सिराव्यधविधिशारीरम्

श्लोक 1-2

अथातः सिराव्यधविधिं शारीरं व्याख्यास्यामः ||१||

यथोवाच भगवान् धन्वन्तरिः ||२||

श्लोक 3

बालस्थविररूक्षक्षतक्षीणभीरुपरिश्रान्तमद्यपाध्वस्त्रीकर्शितवमितवि-रिक्तास्थापितानुवासितजागरितक्लीबकृशगर्भिणीनां  कासश्वासशोषप्रवृद्धज्वराक्षेपकपक्षाघातोपवासपिपासामूर्च्छाप्रपी-डितानां च सिरां न विध्येत् , याश्चाव्यध्याः, व्यध्याश्चादृष्टाः,  दृष्टाश्चायन्त्रिताः, यन्त्रिताश्चानुत्थिता इति ||३||

श्लोक 4

शोणितावसेकसाध्याश्च ये विकाराः प्रागभिहितास्तेषु चापक्वेष्वन्येषु  चानुक्तेषु यथाभ्यासं यथान्यायं च सिरां विध्येत् ||४||

श्लोक 5

प्रतिषिद्धानामपि च विषोपसर्गे आत्ययिके च सिराव्यधनमप्रतिषिद्धम्  ||५||

श्लोक 6

तत्र स्निग्धस्विन्नमातुरं यथादोषप्रत्यनीकं द्रवप्रायमन्नं भुक्तवन्तं यवागूं पीतवन्तं वा यथाकालमुपस्थाप्यासीनं स्थितं वा प्राणानबाधमानो  वस्त्रपट्टचर्मान्तर्वल्कललतानामन्यतमेन यन्त्रयित्वा नातिगाढं  नातिशिथिलं शरीरप्रदेशमासाद्य प्राप्तं शस्त्रमादाय सिरां विध्येत् ||६||

श्लोक 7

नैवातिशीते नात्युष्णे न प्रवाते न चाभ्रिते |
सिराणां व्यधनं कार्यमरोगे वा कदाचन ||७||

श्लोक 8

तत्र व्यध्यसिरं पुरुषं प्रत्यादित्यमुखमरत्निमात्रोच्छ्रिते उपवेश्यासने  सक्थ्नोराकुञ्चितयोर्निवेश्य कूर्परे सन्धिद्वयस्योपरि  हस्तावन्तर्गूढाङ्गुष्ठकृतमुष्टी मन्ययोः स्थापयित्वा यन्त्रणशाटकं  ग्रीवामुष्ट्योरुपरि परिक्षिप्यान्येन पुरुषेण पश्चात्स्थितेन  वामहस्तेनोत्तानेन शाटकान्तद्वयं ग्राहयित्वा ततो ब्रूयात्-दक्षिणहस्तेन  सिरोत्थापनार्थं नात्यायतशिथिलं यन्त्रमावेष्टयेति, असृक्स्रावणार्थं च  यन्त्रं पृष्ठमध्ये पीडयेति, कर्मपुरुषं च वायुपूर्णमुखं स्थापयेत् ; एष  उत्तमाङ्गगतानामन्तर्मुखवर्जानां सिराणां व्यधने यन्त्रणविधिः |
पादव्यध्यसिरस्य पादं समे स्थाने सुस्थितं स्थापयित्वाऽन्यं  पादमीषत्सङ्कुचितमुच्चैः कृत्वा व्यध्यसिरं पादं जानुसन्धेरधः  शाटकेनावेष्ट्य हस्ताभ्यां प्रपीड्य गुल्फं व्यध्यप्रदेशस्योपरि  चतुरङ्गुलेप्लोतादीनामन्यतमेन बद्ध्वा वा पादसिरां विध्येत् |
अथोपरिष्ठाद्धस्तौ गूढाङ्गुष्ठकृतमुष्टी सम्यगासने स्थापयित्वा  सुखोपविष्टस्य पूर्ववद्यन्त्रं बद्ध्वा हस्तसिरां विध्येत् |
गृध्रसीविश्वाच्योः सङ्कुचितजानुकूर्परस्य |
श्रोणीपृष्ठस्कन्धेषून्नामितपृष्ठस्यावाक्शिरस्कस्योपविष्टस्य |
विस्फूर्जितपृष्ठस्य विध्येत् |
उदरोरसोः प्रसारितोरस्कस्योन्नामितशिरस्कस्य विस्फूर्जितदेहस्य |
बाहुभ्यामवलम्बमानदेहस्य पार्श्वयोः |
अनामितमेढ्रस्य मेढ्रे |
उन्नमितविदष्टजिह्वाग्रस्याधोजिह्वायाम् |
अतिव्यात्ताननस्य तालुनि दन्तमूलेषु च |
एवं यन्त्रोपायानन्यांश्च सिरोत्थापनहेतून् बुद्ध्याऽवेक्ष्य शरीरवशेन  व्याधिवशेन च विदध्यात् ||८||

