प्रमेहनिदानम्

श्लोक 1-3

अथातः प्रमेहनिदानं व्याख्यास्यामः||१||
इति ह स्माह भगवानात्रेयः||२||
त्रिदोषकोपनिमित्ता विंशतिः प्रमेहा भवन्ति विकाराश्चापरेऽपरिसङ्ख्येयाः।
तत्र यथा त्रिदोषप्रकोपः प्रमेहानभिनिर्वर्तयति तथाऽनुव्याख्यास्यामः||३||

श्लोक 4

इह खलु निदानदोषदृष्यविशेषेभ्यो विकारविघातभावाभावप्रतिविशेषा भवन्ति ।
यदा ह्येते त्रयो निदानादिविशेषाः परस्परं नानुबध्नन्त्यथवा [१] कालप्रकर्षादबलीयांसोऽथवाऽनुबध्नन्ति न तदा विकाराभिनिर्वृत्तिः, चिराद्वाऽप्यभिनिर्वर्तन्ते, तनवो वा भवन्त्ययथोक्तसर्वलिङ्गा वा; विपर्यये विपरीताः; इति सर्वविकारविघातभावाभावप्रतिविशेषाभिनिर्वृत्तिहेतुर्भवत्युक्तः
||४||

श्लोक 5

तत्रेमे त्रयो निदानादिविशेषाः श्लेष्मनिमित्तानां प्रमेहाणामाश्वभिर्निर्वृत्तिकरा भवन्ति; तद्यथा- यनकयवकचीनकोद्दालकनैषधेत्कटमुकुन्दकमहाव्रीहिप्रमो दकसुगन्धकानां नवानामतिवेलमतिप्रमाणेन चोपयोगः, तथा सर्पिष्मतां नवहरेणुमाषसूप्यानां, ग्राम्यानूपौदकानां च मांसानां,
शाकतिलपललपिष्टान्नपायसकृशराविलेपीक्षुविकाराणां, क्षीरनवमद्यमन्दकदधिद्रवमधुरतरुणप्रायाणां चोपयोगः, मृजाव्यायामवर्जनं, स्वप्नशयनासनप्रसङ्गः, यश्च कश्चिद्विधिरन्योऽपि श्लेष्ममेदोमूत्रसञ्जननः, स सर्वो निदानविशेषः ||५||

श्लोक 6

बहुद्रवः श्लेष्मा दोषविशेषः ||६||

श्लोक 7

बह्वबद्धं [१] मेदो मांसं शरीरजक्लेदः शुक्रं शोणितं वसा मज्जा लसीका रसश्चौजःसङ्ख्यात इति दृष्यविशेषाः||७||

श्लोक 8

त्रयाणामेषां निदानादिविशेषाणां सन्निपाते क्षिप्रं श्लेष्मा प्रकोपमापद्यते, प्रागतिभूयस्त्वात्; स प्रकुपितः क्षिप्रमेव शरीरे विसृप्तिं लभते, शरीरशैथिल्यात्; स विसर्पञ् शरीरे मेदसैवादितो मिश्रीभावं गच्छति, मेदसश्चैव बह्वबद्धत्वान्मेदसश्च गुणैः समानगुणभूयिष्ठत्वात्; स मेदसा मिश्रीभवन् दूषयत्येनत्, विकृतत्वात्; स विकृतो दुष्टेन मेदसोपहितः शरीरक्लेदमांसाभ्यां संसर्गं गच्छति, क्लेदमांसयोरतिप्रमाणाभिवृद्धत्वात्; स मांसे मांसप्रदोषात् पूतिमांसपिडकाः शराविकाकच्छपिकाद्याः सञ्जनयति, अप्रकृतिभूतत्वात्; शरीरक्लेदं पुनर्दूषयन् मूत्रत्वेन परिणमयति, मूत्रवहानां च स्रोतसां वङ्क्षणबस्तिप्रभवाणां [१] मेदः क्लेदोपहितानि गुरूणि मुखान्यासाद्य प्रतिरुध्यते; ततः प्रमेहांस्तेषां स्थैर्यमसाध्यतां वा जनयति, प्रकृतिविकृतिभूतत्वात् ||८||

