त्रिशोथीयोऽध्यायः

श्लोक 1-2

अथातस्त्रिशोथीयमध्यायं व्याख्यास्यामः ||१||
इति ह स्माह भगवानात्रेयः||२||

श्लोक 3

त्रयः शोथा भवन्ति वातपित्तश्लेष्मनिमित्ताः, ते पुनर्द्विविधा निजागन्तुभेदेन||३||

श्लोक 4

तत्रागन्तवश्छेदनभेदनक्षणनभञ्जनपिच्छनोत्पेषणप्रहारवधबन्धनवेष्टनव्यधनपीडनादिभिर्वा
भल्लातकपुष्पफलरसात्मगुप्ताशूकक्रिमिशूकाहितपत्रलतागुल्मसंस्पर्शनैर्वा
स्वेदनपरिसर्पणावमूत्रणैर्वा विषिणां विषप्राणिदंष्ट्रादन्तविषाणनखनिपातैर्वा सागरविषवातहिमदहनसंस्पर्शनैर्वा शोथाः समुपजायन्ते ||४||

श्लोक 5

ते पुनर्यथास्वं हेतुव्यञ्जनैरादावुपलभ्यन्ते निजव्यञ्जनैकदेशविपरीतैः;
बन्धमन्त्रागदप्रलेपप्रतापनिर्वापणादिभिश्चोपक्रमैरुपक्रम्य-
-माणाः प्रशान्तिमापद्यन्ते||५||

श्लोक 6

निजाः पुनः
स्नेहस्वेदवमनविरेचनास्थापनानुवासनशिरोविरेचनानामय
थावत्प्रयोगान्मिथ्यासंसर्जनाद्वा
छर्द्यलसकविसूचिकाश्वासकासातिसारशोषपाण्डुरोगोदर ज्वरप्रदरभगन्दरार्शोविकारातिकर्शनैर्वा
कुष्ठकण्डूपिडकादिभिर्वा छर्दिक्षवथूद्गारशुक्रवातमूत्रपुरीषवेगधारणैर्वा कर्मरोगोपवासाध्वकर्शितस्य वा सहसाऽतिगुर्वम्ललवणपिष्टान्नफलशाकरागदधिहरितकम द्यमन्दकविरूढनवशूकशमीधान्यानूपौदक- पिशितोपयोगान्मृत्पङ्कलोष्टभक्षणाल्लवणातिभक्षणाद्गर्भ सम्पीडनादामगर्भप्रपतनात् प्रजातानां च मिथ्योपचारादुदीर्णदोषत्वाच्च शोफाः प्रादुर्भवन्ति; इत्युक्तः सामान्यो हेतुः ||६||

श्लोक 7-8

अयं त्वत्र विशेष:-
शीतरूक्षलघुविशदश्रमोपवासातिकर्शनक्षपणादिभिर्वायुः [१] प्रकुपितस्त्वमांसशोणितादीन्यभिभूय शोफं जनयति; स क्षिप्रोत्थानप्रशमो भवति, तथा श्यामारुणवर्णः प्रकृतिवर्णों वा, चलः स्पन्दनः खरपरुषभिन्नत्वग्रोमा छिद्यत इव भिद्यत इव पीड्यत इव सूचीभिरिव तुद्यते पिपीलिकाभिरिव संसृप्यते सर्षपकल्कावलिप्त इव चिमिचिमायते सङ्कुच्यत आयम्यत इवेति वातशोथ: (१);
उष्णतीक्ष्णकटुकक्षारलवणाम्लाजीर्णभोजनैरग्न्यातपप्रतापैश्च पित्तं प्रकुपितं त्वङ्गांसशोणितान्यभिभूय शोथं जनयति; स क्षिप्रोत्थानप्रशमो भवति, कृष्णपीतनीलताम्रावभास उष्णो मृदुः कपिलताम्ररोमा [२] उष्यते दूयते धूप्यते ऊष्मायते स्विद्यते क्लिद्यते न च स्पर्शमुष्णं च सुषूयत [३] इति पित्तशोथ: (२);
गुरुमधुरशीतस्निग्धैरतिस्वप्नाव्यायामादिभिश्च श्लेष्मा प्रकुपितस्त्वमांसशोणितादीन्यभिभूय शोथं जनयति; स
कृच्छ्रोत्थानप्रशमो भवति, पाण्डुश्वेतावभासो गुरुः स्निग्धः श्लक्ष्णः स्थिरः स्त्यानः शुक्लाग्ररोमा स्पर्शोष्णसहश्चेति श्लेष्मशोथ (३);
यथास्वकारणाकृतिसंसर्गाद्द्विदोषजास्त्रयः शोथा भवन्ति; यथास्वकारणाकृतिसन्निपातात् सान्निपातिक एकः; एवं [४] सप्तविधो भेदः||७||
प्रकृतिभिस्ताभिस्ताभिर्भिद्यमानो [५] द्विविधस्त्रिविधश्चतुर्विधः सप्तविधोऽष्टविधश्च शोथ उपलभ्यते, पुनश्चैक [६] एवोत्सेधसामान्यात्||८||

