हिक्काश्वासचिकित्सितम्

श्लोक 1-2

अथातो हिक्काश्वासचिकित्सितं व्याख्यास्यामः||१||

इति ह स्माह भगवानात्रेयः||२||

श्लोक 3-7

वेदलोकार्थतत्त्वज्ञमात्रेयमृषिमुत्तमम्|
अपृच्छत् संशयं धीमानग्निवेशः कृताञ्जलिः||३||

य इमे द्विविधाः प्रोक्तास्त्रिदोषास्त्रिप्रकोपणाः|
रोगा नानात्मकास्तेषां कस्को भवति दुर्जयः||४||

अग्निवेशस्य तद्वाक्यं श्रुत्वा मतिमतां वरः|
उवाच परमप्रीतः परमार्थविनिश्चयम्||५||

कामं प्राणहरा रोगा बहवो न तु ते तथा|
यथा श्वासश्च हिक्का च प्राणानाशु निकृन्ततः||६||

अन्यैरप्युपसृष्टस्य रोगैर्जन्तोः पृथग्विधैः|
अन्ते सञ्जायते हिक्का श्वासो वा तीव्रवेदनः||७||

श्लोक 8-9

कफवातात्मकावेतौ पित्तस्थानसमुद्भवौ|
हृदयस्य रसादीनां धातूनां चोपशोषणौ||८||

तस्मात् साधारणावेतौ मतौ परमदुर्जयौ|
मिथ्योपचरितौ क्रुद्धौ हत आशीविषाविव||९||

श्लोक 10-16

पृथक् पञ्चविधावेतौ निर्दिष्टौ रोगसङ्ग्रहे|
तयोः शृणु समुत्थानं लिङ्गं च सभिषग्जितम्||१०||

रजसा धूमवाताभ्यां शीतस्थानाम्बुसेवनात्|
व्यायामाद्ग्राम्यधर्माध्वरूक्षान्नविषमाशनात्||११||

आमप्रदोषादानाहाद्रौक्ष्यादत्यपतर्पणात्|
दौर्बल्यान्मर्मणो घाताद्द्वन्द्वाच्छुद्ध्यतियोगतः||१२||

अतीसारज्वरच्छर्दिप्रतिश्यायक्षतक्षयात्|
रक्तपित्तादुदावर्ताद्विसूच्यलसकादपि||१३||

पाण्डुरोगाद्विषाच्चैव प्रवर्तेते गदाविमौ|
निष्पावमाषपिण्याकतिलतैलनिषेवणात्||१४||

पिष्टशालूकविष्टम्भिविदाहिगुरुभोजनात्|
जलजानूपपिशितदध्यामक्षीरसेवनात्||१५||

अभिष्यन्द्युपचाराच्च श्लेष्मलानां च सेवनात्|
कण्ठोरसः प्रतीघाताद्विबन्धैश्च पृथग्विधैः||१६||

श्लोक 17-18

मारुतः प्राणवाहीनि स्रोतांस्याविश्य कुप्यति|
उरःस्थः कफमुद्धूय हिक्काश्वासान् करोति सः||१७||

घोरान् प्राणोपरोधाय प्राणिनां पञ्च पञ्च च|१८|

श्लोक 18-20

उभयोः पूर्वरूपाणि शृणु वक्ष्याम्यतः परम्||१८||

कण्ठोरसोर्गुरुत्वं च वदनस्य कषायता|
हिक्कानां पूर्वरूपाणि कुक्षेराटोप एव च||१९||

आनाहः पार्श्वशूलं च पीडनं हृदयस्य च|
प्राणस्य च विलोमत्वं श्वासानां पूर्वलक्षणम्||२०||

श्लोक 21-26

प्राणोदकान्नवाहीनि स्रोतांसि सकफोऽनिलः|
हिक्काः करोति संरुध्य तासां लिङ्गं पृथक् शृणु||२१||

क्षीणमांसबलप्राणतेजसः सकफोऽनिलः|
गृहीत्वा सहसा कण्ठमुच्चैर्घोषवतीं भृशम्||२२||

करोति सततं हिक्कामेकद्वित्रिगुणं तथा|
प्राणः स्रोतांसि मर्माणि संरुध्योष्माणमेव च||२३||

