स्नेहव्यापत्सिद्धिः

श्लोक 1-2

अथातः स्नेहव्यापत्सिद्धिं व्याख्यास्यामः||१||

इति ह स्माह भगवानात्रेयः||२||

श्लोक 3

स्नेहबस्तीन्निबोधेमान् वातपित्तकफापहान्|
मिथ्याप्रणिहितानां च व्यापदः सचिकित्सिताः||३||

श्लोक 4-7

दशमूलं बलां रास्नामश्वगन्धां पुनर्नवाम्|
गुडूच्येरण्डभूतीकभार्गीवृषकरोहिषम्||४||

शतावरीं सहचरं काकनासां पलांशिकम् |
यवमाषातसीकोलकुलत्थान् प्रसृतोन्मितान्||५||

चतुर्द्रोणेऽम्भसः पक्त्वा द्रोणशेषेण तेन च|
तैलाढकं समक्षीरं जीवनीयैः पलोन्मितैः||६||

अनुवासनमेतद्धि सर्ववातविकारनुत्|
आनूपानां वसा तद्वज्जीवनीयोपसाधिता||७||

श्लोक 8

शताह्वायवबिल्वाम्लैः सिद्धं तैलं समीरणे|
सैन्धवेनाग्नितप्तेन तप्तं चानिलनुद्धृतम्||८||

श्लोक 9-12

जीवन्तीं मदनं मेदां श्रावणीं मधुकं बलाम्|
शताह्वर्षभकौ कृष्णां काकनासां शतावरीम्||९||

स्वगुप्तां क्षीरकाकोलीं कर्कटाख्यां शटीं वचाम्|
पिष्ट्वा तैलं घृतं क्षीरे साधयेत्तच्चतुर्गुणे||१०||

बृंहणं वातपित्तघ्नं बलशुक्राग्निवर्धनम्|
मूत्ररेतोरजोदोषान् हरेत्तदनुवासनम्||११||

लाभतश्चन्दनाद्यैश्च पिष्टैः क्षीरचतुर्गुणम्|
तैलपादं घृतं सिद्धं पित्तघ्नमनुवासनम्||१२||

श्लोक 13-17

सैन्धवं मदनं कुष्ठं शताह्वां निचुलं वचाम् |
ह्रीवेरं मधुकं भार्गीं देवदारु सकट्फलम्||१३||

नागरं पुष्करं मेदां चविकां चित्रकं शटीम्|
विडङ्गातिविषे श्यामां हरेणुं नीलिनीं स्थिराम्||१४||

बिल्वाजमोदे कृष्णां च दन्तीं रास्नां च पेषयेत्|
साध्यमेरण्डजं तैलं तैलं वा कफरोगनुत्||१५||

व्रध्नोदावर्तगुल्मार्शःप्लीहमेहाढ्यमारुतान्|
आनाहमश्मरीं चैव हन्यात्तदनुवासनात्||१६||

मदनैर्वाऽम्लसंयुक्तैर्बिल्वाद्येन गणेन वा|
तैलं कफहरैर्वाऽपि कफघ्नं कल्पयेद्भिषक्||१७||

श्लोक 18-24

विडङ्गैरण्डरजनीपटोलत्रिफलामृताः|
जातीप्रवालनिर्गुण्डीदशमूलाखुपर्णिकाः||१८||

निम्बपाठासहचरशम्पाककरवीरकाः|
एषां क्वाथेन विपचेत्तैलमेभिश्च कल्कितैः||१९||

फलबिल्वत्रिवृत्कृष्णारास्नाभूनिम्बदारुभिः|
सप्तपर्णवचोशीरदार्वीकुष्ठकलिङ्गकैः||२०||

लतागौरीशताह्वाग्निशटीचोरकपौष्करैः |
तत् कुष्ठानि क्रिमीन् मेहानर्शांसि ग्रहणीगदम्||२१||

क्लीबतां विषमाग्नित्वं मलं दोषत्रयं तथा|
प्रयुक्तं प्रणुदत्याशु पानाभ्यङ्गानुवासनैः||२२||

व्याधिव्यायामकर्माध्वक्षीणाबलनिरोजसाम्|
क्षीणशुक्रस्य चातीव स्नेहवस्तिर्बलप्रदः||२३||

पादजङ्घोरुपृष्ठांसकटीनां स्थिरतां पराम्|
जनयेदप्रजानां च प्रजां स्त्रीणां तथा नृणाम्||२४||

श्लोक 25

वातपित्तकफात्यन्नपुरीषैरावृतस्य च|
अभुक्ते च प्रणीतस्य स्नेहबस्तेः षडापदः||२५||

श्लोक 26-28

शीतोऽल्पो वाऽधिके वाते पित्तेऽत्युष्णः कफे मृदुः|
अतिभुक्ते गुरुर्वर्चःसञ्चयेऽल्पबलस्तथा||२६||

दत्तस्तैरावृतः स्नेहो न यात्यभिभवादपि |
अभुक्तेऽनावृतत्वाच्च यात्यूर्ध्वं तस्य लक्षणम्||२७||

अङ्गमर्दज्वराध्मानशीतस्तम्भोरुपीडनैः |
पार्श्वरुग्वेष्टनैर्विद्यात् स्नेहं वातावृतं भिषक्||२८||

श्लोक 29-31

स्निग्धाम्ललवणोष्णैस्तं रास्नापीतद्रुतैलिकैः |
सौवीरकसुराकोलकुलत्थयवसाधितैः||२९||

निरूहैर्निर्हरेत् सम्यक् समूत्रैः पाञ्चमूलिकैः|
ताभ्यामेव च तैलाभ्यां सायं भुक्तेऽनुवासयेत्||३०||

