श्लोक 1-2
अथातः सन्तर्पणीयमध्यायं व्याख्यास्यामः ||१||
इति ह स्माह भगवानात्रेयः||२||
श्लोक 3-7
सन्तर्पयति यः स्निग्धैर्मधुरैर्गुरुपिच्छिलैः। नवान्नैर्नवमद्यैश्च मांसैश्चानूपवारिजैः||३||
गोरसैर्गौडिकैश्चान्नैः [१] पैष्टिकैश्चातिमात्रशः| चेष्टाद्वेषी दिवास्वप्नशय्यासनसुखे रतः||४||
रोगास्तस्योपजायन्ते सन्तर्पणनिमित्तजाः।
प्रमेहपिडकाकोठकण्डूपाण्ड्वामयज्वराः||५||
कुष्ठान्यामप्रदोषाश्च मूत्रकृच्छ्रमरोचकः। तन्द्रा क्लैब्यमतिस्थौल्यमालस्यं गुरुगात्रता||६||
इन्द्रियस्रोतसां लेपो बुद्धेर्मोहः प्रमीलकः । शोफाश्चैवंविधाश्चान्ये शीघ्रमप्रतिकुर्वतः||७||
श्लोक 8-26
शस्तमुल्लेखनं तत्र विरेको रक्तमोक्षणम्। व्यायामश्चोपवासश्च धूमाश्च स्वेदनानि च||८||
सक्षौद्रश्चाभयाप्राशः प्रायो रूक्षान्नसेवनम्। चूर्णप्रदेहा ये चोक्ताः कण्डूकोठविनाशनाः||९||
त्रिफलारग्वधं पाठां सप्तपर्णं सवत्सकम्। मुस्तं समदनं निम्बं जलेनोत्क्वथितं पिबेत्||१०||
तेन मेहादयो यान्ति नाशमभ्यस्यतो ध्रुवम्। मात्राकालप्रयुक्तेन सन्तर्पणसमुत्थिताः||११||
मुस्तमारग्वधः पाठा त्रिफला देवदारु च| श्वदंष्ट्रा खदिरो निम्बो हरिद्रे त्वक्च वत्सकात् ||१२||
रसमेषां यथादोषं प्रातः प्रातः पिबन्नरः । सन्तर्पणकृतैः सर्वैर्व्याधिभिः सम्प्रमुच्यते||१३||
एभिश्चोद्वर्तनोद्धर्षस्नानयोगोपयोजितैः।
त्वग्दोषाः प्रशमं यान्ति तथा स्नेहोपसंहितैः||१४||
कुष्ठं गोमेदको हिङ्गु क्रौञ्चास्थि त्र्यूषणं वचा वृषकैले श्वदंष्ट्रा च खराह्वा चाश्मभेदकः||१५||
तक्रेण दधिमण्डेन बदराम्लरसेन वा । मूत्रकृच्छ्रं प्रमेहं च पीतमेतद्व्यपोहति ||१६ तक्राभयाप्रयोगैश्च त्रिफलायास्तथैव च। अरिष्टानां प्रयोगैश्च यान्ति मेहादयः शमम् ||१७||
त्र्यूषणं त्रिफला क्षौद्रं क्रिमिघ्नमजमोदकः। मन्थोऽयं सक्तवस्तैलं हितो लोहोदकाप्लुतः ||१८||
व्योषं [१] विडङ्गं शिग्रूणि त्रिफलां कटुरोहिणीम्। बृहत्यौ द्वे हरिद्रे द्वे पाठामतिविषां स्थिराम्||१९||
हिङ्गु केबुकमूलानि यवानीधान्यचित्रकान्। सौवर्चलमजाजीं च हपुषां चेति चूर्णयेत्||२०||
चूर्णतैलघृतक्षौद्रभागाः स्युर्मानतः समाः। सक्तूनां षोडशगुणो भागः सन्तर्पणं पिबेत्||२१||