सञ्ज्ञां मुष्णाति गात्राणां स्तम्भं सञ्जनयत्यपि|
मार्गं चैवान्नपानानां रुणद्ध्युपहतस्मृतेः||२४||

साश्रुविप्लुतनेत्रस्य स्तब्धशङ्खच्युतभ्रुवः|
सक्तजल्पप्रलापस्य निर्वृतिं नाधिगच्छतः||२५||

महामूला महावेगा महाशब्दा महाबला|
महाहिक्केति सा नॄणां सद्यः प्राणहरा मता||२६||
इति महाहिक्का|

श्लोक 27-30

हिक्कते यः प्रवृद्धस्तु कृशो दीनमना नरः|
जर्जरेणोरसा कृच्छ्रं गम्भीरमनुनादयन्||२७||

सञ्जृम्भन् सङ्क्षिपंश्चैव तथाऽङ्गानि प्रसारयन्|
पार्श्वे चोभे समायम्य कूजन् स्तम्भरुगर्दितः||२८||

नाभेः पक्वाशयाद्वाऽपि हिक्का चास्योपजायते|
क्षोभयन्ती भृशं देहं नामयन्तीव ताम्यतः||२९||

रुणद्ध्युच्छ्वासमार्गं तु प्रनष्टबलचेतसः|
गम्भीरा नाम सा तस्य हिक्का प्राणान्तिकी मता||३०||
इति गम्भीरा हिक्का|

श्लोक 31-33

व्यपेता जायते हिक्का याऽन्नपाने चतुर्विधे|
आहारपरिणामान्ते भूयश्च लभते बलम्||३१||

प्रलापवम्यतीसारतृष्णार्तस्य विचेतसः|
जृम्भिणो विप्लुताक्षस्य शुष्कास्यस्य विनामिनः||३२||

पर्याध्मातस्य हिक्का या जत्रुमूलादसन्तता|
सा व्यपेतेति विज्ञेया हिक्का प्राणोपरोधिनी||३३||
इति व्यपेता हिक्का|

श्लोक 34-37

क्षुद्रवातो यदा कोष्ठाद्व्यायामपरिघट्टितः|
कण्ठे प्रपद्यते हिक्कां तदा क्षुद्रां करोति सः||३४||

अतिदुःखा न सा चोरःशिरोमर्मप्रबाधिनी|
न चोच्छ्वासान्नपानानां मार्गमावृत्य तिष्ठति||३५||

वृद्धिमायस्यतो याति भुक्तमात्रे च मार्दवम्|
यतः प्रवर्तते पूर्वं तत एव निवर्तते||३६||

हृदयं क्लोम कण्ठं च तालुकं च समाश्रिता|
मृद्वी सा क्षुद्रहिक्केति नृणां साध्या प्रकीर्तिता||३७||
इति क्षुद्रहिक्का|

श्लोक 38-41

सहसाऽत्यभ्यवहृतैः पानान्नैः पीडितोऽनिलः|
ऊर्ध्वं प्रपद्यते कोष्ठान्मद्यैर्वाऽतिमदप्रदैः||३८||

तथाऽतिरोषभाष्याध्वहास्यभारातिवर्तनैः|
वायुः कोष्ठगतो धावन् पानभोज्यप्रपीडितः||३९||

उरःस्रोतः समाविश्य कुर्याद्धिक्कां ततोऽन्नजाम्|
तथा शनैरसम्बन्धं क्षुवंश्चापि स हिक्कते||४०||

न मर्मबाधाजननी नेन्द्रियाणां प्रबाधिनी|
हिक्का पीते तथा भुक्ते शमं याति च साऽन्नजा||४१||
इत्यन्नजा हिक्का|

श्लोक 42-44

अतिसञ्चितदोषस्य भक्तच्छेदकृशस्य च|
व्याधिभिः क्षीणदेहस्य वृद्धस्यातिव्यवायिनः||४२||

आसां या सा समुत्पन्ना हिक्का हन्त्याशु जीवितम्|
यमिका च प्रलापार्तितृष्णामोहसमन्विता||४३||

अक्षीणश्चाप्यदीनश्च स्थिरधात्विन्द्रियश्च यः|
तस्य साधयितुं शक्या यमिका हन्त्यतोऽन्यथा||४४||

श्लोक 45

यदा स्रोतांसि संरुध्य मारुतः कफपूर्वकः|
विष्वग्व्रजति संरुद्धस्तदा श्वासान्करोति सः||४५||

