विविधाशितपीतीयोऽध्यायः

श्लोक 1-2

अथातो
विविधाशितपीतीयमध्यायं[१]व्याख्यास्यामः||१||

इति ह स्माह भगवानात्रेयः ||२||

श्लोक 3

विविधमशितं पीतं लीढं खादितं जन्तोर्हितमन्तरग्निसन्धुक्षितबलेन यथास्वेनोष्मणा सम्यग्विपच्यमानं
कालवदनवस्थितसर्वधातुपाकमनुपहतसर्वधातूष्ममा-
-रुतस्रोतः केवलं शरीरमुपचयबलवर्णसुखायुषा योजयति शरीरधातूनूर्जयति च धातवो हि धात्वाहाराः प्रकृतिमनुवर्तन्ते||३||

श्लोक 4

तत्राहारप्रसादाख्यो [१] रसः किट्टं च मलाख्यमभिनिर्वर्तते। किट्टात् स्वेदमूत्रपुरीषवातपित्तश्लेष्माणः कर्णाक्षिनासिकास्यलोमकूपप्रजननमलाः केशश्मश्रुलोमनखादयश्चावयवाः पुष्यन्ति ।
पुष्यन्ति त्वाहाररसाद्रसरुधिरमांसमेदोस्थिमज्जशुक्रौजांसि
पञ्चेन्द्रियद्रव्याणि धातुप्रसादसञ्ज्ञकानि
शरीरसन्धिबन्धपिच्छादयश्चावयवाः ।
ते सर्व एव धातवो मलाख्याः प्रसादाख्याश्च रसमलाभ्यां पुष्यन्तः स्वं मानमनुवर्तन्ते यथावयः शरीरम् |
एवं रसमलौ स्वप्रमाणावस्थितावाश्रयस्य समधातोर्धातुसाम्यमनुवर्तयतः ।
निमित्ततस्तु क्षीणवृद्धानां प्रसादाख्यानां धातूनां
वृद्धिक्षयाभ्यामाहारमूलाभ्यां रसः साम्यमुत्पादयत्यारोग्याय, किट्टं च मलानामेवमेव |
स्वमानातिरिक्ताः पुनरुत्सर्गिणः शीतोष्णपर्यायगुणैश्चोपचर्यमाणा
मलाः शरीर धातुसाम्यकराः समुपलभ्यन्ते||४||

श्लोक 5

तेषां तु मलप्रसादाख्यानां धातूनां स्रोतांस्ययनमुखानि | तानि यथाविभागेन यथास्वं धातूनापूरयन्ति| एवमिदं शरीरमशितपीतलीढखादितप्रभवम्|
अशितपीतलीढखादितप्रभवाश्चास्मिञ् शरीरे व्याधयो भवन्ति । हिताहितोपयोगविशेषास्त्वत्र शुभाशुभविशेषकरा भवन्तीति||५||

श्लोक 6

एवंवादिनं भगवन्तमात्रेयमग्निवेश उवाच- दृश्यन्ते हि भगवन्! हितसमाख्यातमप्याहारमुपयुञ्जाना व्याधिमन्तश्चागदाश्च, तथैवाहितसमाख्यातम्; एवं दुष्टे कथं
हिताहितोपयोगविशेषात्मकं शुभाशुभविशेषमुपलभामह
इति||६||

श्लोक 7

तमुवाच भगवानात्रेयः न हिताहारोपयोगिनामग्निवेश! तन्निमित्ता व्याधयो जायन्ते, न च केवलं हिताहारोपयोगादेव सर्वव्याधिभयमतिक्रान्तं भवति, सन्ति तेऽप्यहिताहारोपयोगादन्या रोगप्रकृतयः, तद्यथा- कालविपर्ययः, प्रज्ञापराधः, शब्दस्पर्शरूपरसगन्धाश्चासात्म्या इति ।
ताश्च रोगप्रकृतयो रसान् सम्यगुपयुञ्जानमपि पुरुषमशुभेनोपपादयन्ति; तस्माद्धिताहारोपयोगिनोऽपि दृश्यन्ते व्याधिमन्तः।
अहिताहारोपयोगिनां पुनः कारणतो [१] न सद्यो दोषवान् भवत्यपचारः । न हि सर्वाण्यपथ्यानि तुल्यदोषाणि, न च सर्वे दोषास्तुल्यबलाः, न च सर्वाणि शरीराणि व्याधिक्षमत्वे समर्थानि भवन्ति।
तदेव ह्यपथ्यं देशकालसंयोगवीर्यप्रमाणातियोगाद्भूयस्तरमपथ्यं सम्पद्यते।
स एव दोषः संसृष्टयोनिर्विरुद्धोपक्रमो गम्भीरानुगतश्चिरस्थितः प्राणायतनसमुत्थो मर्मोपघाती कष्टतमः क्षिप्रकारितमश्च सम्पद्यते। शरीराणि चातिस्थूलान्यतिकृशान्यनिविष्टमांसशोणितास्थीनि दुर्बलान्यसात्म्याहारोपचितान्यल्पाहाराण्यल्पसत्त्वानि च भवन्त्यव्याधिसहानि, विपरीतानि पुनर्व्याधिसहानि | एभ्यश्चैवापथ्याहारदोषशरीरविशेषेभ्यो व्याधयो मृदवो दारुणाः क्षिप्रसमुत्थाश्चिरकारिणश्च भवन्ति |
त एव वातपित्तश्लेष्माणः स्थानविशेषे प्रकुपिता
व्याधिविशेषानभिनिर्वर्तयन्त्यग्निवेश!||७||

