रसविमानम्

श्लोक 1-2

अथातो रसविमानं व्याख्यास्यामः||१||
इति ह स्माह भगवानात्रेयः||२||

श्लोक 3

इह खलु व्याधीनां
निमित्तपूर्वरूपरूपोपशयसङ्ख्याप्राधान्यविधिविकल्प बलकालविशेषाननुप्रविश्यानन्तरं [१] दोषभेषजदेशकालबलशरीरसाराहारसात्म्यसत्त्वप्रकृतिवयसां
[२] मानमवहितमनसा यथावज्ज्ञेयं भवति भिषजा, दोषादिमानज्ञानायत्तत्वात् [३] क्रियायाः|
न ह्यमानज्ञो दोषादीनां [४] भिषग् व्याधिनिग्रहसमर्थो भवति । तस्माद्दोषादिमानज्ञानार्थं [५] विमानस्थानमुपदेक्ष्यामोऽग्निवेश!||३||

श्लोक 4

तत्रादौ रसद्रव्यदोषविकारप्रभावान् वक्ष्यामः। रसास्तावत् षट्- मधुराम्ललवणकटुतिक्तकषायाः | ते सम्यगुपयुज्यमानाः शरीरं यापयन्ति,
मिथ्योपयुज्यमानास्तु खलु दोषप्रकोपायोपकल्पन्ते||४||

श्लोक 5

दोषाः पुनस्त्रयो वातपित्तश्लेष्माणः। ते प्रकृतिभूताः शरीरोपकारका [१] भवन्ति, विकृतिमापन्नास्तु खलु नानाविधैर्विकारैः शरीरमुपतापयन्ति ||५||

श्लोक 6

तत्र दोषमेकैकं त्रयस्त्रयो रसा जनयन्ति, त्रयस्त्रयश्चोपशमयन्ति|
तद्यथा- कटुतिक्तकषाया वातं जनयन्ति, मधुराम्ललवणास्त्वेनं शमयन्ति; कट्वम्ललवणाः पित्तं जनयन्ति, मधुरतिक्तकषायास्त्वेनच्छमयन्ति; मधुराम्ललवणाः श्लेष्माणं जनयन्ति, कटुतिक्तकषायास्त्वेनं शमयन्ति||६||

श्लोक 7

रसदोषसन्निपाते तु ये रसा यैर्दोषैः समानगुणाः समानगुणभूयिष्ठा वा भवन्ति ते तानभिवर्धयन्ति, विपरीतगुणा विपरीतगुणभूयिष्ठा वा शमयन्त्यभ्यस्यमाना इति| एतद्व्यवस्थाहेतोः षट्त्वमुपदिश्यते रसानां
परस्परेणासंसृष्टानां, त्रित्वं च दोषाणाम् ||७||

श्लोक 8

संसर्गविकल्पविस्तरो ह्येषामपरिसङ्ख्येयो भवति,
विकल्पभेदापरिसङ्ख्येयत्वात्||८||

श्लोक 9

तत्र खल्वनेकरसेषु [१] द्रव्येष्वनेकदोषात्मकेषु विकारेषु रसदोषप्रभावमेकैकश्येनाभिसमीक्ष्य ततो द्रव्यविकारयोः प्रभावतत्त्वं व्यवस्येत्||९||

श्लोक 10

न त्वेवं खलु सर्वत्र।
न हि विकृतिविषमसमवेतानां नानात्मकानां परस्परेण चोपहतानामन्यैश्च [१]
विकल्पनैर्विकल्पितानामवयवप्रभावानुमानेनैव
समुदायप्रभावतत्त्वमध्यवसातुं शक्यम् ||१०||

श्लोक 11

तथायुक्ते हि समुदये समुदायप्रभावतत्त्वमेवमेवोपलभ्य ततो द्रव्यविकारप्रभावतत्त्वं व्यवस्येत्||११||

श्लोक 12

तस्माद्रसप्रभावतश्च द्रव्यप्रभावतश्च दोषप्रभावतश्च विकारप्रभावतश्च तत्त्वमुपदेक्ष्यामः||१२||

श्लोक 13

तत्रैष रसप्रभाव उपदिष्टो भवति । द्रव्यप्रभावं पुनरुपदेक्ष्यामः ।
तैलसर्पिर्मधूनि वातपित्तश्लेष्मप्रशमनार्थानि [१] द्रव्याणि भवन्ति||१३||