श्लोक 46-48

उद्धूयमानवातो यः शब्दवहुःखितो नरः|
उच्चैः श्वसिति संरुद्धो मत्तर्षभ इवानिशम्||४६||

प्रनष्टज्ञानविज्ञानस्तथा विभ्रान्तलोचनः|
विकृताक्ष्याननो बद्धमूत्रवर्चा विशीर्णवाक्||४७||

दीनः प्रश्वसितं चास्य दूराद्विज्ञायते भृशम्|
महाश्वासोपसृष्टः स क्षिप्रमेव विपद्यते||४८||
इति महाश्वासः|

श्लोक 49-51

दीर्घं श्वसिति यस्तूर्ध्वं न च प्रत्याहरत्यधः|
श्लेष्मावृतमुखस्रोताः क्रुद्धगन्धवहार्दितः||४९||

ऊर्ध्वदृष्टिर्विपश्यंश्च विभ्रान्ताक्ष इतस्ततः|
प्रमुह्यन् वेदनार्तश्च शुष्कास्योऽरतिपीडितः||५०||

ऊर्ध्वश्वासे प्रकुपिते ह्यधःश्वासो निरुध्यते|
मुह्यतस्ताम्यतश्चोर्ध्वं श्वासस्तस्यैव हन्त्यसून्||५१||
इत्यूर्ध्वश्वासः|

श्लोक 52-54

यस्तु श्वसिति विच्छिन्नं सर्वप्राणेन पीडितः|
न वा श्वसिति दुःखार्तो मर्मच्छेदरुगर्दितः||५२||

आनाहस्वेदमूर्च्छार्तो दह्यमानेन बस्तिना|
विप्लुताक्षः परिक्षीणः श्वसन् रक्तैकलोचनः||५३||

विचेताः परिशुष्कास्यो विवर्णः प्रलपन्नरः|
छिन्नश्वासेन विच्छिन्नः स शीघ्रं प्रजहात्यसून्||५४||
इति छिन्नश्वासः|

श्लोक 55-62

प्रतिलोमं यदा वायुः स्रोतांसि प्रतिपद्यते|
ग्रीवां शिरश्च सङ्गृह्य श्लेष्माणं समुदीर्य च||५५||

करोति पीनसं तेन रुद्धो घुर्घुरुकं तथा|
अतीव तीव्रवेगं च श्वासं प्राणप्रपीडकम्||५६||

प्रताम्यत्यतिवेगाच्च कासते सन्निरुध्यते|
प्रमोहं कासमानश्च स गच्छति मुहुर्मुहुः||५७||

श्लेष्मण्यमुच्यमाने तु भृशं भवति दुःखितः|
तस्यैव च विमोक्षान्ते मुहूर्तं लभते सुखम्||५८||

अथास्योद्ध्वंसते कण्ठः कृच्छ्राच्छक्नोति भाषितुम्|
न चापि निद्रां लभते शयानः श्वासपीडितः||५९||

पार्श्वे तस्यावगृह्णाति शयानस्य समीरणः|
आसीनो लभते सौख्यमुष्णं चैवाभिनन्दति||६०||

उच्छ्रिताक्षो ललाटेन स्विद्यता भृशमर्तिमान्|
विशुष्कास्यो मुहुः श्वासो मुहुश्चैवावधम्यते||६१||

मेघाम्बुशीतप्राग्वातैः श्लेष्मलैश्चाभिवर्धते|
स याप्यस्तमकश्वासः साध्यो वा स्यान्नवोत्थितः||६२||
इति तमकश्वासः|

श्लोक 63-64

ज्वरमूर्च्छापरीतस्य विद्यात् प्रतमकं तु तम्|
उदावर्तरजोऽजीर्णक्लिन्नकायनिरोधजः||६३||

तमसा वर्धतेऽत्यर्थं शीतैश्चाशु प्रशाम्यति|
मज्जतस्तमसीवाऽस्य विद्यात् सन्तमकं तु तम्||६४||
इति प्रतमकसन्तमकश्वासौ|

श्लोक 65-68

रूक्षायासोद्भवः कोष्ठे क्षुद्रो वात उदीरयन्|
क्षुद्रश्वासो न सोऽत्यर्थं दुःखेनाङ्गप्रबाधकः||६५||

