वातकलाकलीयोऽध्यायः

श्लोक 1-2

अथातो वातकलाकलीयमध्यायं व्याख्यास्यामः ||१||
इति ह स्माह भगवानात्रेयः||२||

श्लोक 3

वातकलाकलाज्ञानमधिकृत्य परस्परमतानि जिज्ञासमानाः समुपविश्य महर्षयः पप्रच्छुरन्योऽन्यं – किङ्गुणो वायुः, किमस्य प्रकोपणम्, उपशमनानि वाऽस्य कानि, कथं चैनमसङ्घातवन्तमनवस्थितमनासाद्य प्रकोपणप्रशमनानि प्रकोपयन्ति प्रशमयन्ति वा, कानि चास्य कुपिताकुपितस्य शरीराशरीरचरस्य शरीरेषु चरतः कर्माणि
बहिःशरीरेभ्योवेति||३||

श्लोक 4

अत्रोवाच कुशः साङ्कृत्यायनः- रूक्षलघुशीतदारुणखरविशदाः षडिमे वातगुणा भवन्ति||४||

श्लोक 5

तच्छ्रुत्वा वाक्यं कुमारशिरा भरद्वाज उवाच – एवमेतद्यथा भगवानाह, एत एव वातगुणा भवन्ति, स त्वेवङ्गुणैरेवन्द्रव्यैरेवम्प्रभावैश्च कर्मभिरभ्यस्यमानैर्वायुः प्रकोपमापद्यते, समानगुणाभ्यासो हि धातूनां वृद्धिकारणमिति||५||

श्लोक 6-7

तच्छ्रुत्वा वाक्य काङ्कायना बाह्लीकाभषगुवाच- एवमेतद्यथा भगवानाह, एतान्येव वातप्रकोपणानि भवन्ति; अतो विपरीतानि वातस्य प्रशमनानि भवन्ति, प्रकोपणविपर्ययो हि धातूनां प्रशमकारणमिति||६||
तच्छ्रुत्वा वाक्यं बडिशो धामार्गव उवाच – एवमेतद्यथा भगवानाह, एतान्येव वातप्रकोपप्रशमनानि भवन्ति| यथा ह्येनमसङ्घातमनवस्थितमनासाद्य प्रकोपणप्रशमनानि प्रकोपयन्ति प्रशमयन्ति वा, तथाऽनुव्याख्यास्यामः- वातप्रकोपणानि खलु रूक्षलघुशीतदारुणखरविशदशुषिरकराणि शरीराणां, तथाविधेषु शरीरेषु वायुराश्रयं गत्वाऽऽप्यायमानः प्रकोपमापद्यते; वातप्रशमनानि पुनः स्निग्धगुरूष्णश्लक्ष्णमृदुपिच्छिलघनकराणि शरीराणां, तथाविधेषु शरीरेषु वायुरसज्यमानश्चरन् प्रशान्तिमापद्यते||७||

श्लोक 8

तच्छ्रुत्वा बडिशवचनमवितथमृषिगणैरनुमतमुवाच वायविदो -राजर्षिः एवमेतत् सर्वमनपवादं यथा भगवानाह ।
यानि तु खलु वायोः कुपिताकुपितस्य शरीराशरीरचरस्य शरीरेषु चरतः कर्माणि बहिः शरीरेभ्यो वा भवन्ति तेषामवयवान् प्रत्यक्षानुमानोपदेशैः साधयित्वा नमस्कृत्य वायवे यथाशक्ति प्रवक्ष्यामः- वायुस्तन्त्रयन्त्रधरः, प्राणोदानसमानव्यानापानात्मा, प्रवर्तकश्चेष्टानामुच्चावचानां, नियन्ता प्रणेता च मनसः, सर्वेन्द्रियाणामुद्योजकः, सर्वेन्द्रियार्थानामभिवोढा, -सर्वशरीरधातुव्यूहकरः, सन्धानकरः शरीरस्य प्रवर्तको वाचः, प्रकृतिः स्पर्शशब्दयोः, श्रोत्रस्पर्शनयोर्मूलं, हर्षोत्साहयोयनिः, समीरणोऽग्नेः, दोषसंशोषणः [१], क्षेप्ता बहिर्मलानां, स्थूलाणुस्रोतसां भेत्ता, कर्तागर्भाकृतीनाम्, आयुषोऽनुवृत्तिप्रत्ययभूतो भवत्यकुपितः ।
कुपितस्तु खलु शरीरे शरीरं नानाविधैर्विकारैरुपतपति बलवर्णसुखायुषामुपघाताय [२] मनो व्याहर्षयति [३], सर्वेन्द्रियाण्युपहन्ति, विनिहन्ति गर्भान् विकृतिमापादयत्यतिकालं वा धारयति, भयशोकमोहदैन्यातिप्रलापाञ्जनयति, प्राणांश्चोपरुणद्धि। प्रकृतिभूतस्य खल्वस्य लोके चरतः कर्माणीमानि भवन्ति तद्यथा- धरणीधारणं, ज्वलनोज्ज्चालनम्, आदित्यचन्द्रनक्षत्रग्रहगणानां सन्तानगतिविधानं, सृष्टिश्च मेघानाम्, अपां विसर्गः, प्रवर्तनं स्रोतसां, पुष्पफलानां चाभिनिर्वर्तनम् उद्भेदनं चौद्भिदानाम्, ऋतूनां प्रविभागः, विभागो धातूनां धातुमानसंस्थानव्यक्तिः, बीजाभिसंस्कारः, शस्याभिवर्धनमविक्लेदोपशोषणे [४], -अवैकारिकविकारश्चेति।
प्रकुपितस्य खल्वस्य लोकेषु चरतः कर्माणीमानि भवन्ति तद्यथा- शिखरिशिखरावमथनम्, उन्मथनमनोकहानाम्, उत्पीडनं सागराणाम्, उद्वर्तनं सरसां, प्रतिसरणमापगानाम्, आकम्पनं च भूमेः, आधमनमम्बुदानां [५] नीहारनिर्ह्रादपांशुसिकतामत्स्यभेकोरगक्षाररुधिराश्माशनिविसर्गः, व्यापादनं च षण्णामृतूनां शस्यानामसङ्घातः, भूतानां चोपसर्गः, भावानां चाभावकरणं, चतुर्युगान्तकराणां मेघसूर्यानलानिलानां विसर्गः स हि भगवान् प्रभवश्चाव्ययश्च भूतानां भावाभावकरः, -सुखासुखयोर्विधाता, मृत्युः, यमः, नियन्ता, प्रजापतिः, अदितिः, विश्वकर्मा, विश्वरूपः सर्वगः सर्वतन्त्राणां विधाता, भावानामणुः, विभुः, विष्णुः क्रान्ता लोकानां वायुरेव भगवानिति ||८||