श्लोक 9-15

भवन्ति चात्र-
शूयन्ते यस्य गात्राणि स्वपन्तीव [१] रुजन्ति च| पीडितान्युन्नमन्त्याशु वातशोथं तमादिशेत्||९||
यश्चाप्यरुणवर्णाभः शोथो नक्तं प्रणश्यति | स्नेहोष्णमर्दनाभ्यां च प्रणश्येत् स च वातिकः||१०||
यः पिपासाज्वरार्तस्य दूयतेऽथ विदह्यते । स्विद्यति क्लिद्यते गन्धी स पैत्तः स्वयथुः स्मृतः ||११||
यः पीतनेत्रवक्त्रत्वक् [२] पूर्वं मध्यात् प्रशूयते। तनुत्वक् चातिसारी च पित्तशोथः स उच्यते ||१२||
शीतः [३] सक्तगतिर्यस्तु कण्डूमान् पाण्डुरेव च| निपीडितो नोन्नमति [४] श्वयथुः स कफात्मकः ||१३||
यस्य शस्त्रकुशच्छिन्नाच्छोणितं [५] न प्रवर्तते| कृच्छ्रेण पिच्छा स्रवति स चापि कफसम्भवः ||१४||
निदानाकृतिसंसर्गाच्छ्वयथुः स्याद्द्विदोषजः। सर्वाकृतिः सन्निपाताच्छोथो व्यामिश्रहेतुजः||१५||

श्लोक 16-17

यस्तु पादाभिनिर्वृत्तः शोथः सर्वाङ्गगो भवेत्।
जन्तोः स च सुकष्टः स्यात् प्रसृतः स्त्रीमुखाच्च यः||१६||
यश्चापि गुह्यप्रभवः स्त्रिया वा पुरुषस्य वा ।
स च कष्टतमो ज्ञेयो यस्य च स्युरुपद्रवाः||१७||

श्लोक 18

छर्दिः श्वासोऽरुचिस्तृष्णा ज्वरोऽतीसार एव च| सप्तकोऽयं सदौर्बल्यः शोफोपद्रवसङ्ग्रहः||१८||

श्लोक 19-36

यस्य श्लेष्मा प्रकुपितो जिह्वामूलेऽवतिष्ठते। आशु सञ्जनयेच्छोथं [१] जायतेऽस्योपजिह्विका||१९||
न्यस्य श्लेष्मा प्रकुपितः काकले व्यवतिष्ठते।
आशु सञ्जनयेच्छोफं [२] करोति गलशुण्डिकाम् ||२०||
यस्य श्लेष्मा प्रकुपितो गलबाह्येऽवतिष्ठते ।
-शनैः सञ्जनयेच्छोफं [३] गलगण्डोऽस्य जायते ||२१||
यस्य श्लेष्मा प्रकुपितस्तिष्ठत्यन्तर्गले स्थिरः। आशु सञ्जनयेच्छोफं [४] जायतेऽस्य गलग्रहः||२२||
न्यस्य पित्तं प्रकुपितं सरक्तं त्वचि सर्पति।
शोफं सरागं जनयेद्विसर्पस्तस्य [५] जायते ||२३||
न्यस्य पित्तं प्रकुपितं त्वचि रक्तेऽवतिष्ठते ।
शोधं सरागं जनयेत् [६] पिडका तस्य जायते ||२४||
न्यस्य प्रकुपितं पित्तं शोणितं प्राप्य शुष्यति । तिलका पिप्लवो व्यङ्गा नीलिका तस्य जायते||२५||
यस्य पित्तं प्रकुपितं शङ्खयोरवतिष्ठते। श्वयथुः शङ्खको नाम दारुणस्तस्य जायते ||२६||
यस्य पित्तं प्रकुपितं कर्णमूलेऽवतिष्ठते ।
ज्वरान्ते दुर्जयोऽन्ताय शोथस्तस्योपजायते ||२७||
वातः प्लीहानमुद्धूय कुपितो यस्य तिष्ठति । -शनैः परितुदन् [७] पार्श्व प्लीहा तस्याभिवर्धते ||२८||
न्यस्य वायुः प्रकुपितो गुल्मस्थानेऽवतिष्ठते । शोफं सशूलं जनयन् गुल्मस्तस्योपजायते||२९||
यस्य वायुः प्रकुपितः शोफशूलकरश्चरन् वक्षणाद्वृषणी याति वृद्धिस्तस्योपजायते||३०||
यस्य वातः प्रकुपितस्त्वङ्गांसान्तरमाश्रितः। शोधं सञ्जनयेत् कुक्षावुदरं तस्य जायते ||३१||
न्यस्य वातः प्रकुपितः कुक्षिमाश्रित्य तिष्ठति । -नाथो व्रजति नाप्यूर्ध्वमानाहस्तस्य जायते ||३२||
रोगाश्चोत्सेधसामान्यदधिमांसार्बुदादयः ।
विशिष्टा नामरूपाभ्यां निर्देश्याः शोधसङ्ग्रहे ||३३||
वातपित्तकफा यस्य युगपत् कुपितास्त्रयः । जिह्वामूलेऽवतिष्ठन्ते विदहन्तः समुच्छ्रिताः ||३४||
जनयन्ति भृशं शोध वेदनाश्च पृथग्विधाः ।
-तं शीघ्रकारिणं रोगं रोहिणीति विनिर्दिशेत् ||३५||
त्रिरात्रं परमं तस्य जन्तोर्भवति जीवितम्| कुशलेन त्वनुक्रान्तः [८] क्षिप्रं सम्पद्यते सुखी ||३६||

