स्वेदावचारणीयचिकित्सितम्

श्लोक 1-2

अथातः स्वेदावचारणीयं चिकित्सितं व्याख्यास्यामः ||१||

यथोवाच भगवान् धन्वन्तरिः ||२||

श्लोक 3

चतुर्विधः स्वेदः; तद्यथा- तापस्वेद, ऊष्मस्वेद, उपनाहस्वेदो, द्रवस्वेद  इति; अत्र सर्वस्वेदविकल्पावरोधः ||३||

श्लोक 4

तत्र तापस्वेदः पाणिकांस्यकन्दुककपालवालुकावस्त्रैः प्रयुज्यते,  शयानस्य चाङ्गतापो बहुशः खादिराङ्गारैरिति ||४||

श्लोक 5-7

ऊष्मस्वेदस्तु कपालपाषाणेष्टकालोहपिण्डानग्निवर्णानद्भिरासिञ्चेद-म्लद्रव्यैर्वा, तैरार्द्रालक्तकपरिवेष्टितैरङ्गप्रदेशं स्वेदयेत् |
मांसरसपयोदधिस्नेहधान्याम्लवातहरपत्रभङ्गक्वाथपूर्णां वा  कुम्भीमनुतप्तां प्रावृत्योष्माणं गृह्णीयात् |
पार्श्वच्छिद्रेण वा कुम्भेनाधोमुखेन तस्या मुखमभिसन्धाय तस्मिञ्छिद्रे  हस्तिशुण्डाकारां नाडीं प्रणिधाय तं स्वेदयेत् ||५||

सुखोपविष्टं स्वभ्यक्तं गुरुप्रावरणावृतम् |
हस्तिशुण्डिकया नाड्या स्वेदयेद्वातरोगिणम् |
सुखा सर्वाङ्गगा ह्येषा न च क्लिश्नाति मानवम् ||६||

व्यामार्धमात्रा त्रिर्वक्रा हस्तिहस्तसमाकृतिः |
स्वेदनार्थे हिता नाडी कैलिञ्जी हस्तिशुण्डिका ||७||

श्लोक 8-9

पुरुषायाममात्रां च भूमिमुत्कीर्य खादिरैः |
काष्ठैर्दग्ध्वा तथाऽऽभ्युक्ष्य क्षीरधान्याम्लवारिभिः ||८||

पत्रभङ्गैरवच्छाद्य शयानं स्वेदयेत्ततः |९|

श्लोक 9

पूर्ववत् स्वेदयेद्दग्ध्वा भस्मापोह्यापि वा शिलाम् ||९||

श्लोक 10

पूर्ववत् कुटीं वा चतुर्द्वारां कृत्वा  तस्यामुपविष्टस्यान्तश्चतुर्द्वारेऽङ्गारानुपसन्धाय तं स्वेदयेत् ||१०||

श्लोक 11

कोशधान्यानि वा सम्यगुपस्वेद्यास्तीर्य किलिञ्जेऽन्यस्मिन् वा  तत्प्रतिरूपके शयानं प्रावृत्य स्वेदयेत्; एवं  पांशुगोशकृत्तुषबुसपलालोष्मभिः स्वेदयेत् ||११||

श्लोक 12

उपनाहस्वेदस्तु वातहरमूलकल्कैरम्लपिष्टैर्लवणप्रगाढैः सुस्निग्धैः  सुखोष्णैः प्रदिह्य स्वेदयेत् |
एवं काकोल्यादिभिरेलादिभिः सुरसादिभिस्तिलातसीसर्षपकल्कैः  कृशरापायसोत्कारिकाभिर्वेशवारैः साल्वणैर्वा तनुवस्त्रावनद्धैः स्वेदयेत् ||१२||

श्लोक 13

द्रवस्वेदस्तु वातहरद्रव्यक्वाथपूर्णे कोष्णकटाहे द्रोण्यां वाऽवगाह्य  स्वेदयेत्, एवं पयोमांसरसयूषतैलधान्याम्लघृतवसामूत्रेष्ववगाहेत;  एतैरेव सुखोष्णैः कषायैश्च परिषिञ्चेदिति ||१३||

श्लोक 14

तत्र तापोष्मस्वेदौ विशेषतः श्लेष्मघ्नौ, उपनाहस्वेदो वातघ्नः,  अन्यतरस्मिन् पित्तसंसृष्टे द्रवस्वेद इति ||१४||