श्लोक 9-11

शरीरक्लेदस्तु श्लेष्ममेदोमिश्रः प्रविशन् मूत्राशयं मूत्रत्वमापद्यमानः श्लैष्मिकैरेभिर्दशभिर्गुणैरुपसृज्यते वैषम्ययुक्तैः; तद्यथा-
श्वेतशीतमूर्तपिच्छिलाच्छस्निग्धगुरुमधुरसान्द्रप्रसादमन्दैः, तत्र
येन गुणेनैकेनानेकेन वा भूयस्तरमुपसृज्यते [१] तत्समाख्यं गौणं नामविशेषं प्राप्नोति||९||

ते तु खल्विमे दश प्रमेहा नामविशेषेण भवन्ति; तद्यथा- तु
उदकमेहश्च, इक्षुवालिकारसमेहश्च, सान्द्रमेहश्च,
सान्द्रप्रसादमेहश्च, शुक्लमेहश्च, शुक्रमेहश्च, शीतमेहश्च, सिकतामेहश्च, शनैर्मेहश्च आलालमेहश्चेति ||१०||

ते दश प्रमेहाः साध्याः; समानगुणमेदः स्थानकत्वात्, कफस्य प्राधान्यात्, समक्रियत्वाच्च||११||

श्लोक 12-23

तत्र श्लोकाः
श्लेष्मप्रमेहविशेषविज्ञानार्था भवन्ति-||१२||

अच्छं बहु सितं शीतं निर्गन्धमुदकोपमम्। श्लेष्मकोपान्नरो मूत्रमुदमेही प्रमेहति || १३||
अत्यर्थमधुरं शीतमीषत्पिच्छिलमाविलम्| काण्डेक्षुरसमङ्काशं श्लेष्मकोपात् प्रमेहति||१४||
यस्य पर्युषितं मूत्रं सान्द्रीभवति भाजने। पुरुषं कफकोपेन तमाहुः सान्द्रमेहिनम् ||१५||
यस्य संहन्यते मूत्रं किञ्चित् किञ्चित् प्रसीदति | सान्द्रप्रसादमेहीति तमाहुः श्लेष्मकोपतः ||१६||
-शुक्लं पिष्टनिभं मूत्रमभीक्ष्णं यः प्रमेहति । पुरुषं कफकोपेन तमाहुः शुक्लमेहिनम् ||१७||
शुक्राभं शुक्रमिश्रं वा मुहुर्मेहति यो नरः । -शुक्रमेहिनमाहुस्तं पुरुषं श्लेष्मकोपतः ||१८||
अत्यर्थमधुरं शीतं मूत्रं मेहति यो भृशम्। शीतमेहिनमाहुस्तं पुरुषं श्लेष्मकोपतः||१९||
मूर्तान्मूत्रगतान् दोषानणून्मेहति यो नरः । सिकतामेहिनं विद्यात्तं नरं श्लेष्मकोपतः||२०||
मन्दं मन्दमवेगं तु कृच्छ्रं यो मूत्रयेच्छनैः । -शनैर्मेहिनमाहुस्तं पुरुषं श्लेष्मकोपतः ||२१||
तन्तुबद्धमिवालालं पिच्छिलं यः प्रमेहति । आलालमेहिनं विद्यात्तं नरं श्लेष्मकोपतः||२२||
इत्येते दश प्रमेहाः श्लेष्मप्रकोपनिमित्ता व्याख्याता

