श्लोक 1-2
अथातः स्वभावव्याधिप्रतिषेधनीयं रसायनं व्याख्यास्यामः ||१||
यथोवाच भगवान् धन्वन्तरिः ||२||
श्लोक 3-9
ब्रह्मादयोऽसृजन् पूर्वममृतं सोमसञ्ज्ञितम् |
जरामृत्युविनाशाय विधानं तस्य वक्ष्यते ||३||
एक एव खलु भगवान् सोमः स्थाननामाकृतिवीर्यविशेषैश्चतुर्विंशतिधा भिद्यते ||४||
तद्यथा-
अंशुमान् मुञ्जवांश्चैव चन्द्रमा रजतप्रभः |
दूर्वासोमः कनीयांश्च श्वेताक्षः कनकप्रभः ||५||
प्रतानवांस्तालवृन्तः करवीरोंऽशवानपि |
स्वयम्प्रभो महासोमो यश्चापि गरुडाहृतः ||६||
गायत्रस्त्रैष्टुभः पाङ्क्तो जागतः शाक्वरस्तथा |
अग्निष्टोमो रैवतश्च यथोक्त इति सञ्ज्ञितः ||७||
गायत्र्या त्रिपदा युक्तो यश्चोडुपतिरुच्यते |
एते सोमाः समाख्याता वेदोक्तैर्नामभिः शुभैः ||८||
सर्वेषामेव चैतेषामेको विधिरुपासने |
सर्वे तुल्यगुणाश्चैव विधानं तेषु वक्ष्यते ||९||
श्लोक 10-12
अतोऽन्यतमं सोममुपयुयुक्षुः सर्वोपकरणपरिचारकोपेतः प्रशस्ते देशे त्रिवृतमागारं कारयित्वा हृतदोषः प्रतिसंसृष्टभक्तः प्रशस्तेषु तिथिकरणमुहूर्तनक्षत्रेषु अंशुमन्तमादायाध्वरकल्पेनाहृतमभिषुतमभिहुतं चान्तरागारे कृतमङ्गलस्वस्तिवाचनः सोमकन्दं सुवर्णसूच्या विदार्य पयो गृह्णीयात् सौवर्णे (राजते वा ) पात्रेऽञ्जलिमात्रं, ततः सकृदेवोपयुञ्जीत नाखादयन्, तत उपस्पृश्य शेषमप्स्ववसाद्य यमनियमाभ्यामात्मानं संयोज्य वाग्यतोऽभ्यन्तरतः सुहृद्भिरुपास्यमानो विहरेत् ||१०||
रसायनं पीतवांस्तु निवाते तन्मनाः शुचिः |
आसीत तिष्ठेत् क्रामेच्च न कथञ्चन संविशेत् ||११||
सायं वा भुक्तवानुपश्रुतशान्तिः कुशशय्यायां कृष्णाजिनोत्तरायां सुहृद्भिरुपास्यमानः शयीत, तृषितो वा शीतोदकमात्रां पिबेत् (अशनायितो वा क्षारं); ततः प्रातरुत्थायोपश्रुतशान्तिः कृतमङ्गलो गां स्पृष्ट्वा तथैवासीत, तस्य जीर्णे सोमे छर्दिरुत्पद्यते, ततः शोणिताक्तं कृमिव्यामिश्रं छर्दितवते सायं शृतशीतं क्षीरं वितरेत्; ततस्तृतीयेऽहनि कृमिव्यामिश्रमतिसार्यते, स तेनानिष्टप्रतिग्रहभुक्तप्रभृतिभिर्विशेषैर्विनिर्मुक्तः शुद्धतनुर्भवति, ततः सायं स्नाताय पूर्ववदेव क्षीरं वितरेत्, क्षौमवस्त्रास्तृतायां चैनं शय्यायां शाययेत्; ततश्चतुर्थेऽहनि तस्य श्वयथुरुत्पद्यते, ततः सर्वाङ्गेभ्यः कृमयो निष्क्रामन्ति, तदहश्च शय्यायां पांशुभिरवकीर्यमाणः शयीत, ततः सायं पूर्ववदेव क्षीरं वितरेत्; एवं पञ्चमषष्ठयोर्दिवसयोर्वर्तेत, केवलमुभयकालमस्मै क्षीरं वितरेत्; ततः