हृद्रोगनिदानम्

श्लोक  1

हृद्रोगनिदानम्

अथ हृद्रोगनिदानम् |
अत्युष्णगुर्वन्नकषायतिक्तश्रमाभिघाताध्यशनप्रसङ्गैः |
सञ्चिन्तनैर्वेगविधारणैश्च हृदामयः पञ्चविधः प्रदिष्टः ||१||

श्लोक  2

हृद्रोगस्य सम्प्राप्तिपूर्वकं लक्षणम्

दूषयित्वा रसं दोषा विगुणा हृदयं गताः |
हृदि बाधां प्रकुर्वन्ति हृद्रोगं तं प्रचक्षते ||२||
(सु. उ. तं. अ. ४३) |

श्लोक  3

वातिकहृद्रोगलक्षणम्

आयम्यते मारुतजे हृदयं तुद्यते तथा |
निर्मथ्यते दीर्यते च स्फोट्यते पाट्यतेऽपि च ||३||
(सु. उ. तं. अ. ४३) |

श्लोक  4

पैत्तिकहृद्रोगलक्षणम्

तृष्णोष्मादाहचोषाः स्युः पैत्तिके हृदयक्लमः |
धूमायनं च मूर्छा च स्वेदः शोषो मुखस्य च ||४||
(सु. उ. तं. अ. ४३) |

श्लोक  5

श्लैष्मिकहृद्रोगलक्षणम्

गौरवं कफसंस्रावोऽरुचिः स्तम्भोऽग्निमार्दवम् |
माधुर्यमपि चास्यस्य बलासावतते हृदि ||५||
(सु. उ. तं. अ. ४३) |

श्लोक  6

सान्निपातिकहृद्रोगलक्षणं, क्रिमिजहृद्रोगलक्षणं च

विद्यात्त्रिदोषं त्वपि सर्वलिङ्गं तीव्रार्तितोदं क्रिमिजं सकण्डूम् |
(च. चि. अ. २६) |
उत्क्लेदः ष्ठीवनं तोदः शूलं हृल्लासकस्तमः |
अरुचिः श्यावनेत्रत्वं शोथश्च क्रिमिजे भवेत् ||६||
(सु. उ. तं. अ. ४३) |

श्लोक  7-8

हृद्रोगोपद्रवाः

मर्मैकदेशं सङ्क्लेदं रसश्चाप्युपगच्छति |
सङ्क्लेदात्कृमयश्चास्य भवन्त्युपहतात्मनः ||७||

क्लमः सादो भ्रमः शोषो ज्ञेयास्तेषामुपद्रवाः |
क्रिमिजे क्रिमिजातीनां श्लैष्मिकाणां च ये मताः ||८||

पुष्पिका

इति श्रीमाधवकरविरचिते माधवनिदाने हृद्रोगनिदानं समाप्तम् ||२९||
error: Content is protected !!