हिनस्ति न स गात्राणि न च दुःखो यथेतरे|
न च भोजनपानानां निरुणद्ध्युचितां गतिम्||६६||

नेन्द्रियाणां व्यथां नापि काञ्चिदापादयेद्रुजम्|
स साध्य उक्तो बलिनः सर्वे चाव्यक्तलक्षणाः||६७||

इति श्वासाः समुद्दिष्टा हिक्काश्चैव स्वलक्षणैः|६८|

श्लोक 68-69

एषां प्राणहरा वर्ज्या घोरास्ते ह्याशुकारिणः||६८||

भेषजैः साध्ययाप्यांस्तु क्षिप्रं भिषगुपाचरेत्|
उपेक्षिता दहेयुर्हि शुष्कं कक्षमिवानलः||६९||

श्लोक 70-76

कारणस्थानमूलैक्यादेकमेव चिकित्सितम्|
द्वयोरपि यथादृष्टमृषिभिस्तन्निबोधत||७०||

हिक्काश्वासार्दितं स्निग्धैरादौ स्वेदैरुपाचरेत्|
आक्तं लवणतैलेन नाडीप्रस्तरसङ्करैः||७१||

तैरस्य ग्रथितः श्लेष्मा स्रोतःस्वभिविलीयते|
खानि मार्दवमायान्ति ततो वातानुलोमता||७२||

यथाऽद्रिकुञ्जेष्वर्कांशुतप्तं विष्यन्दते हिमम्|
श्लेष्मा तप्तः स्थिरो देहे स्वेदैर्विष्यन्दते तथा||७३||

स्विन्नं ज्ञात्वा ततस्तूर्णं भोजयेत् स्निग्धमोदनम्|
मत्स्यानां शूकराणां वा रसैर्दध्युत्तरेण वा||७४||

ततः श्लेष्मणि संवृद्धे वमनं पाययेत्तु तम्|
पिप्पलीसैन्धवक्षौद्रैर्युक्तं वाताविरोधि यत्||७५||

निर्हृते सुखमाप्नोति स कफे दुष्टविग्रहे|
स्रोतःसु च विशुद्धेषु चरत्यविहतोऽनिलः||७६||

श्लोक 77-80

लीनश्चेद्दोषशेषः स्याद्धूमैस्तं निर्हरेद्बुधः|
हरिद्रां पत्रमेरण्डमूलं लाक्षां मनःशिलाम्||७७||

सदेवदार्वलं मांसीं पिष्ट्वा वर्तिं प्रकल्पयेत्|
तां घृताक्तां पिबेद्धूमं यवैर्वा घृतसंयुतैः||८७||

मधूच्छिष्टं सर्जरसं घृतं मल्लकसम्पुटे|
कृत्वा धूमं पिबेच्छृङ्गं बालं वा स्नायु वा गवाम्||७९||

स्योनाकवर्धमानानां नाडीं शुष्कां कुशस्य वा|
पद्मकं गुग्गुलुं लोहं शल्लकीं वा घृताप्लुतम्||८०||

श्लोक 81

स्वरक्षीणातिसारासृक्पित्तदाहानुबन्धजान्|
मधुरस्निग्धशीताद्यैर्हिक्काश्वासानुपाचरेत्||८१||

श्लोक 82-87

न स्वेद्याः पित्तदाहार्ता रक्तस्वेदातिवर्तिनः|
क्षीणधातुबला रूक्षा गर्भिण्यश्चापि पित्तलाः||८२||

कोष्णैः काममुरःकण्ठं स्नेहसेकैः सशर्करैः|
उत्कारिकोपनाहैश्च स्वेदयेन् मृदुभिः क्षणम्||८३||

तिलोमामाषगोधूमचूर्णैर्वातहरैः सह|
स्नेहैश्चोत्कारिका साम्लैः सक्षीरैर्वा कृता हिता||८४||

नवज्वरामदोषेषु रूक्षस्वेदं विलङ्घनम्|
समीक्ष्योल्लेखनं वाऽपि कारयेल्लवणाम्बुना||८५||

अतियोगोद्धतं वातं दृष्ट्वा वातहरैर्भिषक्|
रसाद्यैर्नातिशीतोष्णैरभ्यङ्गैश्च शमं नयेत्||८६||

