श्लोक 1-2
अथातो नवेगान्धारणीयमध्यायं व्याख्यास्यामः||१|| इति ह स्माह भगवानात्रेयः ||२||
श्लोक 3-4
न वेगान् धारयेद्धीमाञ्जातान् मूत्रपुरीषयोः ।
न रेतसो न वातस्य न छर्द्याः [१] क्षवथोर्न च||३|| नोद्गारस्य न जृम्भाया न वेगान् क्षुत्पिपासयोः।
न बाष्पस्य न निद्राया निःश्वासस्य श्रमेण च ||४||
श्लोक 5-24
एतान् धारयतो जातान् वेगान् रोगा भवन्ति ये । पृथक्पृथक्चिकित्सार्थं तान्मे निगदतः शृणु||५|| बस्तिमेहनयोः शूलं मूत्रकृच्छ्रं शिरोरुजा [१] | विनामो वङ्क्षणानाहः स्याल्लिङ्गं मूत्रनिग्रहे ||६||
स्वेदावगाहनाभ्यङ्गान् सर्पिषश्चावपीडकम् [२] | मूत्रे प्रतिहते कुर्यात्त्रिविधं बस्तिकर्म च||७|| पक्वाशयशिरःशूलं वातवर्चोऽप्रवर्तनम् [३] | पिण्डिकोद्वेष्टनाध्मानं पुरीषे स्याद्विधारिते||८||
स्वेदाभ्यङ्गावगाहाश्च वर्तयो बस्तिकर्म च । हितं प्रतिहते वर्चस्यन्नपानं प्रमाथि च||९|| मेद्रे वृषणयोः शूलमङ्गमर्दो हृदि व्यथा | भवेत् प्रतिहते शुक्रे विबद्धं मूत्रमेव च ||१०||
तत्राभ्यङ्गोऽवगाहश्च मदिरा चरणायुधाः । -शालिः पयो निरूहश्च शस्तं मैथुनमेव च ||११||
सङ्गो [४] विण्मूत्रवातानामाध्मानं वेदना क्लमः| जठरे वातजाश्चान्ये रोगाः स्युर्वातनिग्रहात्||१२||
स्नेहस्वेदविधिस्तत्र वर्तयो भोजनानि च | पानानि बस्तयश्चैव शस्तं वातानुलोमनम्||१३||
-कण्डूकोठारुचिव्यङ्गशोथपाण्ड्वामयज्वराः। कुष्ठहल्लासवीसर्पाश्छर्दिनिग्रहजा गदाः ||१४||
भुक्त्वा प्रच्छर्दनं धूमो लङ्घनं रक्तमोक्षणम्। रूक्षान्नपानं व्यायामो विरेकश्चात्र शस्यते||१५||
मन्यास्तम्भः शिरः शूलमर्दितार्धावभेदकौ । इन्द्रियाणां च दौर्बल्यं क्षवथोः स्याद्विधारणात्||१६||
तत्रोर्ध्वजत्रुकेऽभ्यङ्गः स्वेदो धूमः सनावनः । हितं वातघ्नमाद्यं च घृतं चौत्तरभक्तिकम्||१७||
हिक्का श्वासोऽरुचिः [५] कम्पो विबन्धो हृदयोरसोः | उद्गारनिग्रहात्तत्र हिक्कायास्तुल्यमौषधम्||१८||
विनामाक्षेपसङ्कोचाः सुप्तिः कम्पः प्रवेपनम् | जृम्भाया निग्रहात्तत्र सर्वं वातघ्नमौषधम्||१९||
-कार्श्यदौर्बल्यवैवर्ण्यमङ्गमर्दोऽरुचिर्भ्रमः | क्षुद्वेगनिग्रहात्तत्र स्निग्धोष्णं लघु भोजनम् ||२०||
कण्ठास्यशोषो बाधिर्यं श्रमः सादो [६] हृदि व्यथा | पिपासानिग्रहात्तत्र शीतं तर्पणमिष्यते||२१||
प्रतिश्यायोऽक्षिरोगश्च हृद्रोगश्चारुचिर्भ्रमः । बाष्पनिग्रहणात्तत्र [७] स्वप्नो मद्यं प्रियाः कथाः||२२||
जृम्भाऽङ्गमर्दस्तन्द्रा च शिरोरोगोऽक्षिगौरवम्।
निद्राविधारणात्तत्र स्वप्नः संवाहनानि च ||२३||
गुल्महृद्रोगसम्मोहाः श्रमनिःश्वासधारणात्।
-जायन्ते तत्र विश्रामो वातघ्न्यश्च क्रिया हिताः ||२४||
