खुड्डाकचतुष्पादोऽध्यायः

श्लोक 1-2

अथातः खुड्डाकचतुष्पादमध्यायं व्याख्यास्यामः ||१||

इति ह स्माह भगवानात्रेयः||२||

श्लोक 3

भिषग्द्रव्याण्युपस्थाता रोगी पादचतुष्टयम्। गुणवत् कारणं ज्ञेयं विकारव्युपशान्तये||३||

श्लोक 4

विकारो धातुवैषम्यं, साम्यं प्रकृतिरुच्यते । सुखसञ्ज्ञकमारोग्यं, विकारो दुःखमेव च ||४||

श्लोक 5

चतुर्णां भिषगादीनां शस्तानां धातुवैकृते । प्रवृत्तिर्धातुसाम्यार्था चिकित्सेत्यभिधीयते||५||

श्लोक 6

श्रुते पर्यवदातत्वं बहुशो दृष्टकर्मता|
दाक्ष्यं शौचमिति ज्ञेयं वैद्ये गुणचतुष्टयम् ||६||

श्लोक 7

बहुता तत्र योग्यत्वमनेकविधकल्पना|
सम्पच्चेति चतुष्कोऽयं द्रव्याणां गुण उच्यते ||७||

श्लोक 8

उपचारज्ञता दाक्ष्यमनुरागश्च भर्तरि |
शौचं चेति चतुष्कोऽयं गुणः परिचरे जने ||८||

श्लोक 9

स्मृतिर्निर्देशकारित्वमभीरुत्वमथापि च।
ज्ञापकत्वं च रोगाणामातुरस्य गुणाः स्मृताः||९||

श्लोक 10

कारणं षोडशगुणं सिद्धौ पादचतुष्टयम्।
विज्ञाता शासिता योक्ता प्रधानं भिषगत्र तु||१०||

श्लोक 11-12

पक्तौ हि कारणं पक्तुर्यथा पात्रेन्धनानलाः। विजेतुर्विजये भूमिश्चमूः प्रहरणानि च||११||
आतुराद्यास्तथा सिद्धौ पादाः कारणसञ्ज्ञिताः । वैद्यस्यातश्चिकित्सायां प्रधानं कारणं भिषक् || १२ ||

श्लोक 13

मृद्दण्डचक्रसूत्राद्याः कुम्भकारादृते यथा।
नावहन्ति गुणं वैद्यादृते पादत्रयं तथा||१३||

श्लोक 14-15

गन्धर्वपुरवन्नाशं यद्विकाराः सुदारुणाः। यान्ति यच्चेतरे वृद्धिमाशूपायप्रतीक्षिणः ||१४||
सति पादत्रये ज्ञाज्ञौ भिषजावत्र कारणम्|१५|

श्लोक 15-16

वरमात्मा हुतोऽज्ञेन न चिकित्सा प्रवर्तिता ||१५||
पाणिचाराद्यथाऽचक्षुरज्ञानाद्भीतभीतवत्। नौर्मारुतवशेवाज्ञो भिषक् चरति कर्मसु || १६ ||

श्लोक 17

यदृच्छया समापन्नमुत्तार्य नियतायुषम्। भिषङ्गानी निहन्त्याशु शतान्यनियतायुषाम्||१७||

श्लोक 18

तस्माच्छास्त्रेऽर्थविज्ञाने प्रवृत्तौ कर्मदर्शने ।
भिषक् चतुष्टये युक्तः प्राणाभिसर उच्यते||१८||

श्लोक 19-23

हेतौ लिङ्गे प्रशमने रोगाणामपुनर्भवे।
ज्ञानं चतुर्विधं यस्य स राजार्हो भिषक्तमः||१९||
-शस्त्रं शास्त्राणि सलिलं गुणदोषप्रवृत्तये । पात्रापेक्षीण्यतः प्रज्ञां चिकित्सार्थं विशोधयेत्||२०||
विद्या वितर्को विज्ञानं स्मृतिस्तत्परता क्रिया| यस्यैते षड्गुणास्तस्य न साध्यमतिवर्तते||२१|| विद्या मतिः कर्मदृष्टिरभ्यासः सिद्धिराश्रयः। वैद्यशब्दाभिनिष्पत्तावलमेकैकमप्यतः||२२||
यस्य त्वेते गुणाः सर्वे सन्ति विद्यादयः शुभाः। स वैद्यशब्दं सद्भूतमर्हन् [१] प्राणिसुखप्रदः ||२३||

श्लोक 24-25

शास्त्रं ज्योतिः प्रकाशार्थं दर्शनं बुद्धिरात्मनः। ताभ्यां भिषक् सुयुक्ताभ्यां चिकित्सन्नापराध्यति||२४||
चिकित्सिते त्रयः पादा यस्माद्वैद्यव्यपाश्रयः| तस्मात् प्रयत्नमातिष्ठेद्भिषक् स्वगुणसम्पदि ||२५||

श्लोक 26

मैत्री कारुण्यमार्तेषु शक्ये प्रीतिरुपेक्षणम्। प्रकृतिस्थेषु भूतेषु वैद्यवृत्तिश्चतुर्विधेति||२६||

श्लोक 27-28

तत्र श्लोकौ-
भिषग्जितं चतुष्पादं पादः पादश्चतुर्गुणः।
भिषक् प्रधानं पादेभ्यो यस्माद्वैद्यस्तु यद्गुणः||२७||
ज्ञानानि बुद्धिर्ब्राह्मीच भिषजां या चतुर्विधा | सर्वमेतच्चतुष्पादे खुड्डाके सम्प्रकाशितमिति||२८||

पुष्पिका

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने खुड्डाकचतुष्पादो नाम नवमोऽध्यायः ||९||