उदावर्ते तथाऽऽध्माने मातुलुङ्गाम्लवेतसैः|
हिङ्गुपीलुबिडैश्चान्नं युक्तं स्यादनुलोमनम्||८७||

श्लोक 88-90

हिक्काश्वासामयी ह्येको बलवान् दुर्बलोऽपरः|
कफाधिकस्तथैवैको रूक्षो बह्वनिलोऽपरः||८८||

ककाधिके बलस्थे च वमनं सविरेचनम्|
कुर्यात् पथ्याशिने धूमलेहादिशमनं ततः||८९||

वातिकान् दुर्बलान् बालान् वृद्धांश्चानिलसूदनैः|
तर्पयेदेव शमनैः स्नेहयूषरसादिभिः||९०||

श्लोक 91-93

अनुत्क्लिष्टकफास्विन्नदुर्बलानां विशोधनात्|
वायुर्लब्धास्पदो मर्म संशोष्याशु हरेदसून्||९१||

दृढान् बहुकफांस्तस्माद्रसैरानूपवारिजैः|
तृप्तान्विशोधयेत्स्विन्नान् बृंहयेदितरान् भिषक्||९२||

बर्हितित्तिरिदक्षाश्च जाङ्गलाश्च मृगद्विजाः|
दशमूलीरसे सिद्धाः कौलत्थे वा रसे हिताः||९३||

श्लोक 94-104

निदिग्धिकां बिल्वमध्यं कर्कटाख्यां दुरालभाम्|
त्रिकण्टकं गुडूचीं च कुलत्थांश्च सचित्रकान्||९४||

जले पक्त्वा रसः पूतः पिप्पलीघृतभर्जितः|
सनागरः सलवणः स्याद्यूषो भोजने हितः||९५||

रास्नां बलां पञ्चमूलं ह्रस्वं मुद्गान् सचित्रकान्|
पक्त्वाऽम्भसि रसे तस्मिन् यूषः साध्यश्च पूर्ववत्||९६||

पल्लवान्मातुलुङ्गस्य निम्बस्य कुलकस्य च|
पक्त्वा मुद्गांश्च सव्योषान् क्षारयूषं विपाचयेत्||९७||

दत्त्वा सलवणं क्षारं शिग्रूणि मरिचानि च|
युक्त्या संसाधितो यूषो हिक्काश्वासविकारनुत्||९८||

कासमर्दकपत्राणां यूषः शोभाञ्जनस्य च|
शुष्कमूलकयूषश्च हिक्काश्वासनिवारणः||९९||

सदधिव्योषसर्पिष्को यूषो वार्ताकजो हितः|
शालिषष्टिकगोधूमयवान्नान्यनवानि च||१००||

हिङ्गुसौवर्चलाजाजीबिडपौष्करचित्रकैः|
सिद्धा कर्कटशृङ्ग्या च यवागूः श्वासहिक्किनाम्||१०१||

दशमूलीशटीरास्नापिप्पलीमूलपौष्करैः|
शृङ्गीतामलकीभार्गीगुडूचीनागराम्बुभिः||१०२||

यवागूं विधिना सिद्धां कषायं वा पिबेन्नरः|
कासहृद्ग्रहपार्श्वार्तिहिक्काश्वासप्रशान्तये||१०३||

पुष्कराह्वशटीव्योषमातुलुङ्गाम्लवेतसैः|
योजयेदन्नपानानि ससर्पिर्बिडहिङ्गुभिः||१०४||

श्लोक 105-120

दशमूलस्य वा क्वाथमथवा देवदारुणः|
तृषितो मदिरां वाऽपि हिक्काश्वासी पिबेन्नरः||१०५||

पाठां मधुरसां रास्नां सरलं देवदारु च|
प्रक्षाल्य जर्जरीकृत्य सुरामण्डे निधापयेत्||१०६||

तं मन्दलवणं कृत्वा भिषक् प्रसृतसम्मितम्|
पाययेत्तु ततो हिक्का श्वासश्चैवोपशाम्यति||१०७||

हिङ्गु सौवर्चलं कोलं समङ्गां पिप्पलीं बलाम्|
मातुलुङ्गरसे पिष्टमारनालेन वा पिबेत्||१०८||

सौवर्चलं नागरं च भार्गीं द्विशर्करायुतम्|
उष्णाम्बुना पिबेदेतद्धिक्काश्वासविकारनुत्||१०९||