श्लोक 9-10

तच्छ्रुत्वा वार्योविदवचो मरीचिरुवाच यद्यप्येवमेतत्, किमर्थस्यास्य वचने विज्ञाने वा सामर्थ्यमस्ति [१] भिषग्विद्यायां; भिषग्विद्यामधिकृत्येयं कथा प्रवृत्तेति [२] ||९||
वार्योविद उवाच – भिषक् पवनमतिबलमतिपरुषमतिशीघ्रकारिणमात्ययिकं चेन्नानुनिशम्येत्, सहसा प्रकुपितमतिप्रयतः कथमग्रेऽभिरक्षितुमभिधास्यति प्रागेवैनमत्ययभयात्; वायोर्यथार्था स्तुतिरपि भवत्यारोग्याय बलवर्णविवृद्धये वर्चस्वित्वायोपचयाय ज्ञानोपपत्तये परमायुःप्रकर्षाय चेति||१०||

श्लोक 11

मरीचिरुवाच- अग्निरेव शरीरे पित्तान्तर्गतः कुपिताकुपितः शुभाशुभानि करोति; तद्यथा- पक्तिमपक्तिं दर्शनमदर्शनं मात्रामात्रत्वमूष्मणः प्रकृतिविकृतिवर्णी शौर्यं भयं क्रोधं हर्षं मोहं प्रसादमित्येवमादीनि चापराणि द्वन्द्वानीति||११||

श्लोक 12

तच्छ्रुत्वा मरीचिवचः काप्य उवाच- सोम एव शरीरे श्लेष्मान्तर्गतः कुपिताकुपितः शुभाशुभानि करोति; तद्यथा- दाढर्यं शैथिल्यमुपचयं कार्श्यमुत्साहमालस्यं वृषतां क्लीबतां ज्ञानमज्ञानं बुद्धिं मोहमेवमादीनि चापराणि द्वन्द्वानीति||१२||

श्लोक 13-15

तच्छ्रुत्वा काप्यवचो भगवान् पुनर्वसुरात्रेय उवाच- सर्व एव भवन्तः सम्यगाहुरन्यत्रैकान्तिकवचनात्; सर्व एव खलु वातपित्तश्लेष्माणः प्रकृतिभूताः पुरुषमव्यापन्नेन्द्रियं बलवर्णसुखोपपन्नमायुषा महतोपपादयन्ति सम्यगेवाचरिता धर्मार्थकामा इव निःश्रेयसेन महता पुरुषमिह चामुष्मिंश्च लोके; विकृतास्त्वेनं महता विपर्ययेणोपपादयन्ति ऋतवस्त्रय इव विकृतिमापन्ना लोकमशुभेनोपघातकाल इति||१३||
तदृषयः सर्व एवानुमेनिरे वचनमात्रेयस्य भगवतोऽभिननन्दुश्चेति||१४||
भवति चात्र-
तदात्रेयवचः श्रुत्वा सर्व एवानुमेनिरे ।
ऋषयोऽभिननन्दुश्च यथेन्द्रवचनं सुराः || १५||

श्लोक 16-17

तत्र श्लोकौ-
गुणाः षड् द्विविधो हेतुर्विविधं कर्म यत् पुनः | वायोश्चतुर्विधं कर्म पृथक् च कफपित्तयोः||१६||
महर्षीणां मतिर्या या पुनर्वसुमतिश्च या । कलाकलीये वातस्य तत् सर्वं सम्प्रकाशितम्||१७||

पुष्पिका

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने वातकलाकलीयो नाम द्वादशोऽध्यायः समाप्तः || १२ ||
इति निर्देशचतुष्कः ||३||