श्लोक 9

मांसलेष्ववकाशेषु यवमात्रं शस्त्रं निदध्यात्, अतोऽन्यथाऽर्धयवमात्रं  व्रीहिमात्रं वा व्रीहिमुखेन, अस्थ्नामुपरि कुठारिकया विध्येदर्धयवमात्रम् ||९||

श्लोक 10

व्यभ्रे वर्षासु विध्येत्तु ग्रीष्मकाले तु शीतले |
हेमन्तकाले मध्याह्ने शस्त्रकालास्त्रयः स्मृताः ||१०||

श्लोक 11

सम्यक्शस्त्रनिपातेन धारया या स्रवेदसृक् |
मुहूर्तं रुद्धा तिष्ठेच्च सुविद्धां तां विनिर्दिशेत् ||११||

श्लोक 12

यथा कुसुम्भपुष्पेभ्यः पूर्वं स्रवति पीतिका |
तथा सिरासु विद्धासु दुष्टमग्रे प्रवर्तते ||१२||

श्लोक 13

मूर्च्छितस्यातिभीतस्य श्रान्तस्य तृषितस्य च |
न वहन्ति सिरा विद्धास्तथाऽनुत्थितयन्त्रिताः ||१३||

श्लोक 14

क्षीणस्य बहुदोषस्य मूर्च्छयाऽभिहतस्य च |
भूयोऽपराह्णे विस्राव्या साऽपरेद्युस्त्र्यहेऽपि वा ||१४||

श्लोक 15

रक्तं सशेषदोषं तु कुर्यादपि विचक्षणः |
न चातिनिःस्रुतं कुर्याच्छेषं संशमनैर्जयेत् ||१५||

श्लोक 16

बलिनो बहुदोषस्य वयःस्थस्य शरीरिणः |
परं प्रमाणमिच्छन्ति प्रस्थं शोणितमोक्षणे ||१६||

श्लोक 17

तत्र पाददाहपादहर्षचिप्पविसर्पवातशोणितवातकण्टकविचर्चिकापा-ददारीप्रभृतिषु क्षिप्रमर्मण उपरिष्ठाद् द्व्यङ्गुले व्रीहिमुखेन सिरां विध्येत्,श्लीपदे तच्चिकित्सिते यथा वक्ष्यते, क्रोष्टुकशिरः-खञ्जपङ्गुलवातवेदनासु जङ्घायां गुल्फस्योपरि चतुरङ्गुले, अपच्यामिन्द्रबस्तेरधस्ताद् द्व्यङ्गुले, जानुसन्धेरुपर्यधो वा चतुरङ्गुले गृध्रस्यां,  ऊरुमूलसंश्रितां गलगण्डे, एतेनेतरसक्थि बाहू च व्याख्यातौ;  विशेषतस्तु वामबाहौ कूर्परसन्धेरभ्यन्तरतो बाहुमध्ये प्लीह्नि  कनिष्ठिकानामिकयोर्मध्ये वा, एवं दक्षिणबाहौ यकृद्दाल्ये (कफोदरे च,) एतामेव च कासश्वासयोरप्यादिशन्ति, गृध्रस्यामिव विश्वाच्यां, श्रोणिं प्रति समन्ताद् द्व्यङ्गुले प्रवाहिकायां शूलिन्यां,  परिवर्तिकोपदंशशूकदोषशुक्रव्यापत्सु मेढ्रमध्ये, (वृषणयोः पार्श्वे  मूत्रवृद्ध्यां, नाभेरधश्चतुरङ्गुले सेवन्या वामपार्श्वे दकोदरे,) वामपार्श्वे  कक्षास्तनयोरन्तरेऽन्तर्विद्रधौ पार्श्वशूले च, बाहुशोषावबाहुकयोरप्येके  वदन्त्यंसयोरन्तरे, त्रिकसन्धिमध्यगतां तृतीयके, अधः स्कन्धसन्धिगतामन्यतरपार्श्वसंस्थितां चतुर्थके,  हनुसन्धिमध्यगतामपस्मारे,  शङ्खकेशान्तसन्धिगतामुरोऽपाङ्गललाटेषु चोन्मादे,  जिह्वारोगेष्वधोजिह्वायां दन्तव्याधिषु च, तालुनि तालव्येषु, कर्णयोरुपरि समन्तात् कर्णशूले तद्रोगेषु च, गन्धाग्रहणे नासारोगेषु च नासाग्रे,  तिमिराक्षिपाकप्रभृतिष्वक्ष्यामयेषूपनासिके लालाट्यामपाङ्ग्यां वा,  एता एव शिरोरोगाधिमन्थप्रभृतिषु रोगेष्विति ||१७||