श्लोक 14

तत्र तैलं स्नेहौष्ण्यगौरवोपपन्नत्वाद्वातं जयति [१] सततमभ्यस्यमानं; वातो हि रौक्ष्यशैत्यलाघवोपपन्नो विरुद्धगुणो भवति, विरुद्धगुणसन्निपाते हि भूयसाऽल्पमवजीयते, तस्मात्तैलं वातं जयति सततमभ्यस्यमानम् |
सर्पिः खल्वेवमेव पित्तं जयति, माधुर्याच्छैत्यान्मन्दत्वाच्च [२] ; पित्तं ह्यमधुरमुष्णं तीक्ष्णं च ।
मधु च श्लेष्माणं जयति, रौक्ष्यात्तैक्ष्ण्यात् कषायत्वाच्च; श्लेष्मा हि स्निग्धो मन्दो मधुरश्च [३] |
यच्चान्यदपि किञ्चिद्द्रव्यमेवं वातपित्तकफेभ्यो गुणतो विपरीतं स्यात्तच्चैताञ्जयत्यभ्यस्यमानम्||१४||

श्लोक 15

अथ खलु त्रीणि द्रव्याणि नात्युपयुञ्जीताधिकमन्येभ्यो द्रव्येभ्यः; तद्यथा – पिप्पली, क्षारः, लवणमिति||१५||

श्लोक 16

पिप्पल्यो हि कटुकाः सत्यो मधुरविपाका गुर्व्यांनात्यर्थं स्निग्धोष्णाः प्रक्लेदिन्यो भेषजाभिमताश्चताः [१] सद्यः; शुभाशुभकारिण्यो भवन्ति; आपातभद्राः, प्रयोगसमसाद्गुण्यात्; दोषसञ्चयानुबन्धाः;- सततमुपयुज्यमाना हि गुरुप्रक्लेदित्वाच्छ्लेष्माणमुत्क्लेशयन्ति, औष्ण्यात् पित्तं, न च वातप्रशमनायोपकल्पन्तेऽल्पस्नेहोष्णभावात्; योगवाहिन्यस्तु खलु भवन्ति; तस्मात् पिप्पलीर्नात्युपयुञ्जीत||१६||

श्लोक 17

क्षारः पुनरौष्ण्यतैक्ष्णयलाघवोपपन्नः क्लेदयत्यादौ पश्चाद्विशोषयति [१], स पचनदहनभेदनार्थमुपयुज्यते; सोऽतिप्रयुज्यमानः केशाक्षिहृदयपुंस्त्वोपघातकरः सम्पद्यते।
ये ह्येनं ग्रामनगरनिगमजनपदाः सततमुपयुञ्जते त आन्ध्यषाण्ठ्यखालित्यपालित्यभाजो हृदयापकर्तिनश्च भवन्ति, तद्यथा- प्राच्याश्चीनाश्च; तस्मात् क्षारं
नात्युपयुञ्जीत||१७||

श्लोक 18

लवणं पुनरौष्ण्यतैक्ष्ण्योपपन्नम्, अनतिगुरु, अनतिस्निग्धम्, उपक्लेदि, विस्रंसनसमर्थम्, अन्नद्रव्यरुचिकरम्, आपातभद्रं प्रयोगसमसाद्गुण्यात्, दोषसञ्चयानुबन्धं, तद्रोचनपाचनोपक्लेदनविस्रंसनार्थमुपयुज्यते ।
तदत्यर्थमुपयुज्यमानं ग्लानिशैथिल्यदौर्बल्याभिनिर्वृत्तिकरं शरीरस्य भवति।
ये ह्येनद्ग्रामनगरनिगमजनपदाः सततमुपयुञ्जते, ते भूयिष्ठं ग्लास्नवः शिथिलमांसशोणिता अपरिक्लेशसहाश्च भवन्ति । तद्यथा- बाह्लीकसौराष्ट्रिकसैन्धवसौवीरकाः; ते हि पयसाऽपि सह लवणमश्नन्ति|
येऽपीह भूमेरत्यूषरा देशास्तेष्वोषधिवीरुद्वनस्पतिवानस्पत्या न जायन्तेऽल्पतेजसो वा भवन्ति, लवणोपहतत्वात्। तस्माल्लवणं नात्युपयुञ्जीत ।
ये ह्यतिलवणसात्म्याः पुरुषास्तेषामपि खालित्यपालित्यानि वलयश्चाकाले भवन्ति||१८||

श्लोक 19

तस्मात्तेषां तत्सात्म्यतः क्रमेणापगमनं श्रेयः ।
सात्म्यमपि हि क्रमेणोपनिवर्त्यमानमदोषमल्पदोषं वा भवति||१९||