दाहरागतृषामोहतमकज्वरदूषणैः|
विद्यात् पित्तावृतं स्वादुतिक्तैस्तं बस्तिभिर्हरेत्||३१||

श्लोक 32-33

तन्द्राशीतज्वरालस्यप्रसेकारुचिगौरवैः|
सम्मूर्च्छाग्लानिभिर्विद्याच्छ्लेष्मणा स्नेहमावृतम्||३२||

कषायकटुतीक्ष्णोष्णैः सुरामूत्रोपसाधितैः|
फलतैलयुतैः साम्लैर्बस्तिभिस्तं विनिर्हरेत्||३३||

श्लोक 34-35

छर्दिमूर्च्छारुचिग्लानिशूलनिद्राङ्गमर्दनैः |
आमलिङ्गैः सदाहैस्तं विद्यादत्यशनावृतम्||३४||

कटूनां लवणानां च क्वाथैश्चूर्णैश्च पाचनम्|
विरेको मृदुरत्रामविहिता च क्रिया हिता||३५||

श्लोक 36-37

विण्मूत्रानिलसङ्गार्तिगुरुत्वाध्मानहृद्ग्रहैः|
स्नेहं विडावृतं ज्ञात्वा स्नेहस्वेदैः सवर्तिभिः||३६||

श्यामाबिल्वादिसिद्धैश्च निरूहैः सानुवासनैः|
निर्हरेद्विधिना सम्यगुदावर्तहरेण च||३७||

श्लोक 38-40

अभुक्ते शून्यपायौ वा वेगात् स्नेहोऽतिपीडितः|
धावत्यूर्ध्वं ततः कण्ठादूर्ध्वेभ्यः खेभ्य एत्यपि||३८||

मूत्रश्यामात्रिवृत्सिद्धो यवकोलकुलत्थवान्|
तत्सिद्धतैल इष्टोऽत्र निरूहः सानुवासनः||३९||

कण्ठादागच्छतः स्तम्भकण्ठग्रहविरेचनैः|
छर्दिघ्नीभिः क्रियाभिश्च तस्य कार्यं निवर्तनम्||४०||

श्लोक 41

यस्य नोपद्रवं कुर्यात् स्नेहबस्तिरनिःसृतः|
सर्वेऽल्पो वाऽऽवृतो रौक्ष्यादुपेक्ष्यः स विजानता||४१||

श्लोक 42-45

युक्तस्नेहं द्रवोष्णं च लघुपथ्योपसेवनम्|
भुक्तवान् मात्रया भोज्यमनुवास्यस्त्र्यहात्त्र्यहात्||४२||

धान्यनागरसिद्धं हि तोयं दद्याद्विचक्षणः|
व्युषिताय निशां कल्यमुष्णं वा केवलं जलम्||४३||

स्नेहाजीर्णं जरयति श्लेष्माणं तद्भिनत्ति च|
मारुतस्यानुलोम्यं च कुर्यादुष्णोदकं नृणाम्||४४||

वमने च विरेके च निरूहे सानुवासने|
तस्मादुष्णोदकं देयं वातश्लेष्मोपशान्तये||४५||

श्लोक 46-47

रूक्षनित्यस्तु दीप्ताग्निर्व्यायामी मारुतामयी|
वङ्क्षणश्रोण्युदावृत्तवाताश्चार्हा दिने दिने||४६||

एषां चाशु जरां स्नेहो यात्यम्बु सिकतास्विव|
अतोऽन्येषां त्र्यहात्प्रायः स्नेहं पचति पावकः||४७||

श्लोक 48-49

न त्वामं प्रणयेत् स्नेहं स ह्यभिष्यन्दयेद्गुदम्|
सावशेषं च कुर्वीत वायुः शेषे हि तिष्ठति||४८||

न चैव गुदकण्ठाभ्यां दद्यात् स्नेहमनन्तरम्|
उभयस्मात् समं गच्छन् वातमग्निं च दूषयेत्||४९||

श्लोक 50-51

स्नेहबस्तिं निरूहं वा नैकमेवातिशीलयेत्|
उत्क्लेशाग्निवधौ स्नेहान्निरूहात् पवनाद्भयम्||५०||

तस्मान्निरूढः संस्नेह्यो निरूह्यश्चानुवासितः|
स्नेहशोधनयुक्त्यैवं बस्तिकर्म त्रिदोषनुत्||५१||

श्लोक 52-54

कर्मव्यायामभाराध्वया(पा)नस्त्रीकर्षितेषु च|
दुर्बले वातभग्ने च मात्राबस्तिः सदा मतः||५२||

यथेष्टाहारचेष्टस्य सर्वकालं निरत्ययः|
ह्रस्वायाः स्नेहमात्राया मात्राबस्तिः समो भवेत्||५३||

बल्यं सुखोपचर्यं च सुखं सृष्टपुरीषकृत्|
स्नेहमात्राविधानं हि बृंहणं वातरोगनुत्||५४||

श्लोक 55-56

तत्र श्लोकौ-
वातादीनां शमायोक्ताः प्रवराः स्नेहबस्तयः|
तेषां चाज्ञप्रयुक्तानां व्यापदः सचिकित्सिताः||५५||

प्राग्भोज्यं स्नेहबस्तेर्यद् ध्रुवं येऽर्हास्त्र्यहाच्च ये
स्नेहबस्तिविधिश्चोक्तो मात्राबस्तिविधिस्तथा||५६||

पुष्पिका

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसम्पूरिते
सिद्धिस्थाने स्नेहव्यापत्सिद्धिर्नाम चतुर्थोऽध्यायः||४||