श्लोक 8

तत्र रसादिषु स्थानेषु प्रकुपितानां दोषाणां यस्मिन् स्थाने ये ये व्याधयः सम्भवन्ति तांस्तान् यथावदनुव्याख्यास्यामः ||८||

श्लोक 9-11

अश्रद्धा चारुचिश्चास्यवैरस्यमरसज्ञता|
हल्लासो गौरवं तन्द्रा साङ्गमर्दो ज्वरस्तमः [१] ||९||

पाण्डुत्वं स्रोतसां रोधः क्लैब्यं सादः कृशाङ्गता| नाशोऽग्नेरयथाकालं वलयः पलितानि च ||१०||
रसप्रदोषजा रोगा,…|११|

श्लोक 11-12

…वक्ष्यन्ते रक्तदोषजाः ।
कुष्ठवीसर्पपिडका रक्तपित्तमसृग्दरः||११||
गुदमेद्रास्यपाकश्च प्लीहा गुल्मोऽथ विद्रधिः |
नीलिका कामला व्यङ्गः पिप्प्लवस्तिलकालकाः||१२||
दद्रुश्चर्मदलं श्वित्रं पामा कोठास्रमण्डलम्| रक्तप्रदोषाज्जायन्ते,…|१४|

श्लोक 13-15

…शृणु मांसप्रदोषजान्||१३||
अधिमांसार्बुदं कीलं गलशालूकशुण्डिके। पूतिमांसालजीगण्डगण्डमालोपजिह्विकाः||१४||

विद्यान्मांसाश्रयान्,…|१५|

श्लोक 15

. मेदःसंश्रयांस्तु प्रचक्ष्महे । निन्दितानि प्रमेहाणां पूर्वरूपाणि यानि च||१५||

श्लोक 16

अध्यस्थिदन्तौ [१] दन्तास्थिभेदशूलं विवर्णता |
केशलोमनखश्मश्रुदोषाश्चास्थिप्रदोषजाः||१६||

श्लोक 17-18

रुक् पर्वणां भ्रमो मूर्च्छा दर्शनं तमसस्तथा। अरुषां स्थूलमूलानां [१] पर्वजानां च दर्शनम्||१७|| मज्जप्रदोषात्, …|१८|

श्लोक 18-19

.. शुक्रस्य दोषात् क्लैब्यमहर्षणम्।
रोगि वा क्लीबमल्पायुर्विरूपं वा प्रजायते||१८||
न चास्य जायते गर्भः पतति प्रस्रवत्यपि। शुक्रं हि दुष्टं सापत्यं सदारं बाधते नरम्||१९||

श्लोक 20

इन्द्रियाणि समाश्रित्य प्रकुप्यन्ति यदा मलाः। उपघातोपतापाभ्यां योजयन्तीन्द्रियाणि ते||२०||

श्लोक 21

स्नायौ सिराकण्डराभ्यो [१] दुष्टाः क्लिश्नन्ति मानवम्। स्तम्भसङ्कोचखल्लीभिर्ग्रन्थिस्फुरणसुप्तिभिः||२१||

श्लोक 22

मलानाश्रित्य कुपिता भेदशोषप्रदूषणम्। दोषा मलानां कुर्वन्ति सङ्गोत्सर्गावतीव च||२२||