भार्गीनागरयोः कल्कं मरिचक्षारयोस्तथा|
पीतद्रुचित्रकास्फोतामूर्वाणां चाम्बुना पिबेत्||११०||

मधूलिका तुगाक्षीरी नागरं पिप्पली तथा|
उत्कारिका घृते सिद्धा श्वासे पित्तानुबन्धजे||१११||

श्वाविधं शशमांसं च शल्लकस्य च शोणितम्|
पिप्पलीघृतसिद्धानि श्वासे वातानुबन्धजे||११२||

सुवर्चलारसो दुग्धं घृतं त्रिकटुकान्वितम्|
शाल्योदनस्यानुपानं वातपित्तानुगे हितम्||११३||

शिरीषपुष्पस्वरसः सप्तपर्णस्य वा पुनः|
पिप्पलीमधुसंयुक्तः कफपित्तानुगे मतः||११४||

मधुकं पिप्पलीमूलं गुडो गोश्वशकृद्रसः |
घृतं क्षौद्रं कासश्वासहिक्काभिष्यन्दिनां शुभम्||११५||

खराश्वोष्ट्रवराहाणां मेषस्य च गजस्य च|
शकृद्रसं बहुकफे चैकैकं मधुना पिबेत्||११६||

क्षारं चाप्यश्वगन्धाया लिह्यान्ना क्षौद्रसर्पिषा|
मयूरपादनालं वा शकलं शल्लकस्य वा||११७||

श्वाविज्जाण्डकचाषाणां रोमाणि कुररस्य वा|
शृङ्ग्येकद्विशफानां वा चर्मास्थीनि खुरांस्तथा||११८||

सर्वाण्येकैकशो वाऽपि दग्ध्वा क्षौद्रघृतान्वितम्|
चूर्णं लीढ्वा जयेत् कासं हिक्कां श्वासं च दारुणम्||११९||

एते हि कफसंरुद्धगतिप्राणप्रकोपजाः |
तस्मात्तन्मार्गशुद्ध्यर्थं देया लेहा न निष्कफे||१२०||

श्लोक 121-122

कासिने च्छर्दनं दद्यात् स्वरभङ्गे च बुद्धिमान्|
वातश्लेष्महरैर्युक्तं तमके तु विरेचनम्||१२१||

उदीर्यते भृशतरं मार्गरोधाद्वहज्जलम्|
यथा तथाऽनिलस्तस्य मार्गं नित्यं विशोधयेत्||१२२||

श्लोक 123-124

शटीचोरकजीवन्तीत्वङ्मुस्तं पुष्कराह्वयम्|
सुरसं तामलक्येला पिप्पल्यगुरु नागरम्||१२३||

वालकं च समं चूर्णं कृत्वाऽष्टगुणशर्करम्|
सर्वथा तमके श्वासे हिक्कायां च प्रयोजयेत्||१२४||

श्लोक 125-128

मुक्ताप्रवालवैदूर्यशङ्खस्फटिकमञ्जनम्|
ससारगन्धकाचार्कसूक्ष्मैलालवणद्वयम् ||१२५||

ताम्रायोरजसी रूप्यं ससौगन्धिकसीसकम् |
जातीफलं शणाद्बीजमपामार्गस्य तण्डुलाः||१२६||

एषां पाणितलं चूर्णं तुल्यानां क्षौद्रसर्पिषा|
हिक्कां श्वासं च कासं च लीढमाशु नियच्छति||१२७||

अञ्जनात्तिमिरं काचं नीलिकां पुष्पकं तमः|
मल्यं कण्डूमभिष्यन्दमर्म चैव प्रणाशयेत्||१२८||
इति मुक्ताद्यं चूर्णम्|

श्लोक 129-134

शटीपुष्करमूलानां चूर्णमामलकस्य च|
मधुना संयुतं लेह्यं चूर्णं वा काललोहजम्||१२९||

सशर्करां तामलकीं द्राक्षां गोश्वशकृद्रसम्|
तुल्यं गुडं नागरं च प्राशयेन्नावयेत्तथा||१३०||

लशुनस्य पलाण्डोर्वा मूलं गृञ्जनकस्य वा|
नावयेच्चन्दनं वाऽपि नारीक्षीरेण संयुतम्||१३१||