श्लोक 15

कफमेदोन्विते वायौ निवातातपगुरुप्रावरणनियुद्धाध्वव्यायामभारह-रणामर्षैः स्वेदमुत्पादयेदिति ||१५||

श्लोक 16

भवन्ति चात्र-
चतुर्विधो योऽभिहितो द्विधा स्वेदः प्रयुज्यते |
सर्वस्मिन्नेव देहे तु देहस्यावयवे तथा ||१६||

श्लोक 17-19

येषां नस्यं विधातव्यं बस्तिश्चैव हि देहिनाम् |
शोधनीयाश्च ये केचित् पूर्वं स्वेद्यास्तु ते मताः ||१७||

पश्चात् स्वेद्या हृते शल्ये मूढगर्भाऽनुपद्रवा |
सम्यक् प्रजाता काले या पश्चात् स्वेद्या विजानता ||१८||

स्वेद्यः पूर्वं च पश्चाच्च भगन्दर्यर्शसस्तथा |
अश्मर्या चातुरो जन्तुः शेषाञ्छास्त्रे प्रचक्ष्महे ||१९||

श्लोक 20

नानभ्यक्ते नापि चास्निग्धदेहे स्वेदो योज्यः स्वेदविद्भिः कथञ्चित् |
दृष्टं लोके काष्ठमस्निग्धमाशु गच्छेद्भङ्गं स्वेदयोगैर्गृहीतम् ||२०||

श्लोक 21

स्नेहक्लिन्ना धातुसंस्थाश्च दोषाः स्वस्थानस्था ये च मार्गेषु लीनाः |
सम्यक् स्वेदैर्योजितैस्ते द्रवत्वं प्राप्ताः कोष्ठं शोधनैर्यान्त्यशेषम् ||२१||

श्लोक 22

अग्नेर्दीप्तिं मार्दवं त्वक्प्रसादं भक्तश्रद्धां स्रोतसां निर्मलत्वम् |
कुर्यात् स्वेदो हन्ति निद्रां सतन्द्रां सन्धीन् स्तब्धांश्चेष्टयेदाशु युक्तः ||२२||

श्लोक 23-24

स्वेदास्रावो व्याधिहानिर्लघुत्वं शीतार्थित्वं मार्दवं चातुरस्य |
सम्यक्स्विन्ने लक्षणं प्राहुरेतन्मिथ्यास्विन्ने व्यत्ययेनैतदेव ||२३||

स्विन्नेऽत्यर्थं सन्धिपीडा विदाहः स्फोटोत्पत्तिः पित्तरक्तप्रकोपः |
मूर्च्छा भ्रान्तिर्दाहतृष्णे क्लमश्च कुर्यात्तूर्णं तत्र शीतं विधानम् ||२४||

श्लोक 25-26

पाण्डुर्मेही पित्तरक्ती क्षयार्तः क्षामोऽजीर्णी चोदरार्तो विषार्तः |
तृड्च्छर्द्यार्तो गर्भिणी पीतमद्यो नैते स्वेद्या यश्च मर्त्योऽतिसारी |
स्वेदादेषां यान्ति देहा विनाशं नोसाध्यत्वं यान्ति चैषां विकाराः ||२५||

स्वेदैः साध्यो दुर्बलोऽजीर्णभक्तः स्यातां चेद्द्वौ स्वेदनीयौ ततस्तौ |२६|

श्लोक 26-29

एतेषां स्वेदसाध्या ये व्याधयस्तेषु बुद्धिमान् |
मृदून् स्वेदान् प्रयुञ्जीत तथा हृन्मुष्कदृष्टिषु ||२६||


सर्वान् स्वेदान्निवाते च जीर्णान्नस्यावचारयेत् |
स्नेहाभ्यक्तशरीरस्य शीतैराच्छाद्य चक्षुषी ||२७||


स्विद्यमानस्य च मुहुर्हृदयं शीतलैः स्पृशेत् |
सम्यक्स्विन्नं विमृदितं स्नातमुष्णाम्बुभिः शनैः ||२८||


स्वभ्यक्तं प्रावृताङ्गं च निवातशरणस्थितम् |
भोजयेदनभिष्यन्दि सर्वं चाचारमादिशेत् ||२९||

पुष्पिका

इति सुश्रुतसंहितायां चिकित्सास्थाने स्वेदावचारणीयं चिकित्सितं नाम द्वात्रिंशोऽध्यायः ||३२||