श्लोक 20

सात्म्यं नाम तद् यदात्मन्युपशेते; सात्म्यार्थो ह्युपशयार्थः । तत्त्रिविधं प्रवरावरमध्यविभागेन, सप्तविधं तु रसैकैकत्वेन सर्वरसोपयोगाच्च|
तत्र सर्वरसं प्रवरम्, अवरमेकरसं, मध्यं तु प्रवरावरमध्यस्थम्। तत्रावरमध्याभ्यां सात्म्याभ्यां क्रमेणैव प्रवरमुपपादयेत् सात्म्यम्।
सर्वरसमपि च सात्म्यमुपपन्नः [१] प्रकृत्याद्युपयोक्त्रष्टमानि सर्वाण्याहारविधिविशेषायतनान्यभिसमीक्ष्य
हितमेवानुरुध्येत ||२०||

श्लोक 21

तत्र खल्विमान्यष्टावाहारविधिविशेषायतनानि भवन्ति;
तद्यथा-
प्रकृतिकरणसंयोगराशिदेशकालोपयोगसंस्थोपयोक्त्रष्टमानि
(भवन्ति)||२१||

श्लोक 22(1)

तत्र प्रकृतिरुच्यते स्वभावो यः, स पुनराहारौषधद्रव्याणां स्वाभाविको गुर्वादिगुणयोगः, तद्यथा माषमुद्गयोः, शूकरैणयोश्च (१)|२२|

श्लोक 22(2)

करणं पुनः स्वाभाविकानां द्रव्याणामभिसंस्कारः। संस्कारो हि गुणान्तराधानमुच्यते।
ते गुणास्तोयाग्निसन्निकर्षशौचमन्थनदेशकालवासनभावनादि भिः [१] कालप्रकर्षभाजनादिभिश्चाधीयन्ते (२)|२२|

श्लोक 22(3)

संयोगः पुनर्द्वयोर्बहूनां वा द्रव्याणां संहतीभावः, स विशेषमारभते, यं पुनर्नैकैकशो द्रव्याण्यारभन्ते; तद्यथा- मधुसर्पिषोः, मधुमत्स्यपयसां च संयोगः (३)|२२|

श्लोक 22(4)

राशिस्तु सर्वग्रहपरिग्रहौ मात्रामात्रफलविनिश्चयार्थः। तत्र सर्वस्याहारस्य प्रमाणग्रहणमेकपिण्डेन सर्वग्रहः, परिग्रहः पुनः प्रमाणग्रहणमेकैकश्येनाहारद्रव्याणाम्|
सर्वस्य हि ग्रहः सर्वग्रहः, सर्वतश्च ग्रहः परिग्रह उच्यते (४)|२२|

श्लोक 22(5)

देशः पुनः स्थानं; स द्रव्याणामुत्पत्तिप्रचारौ देशसात्म्यं चाचष्टे (५)|२२|

श्लोक 22(6)

कालो हि नित्यगश्चावस्थिकश्च; तत्रावस्थिको विकारमपेक्षते, नित्यगस्तु ऋतुसात्म्यापेक्षः (६)|२२|

श्लोक 22(7)

उपयोगसंस्था तूपयोगनियमः;स जीर्णलक्षणापेक्षः (७)|२२|

श्लोक 22

उपयोक्ता पुनर्यस्तमाहारमुपयुङ्क्ते, यदायत्तमोकसात्म्यम्। इत्यष्टावाहारविधिविशेषायतनानि व्याख्यातानि भवन्ति ||२२||

श्लोक 23

एषां विशेषाः शुभाशुभफलाः परस्परोपकारका भवन्ति; तान् बुभुत्सेत, बुद्ध्वा च हितेप्सुरेव स्यात्; नच मोहात्
प्रियमहितमसुखोदर्कमुपसेव्यमाहारजातमन्यद्वा
प्रमादाद्वा किञ्चित्||२३||

श्लोक 24

तत्रेदमाहारविधिविधानमरोगाणामातुराणां चापि केषाञ्चित् काले प्रकृत्यैव हिततमं भुञ्जानानां भवति – उष्णं, स्निग्धं, मात्रावत्, जीर्णे वीर्याविरुद्धम्, इष्टे देशे, इष्टसर्वोपकरणं, नातिद्रुतं नातिविलम्बितम्, अजल्पन्, अहसन्, तन्मना भुञ्जीत, आत्मानमभिसमीक्ष्य सम्यक् ||२४||

श्लोक 25(1,2)