सुखोष्णं घृतमण्डं वा सैन्धवेनावचूर्णितम्|
नावयेन्माक्षिकीं विष्ठामलक्तकरसेन वा||१३२||

नारीक्षीरेण सिद्धं वा सर्पिर्मधुरकैरपि|
पीतं नस्तो निषिक्तं वा सद्यो हिक्कां नियच्छति||१३३||

सकृदुष्णं सकृच्छीतं व्यत्यासाद्धिक्किनां पयः|
पाने नस्तःक्रियायां वा शर्करामधुसंयुतम्||१३४||

श्लोक 135-141

अधोभागैर्घृतं सिद्धं सद्यो हिक्कां नियच्छति|
पिप्पलीमधुयुक्तौ वा रसौ धात्रीकपित्थयोः||१३५||

लाजालाक्षामधुद्राक्षापिप्पल्यश्वशकृद्रसान्|
लिह्यात् कोलमधुद्राक्षापिप्पलीनागराणि वा||१३६||

शीताम्बुसेकः सहसा त्रासो विस्मापनं भयम्|
क्रोधहर्षप्रियोद्वेगा हिक्काप्रच्यावना मताः||१३७||

हिक्काश्वासविकाराणां निदानं यत् प्रकीर्तितम्|
वर्ज्यमारोग्यकामैस्तद्धिक्काश्वासविकारिभिः||१३८||

हिक्काश्वासानुबन्धा ये शुष्कोरःकण्ठतालुकाः|
प्रकृत्या रूक्षदेहाश्च सर्पिर्भिस्तानुपाचरेत्||१३९||

दशमूलरसे सर्पिर्दधिमण्डे च साधयेत्|
कृष्णासौवर्चलक्षारवयःस्थाहिङ्गुचोरकैः||१४०||

कायस्थया च तत् पानाद्धिक्काश्वासौ प्रणाशयेत्|१४१|

श्लोक 141-144

तेजोवत्यभया कुष्ठं पिप्पली कटुरोहिणी||१४१||

भूतीकं पौष्करं मूलं पलाशश्चित्रकः शटी|
सौवर्चलं तामलकी सैन्धवं बिल्वपेशिका||१४२||

तालीसपत्रं जीवन्ती वचा तैरक्षसम्मितैः|
हिङ्गुपादैर्घृतप्रस्थं पचेत्तोये चतुर्गुणे||१४३||

एतद्यथाबलं पीत्वा हिक्काश्वासौ जयेन्नरः|
शोथानिलार्शोग्रहणीहृत्पार्श्वरुज एव च||१४४||
इति तेजोवत्यादिघृतम्|

श्लोक 145-146

मनःशिलासर्जरसलाक्षारजनिपद्मकैः|
मञ्जिष्ठैलैश्च कर्षांशैः प्रस्थः सिद्धो घृताद्धितः||१४५||

जीवनीयोपसिद्धं वा सक्षौद्रं लेहयेद्धृतम्|
त्र्यूषणं दाधिकं वाऽपि पिबेद्वासाघृतं तथा||१४६||
इति मनःशिलादिघृतम्|

श्लोक 147-150

यत्किञ्चित् कफवातघ्नमुष्णं वातानुलोमनम्|
भेषजं पानमत्रं वा तद्धितं श्वासहिक्किने||१४७||

वातकृद्वा कफहरं कफकृद्वाऽनिलापहम्|
कार्यं नैकान्तिकं ताभ्यां प्रायः श्रेयोऽनिलापहम्||१४८||
सर्वेषां बृंहणे ह्यल्पः शक्यश्च प्रायशो भवेत्|
नात्यर्थं शमनेऽपायो भृशोऽशक्यश्च कर्शने||१४९||

तस्माच्छुद्धानशुद्धांश्च शमनैर्बृंहणैरपि|
हिक्काश्वासार्दिताञ्जन्तून् प्रायशः समुपाचरेत्||१५०||

श्लोक 151

तत्र श्लोकः-
दुर्जयत्वे समुत्पत्तौ क्रियैकत्वे च कारणम्|
लिङ्गं पथ्यं च हिक्कानां श्वासानां चेह दर्शितम्||१५१||

पुष्पिका

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसम्पूरिते चिकित्सास्थाने हिक्काश्वासचिकित्सितं नाम सप्तदशोऽध्यायः||१७||