सप्तमेऽहनि निर्मांसस्त्वगस्थिभूतः केवलं सोमपरिग्रहादेवोच्छ्वसिति, तदहश्च क्षीरेण सुखोष्णेन परिषिच्य तिलमधुकचन्दनानुलिप्तदेहं पयः पाययेत्; ततोऽष्टमेऽहनि प्रातरेव क्षीरपरिषिक्तं चन्दनप्रदिग्धगात्रं पयः पाययित्वापांशुशय्यां समुत्सृज्य क्षौमवस्त्रास्तृतायां शय्यायां शाययेत्, ततोऽस्य मांसमाप्याय्यते, त्वक् चावदलति, दन्तनखरोमाणि चास्य पतन्ति, तस्य नवमदिवसात् प्रभृत्यणुतैलाभ्यङ्गः सोमवल्ककषायपरिषेकः; ततो दशमेऽहन्येतदेव वितरेत्, ततोऽस्य त्वक् स्थिरतामुपैति; एवमेकादशद्वादशयोर्वर्तेत; ततस्त्रयोदशात् प्रभृति सोमवल्ककषायपरिषेकः, एवमाषोडशाद्वर्तेत; ततः सप्तदशाष्टादशयोर्दिवसयोर्दशना जायन्ते शिखरिणः स्निग्धवज्रवैदूर्यस्फटिकप्रकाशाः समाः स्थिराः सहिष्णवः, तदा प्रभृति चानवैः शालितण्डुलैः क्षीरयवागूमुपसेवेत यावत् पञ्चर्विशतिरिति; ततोऽस्मै दद्याच्छाल्योदनं मृदूभयकालं पयसा, ततोऽस्य नखा जायन्ते विद्रुमेन्द्रगोपकतरुणादित्यप्रकाशाः, स्थिराः स्निग्धा लक्षणसम्पन्नाः केशाश्च सूक्ष्मा जायन्ते, त्वक् च नीलोत्पलातसीपुष्पवैदूर्यप्रकाशा; ऊर्ध्वं च मासात् केशान् वापयेत्, वापयित्वा चोशीरचन्दनकृष्णतिलकल्कैः शिरः प्रदिह्यात् पयसा वा स्नापयेत्; ततोऽस्यानन्तरं सप्तरात्रात् केशा जायन्ते भ्रमराञ्जननिभाः कुञ्चिताः स्थिराः स्निग्धाः; ततस्त्रिरात्रात् प्रथमावसथपरिसरान्निष्क्रम्य मुहूर्तं स्थित्वा पुनरेवान्तः प्रविशेत्, ततोऽस्य बलातैलमभ्यङ्गार्थेऽवचार्यं, यवपिष्टमुद्वर्तनार्थे, सुखोष्णं च पयःपरिषेकार्थे, अजकर्णकषायमुत्सादनार्थे, सोशीरं कूपोदकं स्नानार्थे, चन्दनमनुलेपार्थे, आमलकरसविमिश्राश्चास्य यूषसूपविकल्पाः, क्षीरमधुकसिद्धं च कृष्णतिलमवचारणार्थे, एवं दशरात्रं; ततोऽन्यद्दशरात्रं द्वितीये परिसरे वर्तेत; ततस्तृतीये परिसरे स्थिरीकुर्वन्नात्मानमन्यद्दशरात्रमासीत, किञ्चिदातपपवनान् वा सेवेत, पुनश्चान्तः प्रविशेत्, न चात्मानमादर्शेऽप्सु वा निरीक्षेत रूपशालित्वात्; ततोऽन्यद्दशरात्रं क्रोधादीन् परिहरेत् , एवं सर्वेषामुपयोगविकल्पः |
विशेषतस्तु वल्लीप्रतानक्षुपकादयः सोमा ब्राह्मणक्षत्रियवैश्यैर्भक्षयितव्याः |
तेषां तु प्रमाणमर्धचतुष्कमुष्टयः ||१२||
श्लोक 13
अंशुमन्तं सौवर्णे पात्रेऽभिषुणुयात्, चन्द्रमसं राजते; तावुपयुज्याष्टगुणमैश्वर्यमवाप्येशानं देवमनुप्रविशति, शेषांस्तु ताम्रमये मृन्मये वा रोहिते वा चर्मणि वितते; शूद्रवर्जं त्रिभिर्वर्णैः सोमा उपयोक्तव्याः |