तस्य साद्गुण्यमुपदेक्ष्यामः- उष्णमश्नीयात्; उष्णं हि भुज्यमानं स्वदते, भुक्तं चाग्निमौदर्यमुदीरयति, क्षिप्रं जरां गच्छति, वातमनुलोमयति, श्लेष्माणं च परिह्राससयति [१] ; तस्मादुष्णमश्नीयात् (१)|२५|
स्निग्धमश्नीयात्; स्निग्धं हि भुज्यमानं स्वदते, भुक्तं
चानुदीर्णमग्निमुदीरयति [२], क्षिप्रं जरां गच्छति, वातमनुलोमयति, शरीरमुपचिनोति, दृढीकरोतीन्द्रियाणि, बलाभिवृद्धिमुपजनयति, वर्णप्रसादं चाभिनिर्वर्तयति; तस्मात् स्निग्धमश्नीयात् (२) |२५|

श्लोक 25(3)

मात्रावदश्नीयात्; मात्रावद्धि भुक्तं वातपित्तकफानपीडयदायुरेव विवर्धयति केवलं, सुखं गुदमनुपर्येति, न चोष्माणमुपहन्ति, -अव्यथं च परिपाकमेति; तस्मान्मात्रावदश्नीयात् (३)|२५|

श्लोक 25(4)

जीर्णेऽश्नीयात्; अजीर्णे हि भुञ्जानस्याभ्यवहृतमाहारजातं पूर्वस्याहारस्य रसमपरिणतमुत्तरेणाहाररसेनोपसृजत् सर्वान् दोषान् प्रकोपयत्याशु, जीर्णे तु भुञ्जानस्य स्वस्थानस्थेषु दोषेष्वग्नौ चोदीर्णे जातायां च बुभुक्षायां विवृतेषु च स्रोतसां मुखेषु विशुद्धे चोद्गारे हृदये विशुद्धे वातानुलोम्ये विसृष्टेषु च वातमूत्रपुरीषवेगेष्वभ्यवहृतमाहारजातं सर्वशरीरधातूनप्रदूषयदायुरेवाभिवर्धयति केवलं; तस्माज्जीर्णेऽश्नीयात् (४)|२५|

श्लोक 25(5)

वीर्याविरुद्धमश्नीयात्; अविरुद्धवीर्यमश्नन् हि विरुद्धवीर्याहारजैर्विकारैर्नोपसृज्यते; तस्माद्वीर्याविरुद्धमश्नीयात् (५) |२५|

श्लोक 25(6)

इष्टे देशे इष्टसर्वोपकरणं चाश्नीयात्; इष्टे हि देशे भुञ्जानो नानिष्टदेशजैर्मनोविघातकरैर्भावैर्मनोविघातं प्राप्नोति, तथैवेष्टैः सर्वोपकरणैः; तस्मादिष्टे देशे तथेष्टसर्वोपकरणं चाश्नीयात् (६)|२५|

श्लोक 25(7)

नातिद्रुतमश्नीयात्; अतिद्रुतं हि भुञ्जानस्योत्स्नेहनमवसादनं भोजनस्याप्रतिष्ठानं च, भोज्यदोषसाद्गण्योपलब्धिश्च न
नियता; तस्मान्नातिद्रुतमश्नीयात् (७)|२५|

श्लोक 25(8)

नातिविलम्बितमश्नीयात्; अतिविलम्बितं हि भुञ्जानो न तृप्तिमधिगच्छति, बहु भुङ्क्ते, शीतीभवत्याहारजातं, विषमं
[१] च पच्यते; तस्मान्नातिविलम्बितमश्नीयात् (८)|२५|

श्लोक 25(9)

अजल्पन्नहसन् तन्मना भुञ्जीत; जल्पतो हसतोऽन्यमनसो वा भुञ्जानस्य त एव हि दोषा भवन्ति, य एवातिद्रुतमश्नतः; तस्मादजल्पन्नहसंस्तन्मना भुञ्जीत (९)|२५|

श्लोक 25

आत्मानमभिसमीक्ष्य भुञ्जीत सम्यक्; इदं ममोपशेते इदं नोपशेत इत्येवं विदितं ह्यस्यात्मन आत्मसात्म्यं भवति; तस्मादात्मानमभिसमीक्ष्य भुञ्जीत सम्यगिति ||२५||

श्लोक 26

भवति चात्र-
रसान् द्रव्याणि दोषांश्च विकारांश्च प्रभावतः|
वेद यो देशकालौ च शरीरं च स [१] नो भिषक् ||२६||

श्लोक 27-28

तत्र श्लोकौ –
विमानार्थी रसद्रव्यदोषरोगाः प्रभावतः ।
द्रव्याणि नातिसेव्यानि त्रिविधं सात्म्यमेव च||२७||
आहारायतनान्यष्टौ भोज्यसाद्गुण्यमेव च।
विमाने रससङ्ख्याते सर्वमेतत् प्रकाशितम्||२८||

पुष्पिका

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते विमानस्थाने रसविमानं नाम प्रथमोऽध्यायः||१||