श्लोक 37-41

सन्ति ह्येवंविधा रोगाः साध्या दारुणसम्मताः | ये हन्युरनुपक्रान्ता मिथ्याचारेण [१] वा पुनः||३७||
साध्याश्चाप्यपरे [२] सन्ति व्याधयो मृदुसम्मताः । यत्नायत्नकृतं येषु कर्म सिध्यत्यसंशयम्||३८||
असाध्याश्चापरे सन्ति व्याधयो याप्यसञ्ज्ञिताः| सुसाध्वपि कृतं येषु कर्म यात्राकरं भवेत्||३९||
सन्ति चाप्यपरे रोगा येषु कर्म न सिध्यति। अपि यत्नकृतं बालैर्न तान् विद्वानुपाचरेत्||४०||
साध्याश्चैवाप्यसाध्याश्च व्याधयो द्विविधाः स्मृताः । मृदुदारुणभेदेन ते भवन्ति चतुर्विधाः||४१||

श्लोक 42-43

त एवापरिसङ्ख्येया भिद्यमाना भवन्ति हि। रुजावर्णसमुत्थानस्थानसंस्थाननामभिः [१] ||४२||
व्यवस्थाकरणं [२] तेषां यथास्थूलेषु सङ्ग्रहः। तथा प्रकृतिसामान्यं विकारेषूपदिश्यते||४३||

श्लोक 44-47

विकारनामाकुशलो न जिह्रीयात् कदाचन | न हि सर्वविकाराणां नामतोऽस्ति ध्रुवा स्थितिः||४४||
स एव कुपितो दोषः समुत्थानविशेषतः। स्थानान्तरगतश्चैव जनयत्यामयान् बहून् [१] ||४५||
तस्माद्विकारप्रकृतीरधिष्ठानान्तराणि च। समुत्थानविशेषांश्च बुद्ध्वा कर्म समाचरेत्||४६||
यो ह्येतत्रितयं ज्ञात्वा कर्माण्यारभते भिषक् । ज्ञानपूर्वं यथान्यायं [२] स कर्मसु न मुह्यति||४७||

श्लोक 48

नित्याः प्राणभृतां देहे वातपित्तकफास्त्रयः।
विकृताः प्रकृतिस्था वा तान् बुभुत्सेत पण्डितः||४८||

श्लोक 49-51

उत्साहोच्छवासनिः श्वासचेष्टा धातुगतिः समा | समो मोक्षो गतिमतां वायोः कर्माविकारजम्||४९||
दर्शनं पक्तिरूष्मा च क्षुत्तृष्णा देहमार्दवम् | प्रभा प्रसादो मेधा च पित्तकर्माविकारजम् ||५०||
स्नेहो बन्धः स्थिरत्वं च गौरवं वृषता बलम्। क्षमा धृतिरलोभश्च कफकर्माविकारजम्||५१||

श्लोक 52

वाते पित्ते कफे चैव क्षीणे लक्षणमुच्यते।
कर्मणः प्राकृताद्धानिर्वृद्धिर्वाऽपि विरोधिनाम् ||५२||

श्लोक 53

दोषप्रकृतिवैशेष्यं नियतं वृद्धिलक्षणम्।
दोषाणां प्रकृतिर्हानिर्वृद्धिश्चैवं परीक्ष्यते || ५३||

श्लोक 54-56

तत्र श्लोका:-
सङ्ख्यां निमित्तं रूपाणि शोथानां साध्यतां न च| तेषां तेषां विकाराणां शोथांस्तांस्तांश्च पूर्वजान्||५४||
विधिभेदं विकाराणां त्रिविधं बोध्यसङ्ग्रहम्।
प्राकृतं कर्म दोषाणां लक्षणं हानिवृद्धिषु||५५||
वीतमोहरजोदोषलोभमानमदस्पृहः।
व्याख्यातवांस्त्रिशोथीये रोगाध्याये पुनर्वसुः ||५६||

पुष्पिका

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने त्रिशोथीयो नामाष्टादशोऽध्यायः||१८||