वेगनिग्रहजा रोगा य एते परिकीर्तिताः । इच्छंस्तेषामनुत्पत्तिं वेगानेतान्न धारयेत्||२५||
श्लोक 26
इमांस्तु धारयेद्वेगान् हितार्थी [१] प्रेत्य चेह च| साहसानामशस्तानां मनोवाक्कायकर्मणाम्||२६||
श्लोक 27
लोभशोकभयक्रोधमानवेगान् विधारयेत्।
नैर्लज्ज्येर्ष्यातिरागाणामभिध्यायाश्च बुद्धिमान् ||२७||
श्लोक 28
परुषस्यातिमात्रस्य सूचकस्यानृतस्य च। वाक्यस्याकालयुक्तस्य धारयेद्वेगमुत्थितम्||२८||
श्लोक 29
देहप्रवृत्तिर्या काचिद्विद्यते परपीडया | स्त्रीभोगस्तेयहिंसाद्या तस्यावेगान्विधारयेत् ||२९||
श्लोक 30
पुण्यशब्दो विपापत्वान्मनोवाक्कायकर्मणाम्| धर्मार्थकामान् पुरुषः सुखी भुङ्क्ते चिनोति च||३०||
श्लोक 31
शरीरचेष्टा या चेष्टा स्थैर्यार्था बलवर्धिनी| देहव्यायामसङ्ख्याता मात्रया तां समाचरेत्||३१||
श्लोक 32-33
लाघवं कर्मसामर्थ्यं स्थैर्यं दुःखसहिष्णुता [१] । दोषक्षयोऽग्निवृद्धिश्च व्यायामादुपजायते||३२||
श्रमः क्लमः क्षयस्तृष्णा रक्तपित्तं प्रतामकः। – अतिव्यायामतः कासो ज्वरश्छर्दिश्च जायते ||३३||
(स्वेदागमः [२] श्वासवृद्धिर्गात्राणां लाघवं तथा| हृदयाद्युपरोधश्च इति व्यायामलक्षणम्||१||)|
श्लोक 34
व्यायामहास्यभाष्याध्वग्राम्यधर्मप्रजागरान्। नोचितानपि सेवेत बुद्धिमानतिमात्रया||३४||
श्लोक 35
एतानेवंविधांश्चान्यान् योऽतिमात्रं निषेवते । गजं सिंह इवाकर्षन् सहसा स विनश्यति||३५||
(अतिव्यवायभाराध्वकर्मभिश्चातिकर्शिताः [१] | क्रोधशोकभयायासैः क्रान्ता ये चापि मानवाः ||१||
बालवृद्धप्रवाताश्च ये चोच्चैर्बहुभाषकाः ।
ते वर्जयेयुर्व्यायामं क्षुधितास्तृषिताश्च ये||२||)|
श्लोक 36-37
उचितादहिताद्धीमान् क्रमशो विरमेन्नरः । हितं क्रमेण सेवेत क्रमश्चात्रोपदिश्यते||३६||
प्रक्षेपापचये ताभ्यां क्रमः पादांशिको भवेत्। एकान्तरं ततश्चोर्ध्वं द्व्यन्तरं त्र्यन्तरं तथा||३७||
श्लोक 38
क्रमेणापचिता दोषाः क्रमेणोपचिता गुणाः।
सन्तो यान्त्यपुनर्भावमप्रकम्प्या भवन्ति च||३८||
श्लोक 39-40
समपित्तानिलकफाः केचिद्गर्भादि मानवाः। दृश्यन्ते वातलाः केचित्पित्तलाः श्लेष्मलास्तथा||३९||
तेषामनातुराः पूर्वे वातलाद्याः सदातुराः । दोषानुशयिता ह्येषां देहप्रकृतिरुच्यते||४०||
श्लोक 41
विपरीतगुणस्तेषां स्वस्थवृत्तेर्विधिर्हितः।
समसर्वरसं सात्म्यं समधातोः प्रशस्यते||४१||
श्लोक 42-43
द्वे अधः सप्त शिरसि खानि स्वेदमुखानि [१] च| मायनानि बाध्यन्ते दुष्टैर्मात्राधिकैर्मलैः||४२||
मलवृद्धिं गुरुतया लाघवान्मलसङ्क्षयम्। मलायनानां बुध्येत सङ्गोत्सर्गादतीव च||४३||
श्लोक 44
तान् दोषलिङ्गैरादिश्य व्याधीन् साध्यानुपाचरेत्। व्याधिहेतुप्रतिद्वन्द्वैर्मात्राकालौ विचारयन्||४४||