श्लोक 24-26

उष्णाम्ललवणक्षारकटुकाजीर्णभोजनोपसेविनस्तथाऽतिती
क्ष्णातपाग्निसन्तापश्रम क्रोधविषमाहारोपसेविनश्च तथाविधशरीरस्यैव क्षिप्रं [१] पित्तं प्रकोपमापद्यते, तत्तु प्रकुपितं तयैवानुपूर्व्या प्रमेहानिमान् षट् क्षिप्रतरमभिनिर्वर्तयति ||२४||

तेषामपि तु खलु पित्तगुणविशेषेणैव नामविशेषा भवन्ति; तद्यथा- क्षारमेहश्च, कालमेहश्च, नीलमेहश्च, लोहितमेहश्च, माञ्जिष्ठमेहश्च, हारिद्रमेहश्चेति||२५||

ते षड्भिरेव क्षाराम्ललवणकटुकविस्रोष्णैः पित्तगुणैः पूर्ववद्युक्ता भवन्ति ||२६||

श्लोक 27-35

सर्व एव ते याप्याः संसृष्टदोषमेदःस्थानत्वाद्विरुद्धोपक्रमत्वाच्चेति||२७||

तत्र श्लोकाः पित्तप्रमेहविशेषविज्ञानार्था भवन्ति-||२८||
गन्धवर्णरसस्पर्शेर्यथा क्षारस्तथाविधम् |
पित्तकोपान्नरो मूत्रं क्षारमेही प्रमेहति||२९|| मसीवर्णमजस्रं यो मूत्रमुष्णं प्रमेहति । पित्तस्य परिकोपेण तं विद्यात् कालमेहिनम् ||३०||
चाषपक्षनिभं मूत्रमम्लं मेहति यो नरः । पित्तस्य परिकोपेण तं विद्यान्नीलमेहिनम् ||३१||
विस्रं लवणमुष्णं च रक्तं मेहति यो नरः । पित्तस्य परिकोपेण तं विद्याद्रक्तमेहिनम् ||३२||
मञ्जिष्ठोदकसङ्काशं भृशं विस्रं प्रमेहति ।
पित्तस्य परिकोपात्तं विद्यान्माञ्जिष्ठमेहिनम् ||३३||
हरिद्रोदकसङ्काशं कटुकं यः प्रमेहति ।
पित्तस्य परिकोपात्तं विद्याद्धारिद्रमेहिनम्||३४|| इत्येते षट् प्रमेहाः पित्तप्रकोपनिमित्ता व्याख्याता भवन्ति ||३५||

श्लोक 36-37

कषायकटुतिक्तरूक्षलघुशीतव्यवायव्यायामवमनविरेचनास्थापन- शिरोविरेचनातियोगसन्धारणानशनाभिघातातपोद्वेगशोकशोणि-
तातिषेक – जागरणविषमशरीरन्यासानुपसेवमानस्य तथाविधशरीरस्यैव क्षिप्रं वातः प्रकोपमापद्यते||३६||

स प्रकुपितस्तथाविधे शरीरे विसर्पन् यदा वसामादाय मूत्रवहानि स्रोतांसि प्रतिपद्यते तदा वसामेहमभिनिर्वर्तयति; यदा पुनर्मज्जानं मूत्रबस्तावाकर्षति तदा मज्जमेहमभिनिर्वर्तयति; यदा तु लसीकां मूत्राशयेऽभिवहन्मूत्रमनुबन्धं च्योतयति लसीकातिबहुत्वाद्विक्षेपणाच्च वायोः खल्वस्यातिमूत्रप्रवृत्तिसङ्गं [१] करोति, तदा स मत्त इव गजः क्षरत्यजस्रं मूत्रमवेगं, तं हस्तिमेहिनमाचक्षते; ओजः पुनर्मधुरस्वभावं, तद् यदा रौक्ष्याद्वायुः कषायत्वेनाभिसंसृज्य मूत्राशयेऽभिवहति तदा मधुमेहं करोति||३७||

श्लोक 38-46

इमांश्चतुरः प्रमेहान् वातजानसाध्यानाचक्षते भिषजः, महात्ययिकत्वाद्विरुद्धोपक्रमत्वाच्चेति||३८||