ततश्चतुर्थे मासे पौर्णमास्यां शुचौ देशे ब्राह्मणानर्चयित्वा कृतमङ्गलो निष्क्रम्य यथोक्तं व्रजेदिति ||१३||
श्लोक 14-19
ओषधीनां पतिं सोममुपयुज्य विचक्षणः |
दशवर्षसहस्राणि नवां धारयते तनुम् ||१४||
नाग्निर्न तोयं न विषं न शस्त्रं नास्त्रमेव च |
तस्यालमायुःक्षपणे समर्थानि भवन्ति हि ||१५||
भद्राणां षष्टिवर्षाणां प्रस्रुतानामनेकधा |
कुञ्जराणां सहस्रस्य बलं समधिगच्छति ||१६||
क्षीरोदं शक्रसदनमुत्तरांश्च कुरूनपि |
यत्रेच्छति स गन्तुं वा तत्राप्रतिहता गतिः ||१७||
कन्दर्प इव रूपेण कान्त्या चन्द्र इवापरः |
प्रह्लादयति भूतानां मनांसि स महाद्युतिः ||१८||
साङ्गोपाङ्गांश्च निखिलान् वेदान् विन्दति तत्त्वतः |
चरत्यमोघसङ्कल्पो देववच्चाखिलं जगत् ||१९||
श्लोक 20-26
सर्वेषामेव सोमानां पत्राणि दश पञ्च च |
तानि शुक्ले च कृष्णे च जायन्ते निपतन्ति च ||२०||
एकैकं जायते पत्रं सोमस्याहरहस्तदा |
शुक्लस्य पौर्णमास्यां तु भवेत् पञ्चदशच्छदः ||२१||
शीर्यते पत्रमेकैकं दिवसे दिवसे पुनः |
कृष्णपक्षक्षये चापि लता भवति केवला ||२२||
अंशुमानाज्यगन्धस्तु कन्दवान् रजतप्रभः |
कदल्याकारकन्दस्तु मुञ्जवांल्लशुनच्छदः ||२३||
चन्द्रमाः कनकाभासो जले चरति सर्वदा |
गरुडाहृतनामा च श्वेताक्षश्चापि पाण्डुरौ ||२४||
सर्पनिर्मोकसदृशौ तौ वृक्षाग्रावलम्बिनौ |
तथाऽन्ये मण्डलैश्चित्रैश्चित्रिता इव भान्ति ते ||२५||
सर्व एव तु विज्ञेयाः सोमाः पञ्चदशच्छदाः |
क्षीरकन्दलतावन्तः पत्रैर्नानाविधैः स्मृताः ||२६||
श्लोक 27-31
हिमवत्यर्बुदे सह्ये महेन्द्रे मलये तथा |
श्रीपर्वते देवगिरौ गिरौ देवसहे तथा ||२७||
पारियात्रे च विन्ध्ये च देवसुन्दे हदे तथा |
उत्तरेण वितस्तायाः प्रवृद्धा ये महीधराः ||२८||
पञ्च तेषामधो मध्ये सिन्धुनामा महानदः |
हठवत् प्लवते तत्र चन्द्रमाः सोमसत्तमः ||२९||
तस्योद्देशेषु चाप्यस्ति मुञ्जवानंशुमानपि |
काश्मीरेषु सरो दिव्यं नाम्ना क्षुद्रकमानसम् ||३०||
गायत्रस्त्रैष्टुभः पाङ्क्तो जागतः शाक्वरस्तथा |
अत्र सन्त्यपरे चापि सोमाः सोमसमप्रभाः ||३१||
श्लोक 32
यैश्चात्र मन्दभाग्यैस्ते भिषजश्चापमानिताः |
न तान् पश्यन्त्यधर्मिष्ठाः कृतघ्नाश्चापि मानवाः |
भेषजद्वेषिणश्चापि ब्राह्मणद्वेषिणस्तथा ||३२||
पुष्पिका
इति सुश्रुतसंहितायां चिकित्सास्थाने स्वभावव्याधिप्रतिषेधनीयं रसायनचिकित्सितं नामैकोनत्रिंशोऽध्यायः ||२९||