प्रयोगादस्य शाम्यन्ति रोगाः सन्तर्पणोत्थिताः| प्रमेहा मूढवाताश्च कुष्ठान्यर्शांसि कामलाः||२२||
प्लीहा पाण्ड्वामयः शोफो मूत्रकृच्छ्रमरोचकः। हृद्रोगो राजयक्ष्मा च कासः श्वासो गलग्रहः||२३||
क्रिमयो ग्रहणीदोषाः श्वैत्र्यं स्थौल्यमतीव च| नराणां दीप्यते चाग्निः स्मृतिर्बुद्धिश्च वर्धते||२४||
व्यायामनित्यो जीर्णाशी यवगोधूमभोजनः | सन्तर्पणकृतैर्दोषैः स्थौल्यं [२] मुक्त्वा विमुच्यते||२५||
उक्तं सन्तर्पणोत्थानामपतर्पणमौषधम्|२६|
श्लोक 26-30
वक्ष्यन्ते सौषधाश्चोर्ध्वमपतर्पणजा गदाः ||२६||
देहाग्निबलवर्णौजःशुक्रमांसपरिक्षयः।
ज्वरः कासानुबन्धश्च पार्श्वशूलमरोचकः||२७||
श्रोत्रदौर्बल्यमुन्मादः प्रलापो हृदयव्यथा | विण्मूत्रसङ्ग्रहः शूलं जङ्घोरुत्रिकसंश्रयम्||२८||
पर्वास्थिसन्धिभेदश्च ये चान्ये वातजा गदाः | ऊर्ध्ववातादयः सर्वे जायन्ते तेऽपतर्पणात् ||२९||
तेषां सन्तर्पणं तज्ज्ञैः पुनराख्यातमौषधम्। यत्तदात्वे समर्थं स्यादभ्यासे वा तदिष्यते [१] ||३०||
श्लोक 31-38
सद्यःक्षीणो हि सद्यो वै तर्पणेनोपचीयते। नर्ते सन्तर्पणाभ्यासाच्चिरक्षीणस्तु पुष्यति||३१||
देहाग्निदोषभैषज्यमात्राकालानुवर्तिना । कार्यमत्वरमाणेन भेषजं चिरदुर्बले ||३२||
हिता मांसरसास्तस्मै पयांसि च घृतानि च। स्नानानि बस्तयोऽभ्यङ्गास्तर्पणास्तर्पणाश्च ये||३३||
ज्वरकासप्रसक्तानां कृशानां मूत्रकृच्छ्रणाम्। तृष्यतामूर्ध्ववातानां वक्ष्यन्ते तर्पणा हिताः||३४||
शर्करापिप्पलीतैलघृतक्षौद्रैः समांशकैः। सक्तद्विगुणितो वृष्यस्तेषां मन्थः प्रशस्यते||३५||
सक्तवो मदिरा क्षौद्रं शर्करा चेति तर्पणम्। पिबेन्मारुतविण्मूत्रकफपित्तानुलोमनम्||३६||
फाणितं सक्तवः सर्पिर्दधिमण्डोऽम्लकाञ्जिकम्। तर्पणं मूत्रकृच्छ्रघ्नमुदावर्तहरं पिबेत्||३७||
मन्थः खर्जूरमृद्वीकावृक्षाम्लाम्लीकदाडिमैः। परूषकैः सामलकैर्युक्तो मद्यविकारनुत्||३८||
श्लोक 39
स्वादुरम्लो जलकृतः सस्नेहो रूक्ष एव वा ।
सद्यः सन्तर्पणो मन्थः स्थैर्यवर्णबलप्रदः||३९||
श्लोक 40
तत्र श्लोक:-
सन्तर्पणोत्था ये रोगा रोगा ये चापतर्पणात्। सन्तर्पणीये तेऽध्याये सौषधाः परिकीर्तिताः||४०||
पुष्पिका
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने सन्तर्पणीयो नाम त्रयोविंशोऽध्यायः ||२३||