श्लोक 45-50
विषमस्वस्थवृत्तानामेते रोगास्तथाऽपरे। जायन्तेऽनातुरस्तस्मात् स्वस्थवृत्तपरो भवेत्||४५||
माधवप्रथमे मासि नभस्यप्रथमे पुनः । सहस्यप्रथमे चैव हारयेद्दोषसञ्चयम्||४६||
स्निग्धस्विन्नशरीराणामूर्ध्वं चाधश्च नित्यशः ।
बस्तिकर्म ततः कुर्यान्नस्यकर्म [१] च बुद्धिमान्||४७||
यथाक्रमं यथायोग्यमत ऊर्ध्वं प्रयोजयेत्। रसायनानि सिद्धानि वृष्ययोगांश्च कालवित्||४८||
रोगास्तथा न जायन्ते प्रकृतिस्थेषु धातुषु। धातवश्चाभिवर्धन्ते जरा मान्द्यमुपैति च||४९||
विधिरेष विकाराणामनुत्पत्तौ निदर्शितः। निजानामितरेषां तु पृथगेवोपदेक्ष्यते||५०||
श्लोक 51-52
ये भूतविषवाय्वग्निसम्प्रहारादिसम्भवाः । नृणामागन्तवो रोगाः प्रज्ञा तेष्वपराध्यति||५१||
ईर्ष्या शोकभयक्रोधमानद्वेषादयश्च ये । मनोविकारास्तेऽप्युक्ताः सर्वे प्रज्ञापराधजाः||५२||
श्लोक 53-54
त्यागः प्रज्ञापराधानामिन्द्रियोपशमः स्मृतिः। देशकालात्मविज्ञानं सद्वृत्तस्यानुवर्तनम्||५३||
आगन्तूनामनुत्पत्तावेष मार्गो निदर्शितः ।
प्राज्ञः प्रागेव तत् कुर्याद्धितं विद्याद्यदात्मनः ||५४||
श्लोक 55
आप्तोपदेशप्रज्ञानं [१] प्रतिपत्तिश्च कारणम्| विकाराणामनुत्पत्तावुत्पन्नानां च शान्तये||५५||
श्लोक 56-59
पापवृत्तवचःसत्त्वाः सूचकाः कलहप्रियाः। मर्मोपहासिनो लुब्धाः परवृद्धिद्विषः शठाः||५६||
परापवादरतयश्चपला [१] रिपुसेविनः। निर्घृणास्त्यक्तधर्माणः परिवर्ज्या नराधमाः||५७||
बुद्धिविद्यावयःशीलधैर्यस्मृतिसमाधिभिः। वृद्धोपसेविनो वृद्धाः स्वभावज्ञा गतव्यथाः||५८||
सुमुखाः सर्वभूतानां प्रशान्ताः शंसितव्रताः| सेव्याः सन्मार्गवक्तारः पुण्यश्रवणदर्शनाः ||५९||
श्लोक 60
आहाराचारचेष्टासु सुखार्थी प्रेत्य चेह च ।
परं प्रयत्नमातिष्ठेद्बुद्धिमान् हितसेवने||६०||
श्लोक 61-62
न नक्तं दधि भुञ्जीत न चाप्यघृतशर्करम् । नामुद्गयूषं नाक्षौद्रं नोष्णं नामलकैर्विना [१] ||६१||
ज्वरासृक्पित्तवीसर्पकुष्ठपाण्ड्वामयभ्रमान्।
प्राप्नुयात्कामलां चोग्रां विधिं हित्वा दधिप्रियः ||६२||
श्लोक 63-66
तत्र श्लोका:-
वेगा वेगसमुत्थाश्च रोगास्तेषां च भेषजम्। येषां वेगा विधार्याश्च यदर्थं यद्धिताहितम्||६३||
उचिते चाहिते वर्ज्ये सेव्ये चानुचिते क्रमः । यथाप्रकृति चाहारो मलायनगदौषधम्||६४||
भविष्यतामनुत्पत्तौ रोगाणामौषधं च यत् । वर्ज्याः सेव्याश्च पुरुषा धीमताऽऽत्मसुखार्थिना||६५||
विधिना दधि सेव्यं च येन यस्मात्तदत्रिजः | नवेगान्धारणेऽध्याये सर्वमेवावदन्मुनिः||६६||
पुष्पिका
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने नवेगान्धारणीयो नाम सप्तमोऽध्यायः||७||