श्लोक 23-30

विविधादशितात् पीतादहिताल्लीढखादितात्। भवन्त्येते मनुष्याणां विकारा य उदाहृताः||२३||
तेषामिच्छन्ननुत्पत्तिं सेवेत मतिमान् सदा। हितान्येवाशितादीनि न स्युस्तज्जास्तथाऽऽमयाः ||२४||
रसजानां विकाराणां सर्वं लङ्घनमौषधम्। विधिशोणितिकेऽध्याये रक्तजानां भिषग्जितम् ||२५||
मांसजानां तु संशुद्धिः शस्त्रक्षाराग्निकर्म च| अष्टौनिन्दितिकेऽध्याये [१] मेदोजानां चिकित्सितम्||२६||
अस्थ्याश्रयाणां व्याधीनां पञ्चकर्माणि भेषजम्| बस्त्यः क्षीरसर्पींषि तिक्तकोपहितानि च||२७||
मज्जशुक्रसमुत्थानामौषधं स्वादुतिक्तकम्।
-अन्नं व्यवायव्यायामौ शुद्धिः काले च मात्रया ||२८||
शान्तिरिन्द्रियजानां तु त्रिमर्मीये प्रवक्ष्यते।
स्नाय्वादिजानां प्रशमो वक्ष्यते वातरोगिके||२९||
नवेगान्धारणेऽध्याये चिकित्सासङ्ग्रहः कृतः।
मलजानां विकाराणां सिद्धिश्चोक्ता क्वचित्क्वचित्||३०||

श्लोक 31-32

व्यायामादूष्मणस्तैक्ष्ण्याद्धितस्यानवचारणात्। कोष्ठाच्छाखा [१] मला यान्ति द्रुतत्वान्मारुतस्य च||३१||
तत्रस्थाश्च विलम्बन्ते कदाचिन्न समीरिताः। नादेशकाले कुप्यन्ति भूयो हेतुप्रतीक्षिणः||३२||

श्लोक 33

वृद्ध्या विष्यन्दनात् पाकात् स्रोतोमुखविशोधनात् | शाखा मुक्त्वा मलाः कोष्ठं यान्ति वायोश्च निग्रहात् ||३३||

श्लोक 34-35

अजातानामनुत्पत्तौ जातानां विनिवृत्तये | रोगाणां यो विधिर्दृष्टः [१] सुखार्थी तं समाचरेत्||३४||
सुखार्थाः सर्वभूतानां मताः सर्वाः प्रवृत्तयः । ज्ञानाज्ञानविशेषात्तु मार्गामार्गप्रवृत्तयः||३५||

श्लोक 36-38

हितमेवानुरुध्यन्ते [१] प्रपरीक्ष्य परीक्षकाः। रजोमोहावृतात्मानः प्रियमेव तु लौकिकाः||३६||
श्रुतं बुद्धिः स्मृतिर्दाक्ष्यं धृतिर्हितनिषेवणम्। वाग्विशुद्धिः शमो धैर्यमाश्रयन्ति परीक्षकम् ||३७||
लौकिकं नाश्रयन्त्येते गुणा मोहरजःश्रितम् [२] | तन्मूला बहवो [३] यन्ति रोगाः शारीरमानसाः||३८||

श्लोक 39-40

प्रज्ञापराधाद्ध्यहितानर्थान् [१] पञ्च निषेवते| सन्धारयति वेगांश्च सेवते साहसानि च||३९||
तदात्वसुखसज्ञेषु भावेष्वज्ञोऽनुरज्यते । रज्यते न तु विज्ञाता विज्ञाने ह्यमलीकृते||४०||

श्लोक 41

न रागान्नाप्यविज्ञानादाहारानुपयोजयेत्। परीक्ष्य हितमश्नीयाद्देहो ह्याहारसम्भवः||४१||

श्लोक 42

आहारस्य विधावष्टौ विशेषा हेतुसञ्ज्ञकाः। शुभाशुभसमुत्पत्तौ तान् परीक्ष्य प्रयोजयेत्||४२||

श्लोक 43-44

परिहार्याण्यपथ्यानि सदा परिहरन्नरः । भवत्यनृणतां प्राप्तः साधूनामिह पण्डितः||४३||
यत्तु रोगसमुत्थानमशक्यमिह केनचित्। परिहर्तुं न तत् प्राप्य शोचितव्यं मनीषिभिः||४४||

श्लोक 45-48

तत्र श्लोका:-
आहारसम्भवं वस्तु रोगाश्चाहारसम्भवाः। हिताहितविशेषाच्च विशेषः सुखदुःखयोः||४५||
सहत्वे चासहत्वे च दुःखानां देहसत्त्वयोः [१] | विशेषो रोगसङ्घाश्च धातुजा ये पृथक्पृथक् ||४६||
तेषां चैव प्रशमनं कोष्ठाच्छाखा उपेत्य च| दोषा यथा प्रकुप्यन्ति शाखाभ्यः कोष्ठमेत्य च ||४७||
प्राज्ञाज्ञयोर्विशेषश्च स्वस्थातुरहितं च यत्।
विविधाशितपीतीये तत् सर्वं सम्प्रकाशितम्||४८||

पुष्पिका

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते सूत्रस्थाने विविधाशितपीतीयो नामाष्टाविंशोऽध्यायः ||२८||
इत्यन्नपानचतुष्कः||७||