्मकाष्ठैः साङ्गुष्ठदण्डैर्विलयेदपक्वम्|
विपाट्य चोद्धृत्य भिषक् सकोशं शस्त्रेण दग्ध्वा व्रणवच्चिकित्सेत्||८२||
अदग्ध ईषत् परिशेषितश्च प्रयाति भूयोऽपि शनैर्विवृद्धिम्|
तस्मादशेषः कुशलैः समन्ताच्छेद्यो भवेद्वीक्ष्य शरीरदेशान् ||८३||
शेषे कृते पाकवशेन शीर्यात्ततः क्षतोत्थः प्रसरेद्विसर्पः|
उपद्रवं तं प्रविचार्य तज्ज्ञस्तैर्भेषजैः पूर्वतरैर्यथोक्तैः||८४||
निवारयेदादित एव यत्नाद्विधानवित् स्वस्वविधिं विधाय|
ततः क्रमेणास्य यथाविधानं व्रणं व्रणज्ञस्त्वरया चिकित्सेत् ||८५||
विवर्जयेत् कुक्ष्युदराश्रितं च तथा गले मर्मणि संश्रितं च|
स्थूलः खरश्चापि भवेद्विवर्ज्यो यश्चापि बालस्थविराबलानाम् ||८६||
श्लोक 87
ग्रन्थ्यर्बुदानां च यतोऽविशेषः प्रदेशहेत्वाकृतिदोषदूष्यैः|
ततश्चिकित्सेद्भिषगर्बुदानि विधानविद्ग्रन्थिचिकित्सितेन||८७||
श्लोक 88-90
ताम्रा सशूला पिडका भवेद्या सा चालजी नाम परिस्रुताग्रा|
शोफोऽक्षतश्चर्मनखान्तरे स्यान्मांसास्रदूषी भृशशीघ्रपाकः ||८८||
ज्वरान्विता वङ्क्षणकक्षजा या वर्तिर्निरर्तिः कठिनायता च|
विदारिका सा कफमारुताभ्यां तेषां यथादोषमुपक्रमः स्यात् ||८९||
विस्रावणं पिण्डिकयोपनाहः पक्वेषु चैव व्रणवच्चिकित्सा|९०|
श्लोक 90-93
विस्फोटकाः सर्वशरीरगास्तु स्फोटाः सरागज्वरतर्षयुक्ताः ||९०||
यज्ञोपवीतप्रतिमाः प्रभूताः पित्तानिलाभ्यां जनितास्तु कक्षाः |
याश्चापराः स्युः पिडकाः प्रकीर्णाः स्थूलाणुमध्या अपि पित्तजास्ताः||९१||
क्षुद्रप्रमाणाः पिडकाः शरीरे सर्वाङ्गगाः सज्वरदाहतृष्णाः|
कण्डूयुताः सारुचिसप्रसेका रोमान्तिकाः पित्तकफात् प्रदिष्टाः ||९२||
याः सर्वगात्रेषु मसूरमात्रा मसूरिकाः पित्तकफात् प्रदिष्टाः|
वीसर्पशान्त्यै विहिता क्रिया या तां तेषु कुष्ठे च हितां विदध्यात् ||९३||
श्लोक 94-95
ब्रध्नोऽनिलाद्यैर्वृषणे स्वलिङ्गैरन्त्रं निरेति प्रविशेन्मुहुश्च|
मूत्रेण पूर्णं मृदु मेदसा चेत् स्निग्धं च विद्यात् कठिनं च शोथम् ||९४||
विरेचनाभ्यङ्गनिरूहलेपाः पक्वेषु चैव व्रणवच्चिकित्सा|
स्यान्मूत्रसेकः कफजं विपाट्य विशोध्य सीव्येद्व्रणवच्च पक्वम् ||९५||
श्लोक 96-97
क्रिम्यस्थिसूक्ष्मक्षणनव्यवायप्रवाहणान्युत्कटकाश्वपृष्ठैः |
गुदस्य पार्श्वे पिडका भृशार्तिः पक्वप्रभिन्ना तु भगन्दरः स्यात् ||९६||
विरेचनं चैषणपाटनं च विशुद्धमार्गस्य च तैलदाहः|
स्यात् क्षारसूत्रेण सुपाचितेन छिन्नस्य चास्य व्रणवच्चिकित्सा ||९७||
श्लोक 98
जङ्घासु पिण्डीप्रपदोपरिष्टात् स्याच्छ्लीपदं मांसकफास्रदोषात्|
सिराकफघ्नश्च विधिः समग्रस्तत्रेष्यते सर्षपलेपनं च||९८||
श्लोक 99-100
मन्दास्तु पित्तप्रबलाः प्रदुष्टा दोषाः सुतीव्रं तनुरक्तपाकम्|
कुर्वन्ति शोथं ज्वरतर्षयुक्तं विसर्पणं जालकगर्दभाख्यम्||९९||
विलङ्घनं रक्तविमोक्षणं च विरूक्षणं कायविशोधनं च|
धात्रीप्रयोगाञ् शिशिरान् प्रदेहान् कुर्यात् सदा जालकगर्दभस्य ||१००||
श्लोक 101
एवंविधांश्चाप्यपरान् परीक्ष्य शोथप्रकाराननिलादिलिङ्गैः|
शान्तिं नयेद्दोषहरैर्यथास्वमालेपनच्छेदनभेददाहैः||१०१||
श्लोक 102
प्रायोऽभिघातादनिलः सरक्तः शोथं सरागं प्रकरोति तत्र|
वीसर्पनुन्मारुतरक्तनुच्च कार्यं विषघ्नं विषजे च कर्म||१०२||
श्लोक 103
तत्र श्लोकः-
त्रिविधस्य दोषभेदात् सर्वार्धावयवगात्रभेदाच्च|
श्वयथोर्द्विविधस्य तथा लिङ्गानि चिकित्सितं चोक्तम्||१०३||
पुष्पिका
इत्यग्निवेशकृते तन्त्रेऽप्राप्ते दृढबलसम्पूरिते चिकित्सास्थाने
श्वयथुचिकित्सितं नाम द्वादशोऽध्यायः||१२||