तेषामपि पूर्ववद्गुणविशेषेण नामविशेषा भवन्ति; तद्यथा- वसामेहश्च, मज्जमेहश्च, हस्तिमेहश्च, मधुमेहश्चेति ||३९||
तत्र श्लोका वातप्रमेहविशेषविज्ञानार्था भवन्ति-||४०||
वसामिश्रं वसाभं वा मुहुर्मेहति यो नरः । वसामेहिनमाहुस्तमसाध्यं वातकोपतः||४१||
मज्जानं सह मूत्रेण मुहुर्मेहति यो नरः । मज्जमेहिनमाहुस्तमसाध्यं वातकोपतः||४२||
हस्ती मत्त इवाजत्रं मूत्रं क्षरति यो भृशम्। हस्तिमेहिनमाहुस्तमसाध्यं वातकोपतः||४३||
कषायमधुरं पाण्डु रूक्षं मेहति यो नरः ।
वातकोपादसाध्यं तं प्रतीयान्मधुमेहिनम्||४४||

इत्येते चत्वारः प्रमेहा वातप्रकोपनिमित्ता व्याख्याता भवन्ति||४५||
एवं त्रिदोषप्रकोपनिमित्ता विंशतिः प्रमेहा व्याख्याता भवन्ति||४६||

श्लोक 47

त्रयस्तु खलु दोषाः प्रकुपिताः प्रमेहानभिनिर्वर्तयिष्यन्त इमानि पूर्वरूपाणि दर्शयन्ति; तद्यथा- जटिलीभावं केशेषु, माधुर्यमास्यस्य, करपादयोः सुप्ततादाहौ, मुखतालुकण्ठशोषं, पिपासाम्, आलस्यं, मलं काये, कायच्छिद्रेषूपदेहं, परिदाहं सुप्ततां चाङ्गेषु, षट्पदपिपीलिकाभिश्च शरीरमूत्राभिसरणं, मूत्रे च मूत्रदोषान्, विस्रं शरीरगन्धं, निद्रां तन्द्रां च सर्वकालमिति||४७||

श्लोक 48-49

उपद्रवास्तु खलु प्रमेहिणां
तृष्णातीसारज्वरदाहदौर्बल्यारोचकाविपाकाः पूतिमांसपिडकालजीविद्रध्यादयश्च तत्प्रसङ्गाद्भवन्ति
||४८||

तत्र साध्यान् प्रमेहान्
संशोधनोपशमनैर्यथार्हमुपपादयंश्चिकित्सेदिति||४९||

श्लोक 50-52

भवन्ति चात्र- गृध्नुमभ्यवहार्येषु स्नानचङ्क्रमणद्विषम्। प्रमेहः क्षिप्रमभ्येति नीडद्रुममिवाण्डजः||५०||
मन्दोत्साहमतिस्थूलमतिस्निग्धं महाशनम्। मृत्युः प्रमेहरूपेण क्षिप्रमादाय गच्छति||५१||
यस्त्वाहारं शरीरस्य धातुसाम्यकरं नरः । सेवते विविधाश्चान्याश्चेष्टाः स सुखमश्नुते||५२||

श्लोक 53-55

तत्र श्लोकाः- हेतुर्व्याधिविशेषाणां प्रमेहाणां च कारणम्। दोषधातुसमायोगो रूपं विविधमेव च||५३||

दश श्लेष्मकृता यस्मात् प्रमेहाः षट् च पित्तजाः | यथा च वायुश्चतुरः प्रमेहान् कुरुते बली||५४||
साध्यासाध्यविशेषाश्च पूर्वरूपाण्युपद्रवाः । प्रमेहाणां निदानेऽस्मिन् क्रियासूत्रं च भाषितम्||५५||

पुष्पिका

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते निदानस्थाने प्रमेहनिदानं नाम चतुर्थोऽध्यायः||४||