श्लोक 18

दुष्टव्यधा विंशतिः-दुर्विद्धाऽतिविद्वा कुञ्चिता पिच्चिता  कुट्टिताऽप्रस्रुताऽत्युदीर्णाऽन्ते विद्धा परिशुष्का कूणिता  वेपिताऽनुत्थितविद्धा शस्त्रहता तिर्यग्विद्धाविद्धाऽव्यध्या विद्रुता  धेनुका पुनः पुनर्विद्धा सिरास्नाय्वस्थिसन्धिमर्मसु चेति ||१८||

श्लोक 19

तत्र या सूक्ष्मशस्त्रविद्धाऽव्यक्तमसृक् स्रवति रुजाशोफवती च सा  दुर्विद्धा, प्रमाणातिरिक्तविद्धायामन्तः प्रविशति शोणितं  शोणितातिप्रवृत्तिर्वा साऽतिविद्धा, कुञ्चितायामप्येवं,  कुण्ठशस्त्रप्रमथिता पृथुलीभावमापन्ना पिच्चिता, अनासादिता पुनः  पुनरन्तयोश्च बहुशः शस्त्राभिहता कुट्टिता,  शीतभयमूर्च्छाभिरप्रवृत्तशोणिता अप्रस्रुता,  तीक्ष्णमहामुखशस्त्रविद्धाऽत्युदीर्णा, अल्परक्तस्राविण्यन्तेविद्धा,  क्षीणशोणितस्यानिलपूर्णा परिशुष्का, चतुर्भागासादिता  किञ्चित्प्रवृत्तशोणिता कूणिता, दुःस्थानबन्धनाद्वेपमानायाः  शोणितसम्मोहो भवति सा वेपिता, अनुत्थितविद्धायामप्येवं,  छिन्नाऽतिप्रवृत्तशोणिता क्रियासङ्गकरी शस्त्रहता, तिर्यक्प्रणिहितशस्त्राकिञ्चिच्छेषा तिर्यग्विद्धा, बहुशः क्षता हीनशस्त्रप्रणिधानेनाविद्धा,  अशस्त्रकृत्या अव्यध्या, अनवस्थितविद्धा विद्रुता, प्रदेशस्य  बहुशोऽवघट्टनादारोहद्व्यधा मुहुर्मुहुः शोणितस्रावा धेनुका,  सूक्ष्मशस्त्रव्यधनाद्बहुशो भिन्ना पुनः पुनर्विद्धा,  स्नाय्वस्थिसिरासन्धिमर्मसु विद्धा रुजां शोफं वैकल्यं मरणं  चापादयति ||१९||

श्लोक 20

भवन्ति चात्र-
सिरासु शिक्षितो नास्ति चला ह्येताः स्वभावतः |
मत्स्यवत् परिवर्तन्ते तस्माद्यत्नेन ताडयेत् ||२०||

श्लोक 21

अजानता गृहीते तु शस्त्रे कायनिपातिते |
भवन्ति व्यापदश्चैता बहवश्चाप्युपद्रवाः ||२१||

श्लोक 22

स्नेहादिभिः क्रियायोगैर्न तथा लेपनैरपि |
यान्त्याशु व्याधयः शान्तिं यथा सम्यक् सिराव्यधात् ||२२||

श्लोक 23

सिराव्यधश्चिकित्सार्धं शल्यतन्त्रे प्रकीर्तितः |
यथा प्रणिहितः सम्यग्बस्तिः कायचिकित्सिते ||२३||

श्लोक 24

तत्र स्निग्धस्विन्नवान्तविरिक्तास्थापितानुवसितसिराविद्धैः परिहर्तव्यानि-क्रोधायासमैथुनदिवास्वप्नवाग्व्यायामयानाध्ययनस्थानासनचङ्क्र-मणशीतवातातपविरुद्धासात्म्याजीर्णान्याबललाभात् , मासमेके  मन्यन्ते |
एतेषां विस्तरमुपरिष्ठाद्वक्ष्यामः ||२४||

श्लोक 25

सिराविषाणतुम्बैस्तु जलौकाभिः पदैस्तथा |
अवगाढं यथापूर्वं निर्हरेद्दुष्टशोणितम् ||२५||

श्लोक 26

अवगाढे जलौका स्यात् प्रच्छन्नं पिण्डिते हितम् |
सिराऽङ्गव्यापके रक्ते शृङ्गालाबू त्वचि स्थिते ||२६||

पुष्पिका

इति सुश्रुतसंहितायां शारीरस्थाने सिराव्यधविधिशारीरं  नामाष्टमोऽध्यायः ||८||