श्लोक 1-2
अथातस्त्रिविधरोगविशेषविज्ञानीयं विमानं व्याख्यास्यामः ||१||
इति ह स्माह भगवानात्रेयः ||२||
श्लोक 3
त्रिविधं खलु रोगविशेषविज्ञानं भवति; तद्यथा आप्तोपदेशः, प्रत्यक्षम्, अनुमानं चेति||३||
श्लोक 4
तत्राप्तोपदेशो नामाप्तवचनम्।
आप्ता ह्यवितर्कस्मृतिविभागविदो निष्प्रीत्युपतापदर्शिनश्च| तेषामेवङ्गुणयोगाद्यद्वचनं तत् प्रमाणम्।
अप्रमाणं पुनर्मत्तोन्मत्तमूर्खरक्तदुष्टादुष्टवचनमिति [१] ; प्रत्यक्षं तु खलु तद्यत् स्वयमिन्द्रियैर्मनसा [२] चोपलभ्यते। अनुमानं खलु तर्को युक्त्यपेक्षः||४||
श्लोक 5
त्रिविधेन खल्वनेन ज्ञानसमुदायेन पूर्वं परीक्ष्य रोगं सर्वथा सर्वमथोत्तरकालमध्यवसानमदोषं [१] भवति, न हि ज्ञानावयवेन कृत्स्ने ज्ञेये ज्ञानमुत्पद्यते।
त्रिविधे त्वस्मिन् ज्ञानसमुदये पूर्वमाप्तोपदेशाज्ज्ञानं, ततः प्रत्यक्षानुमानाभ्यां परीक्षोपपद्यते।
किं ह्यनुपदिष्टं पूर्वं यत्तत् प्रत्यक्षानुमानाभ्यां परीक्षमाणो विद्यात्।
तस्माद्द्विविधा परीक्षा ज्ञानवतां प्रत्यक्षम्, अनुमानं च; त्रिविधा वा सहोपदेशेन ||५||
श्लोक 6
तत्रेदमुपदिशन्ति बुद्धिमन्तः-
रोगमेकैकमेवम्प्रकोपणमेवंयोनिमेवमुत्थानमेवमात्मानमेवम-
-धिष्ठानमेवंवेदनमेवं
संस्थानमेवंशब्दस्पर्शरूपरसगन्धमेवमुपद्रवमेवंवृद्धिस्थान- -क्षयसमन्वितमेवमुदर्क मेवन्नामानमेवंयोगं विद्यात्; तस्मिन्नियं प्रतीकारार्था प्रवृत्तिरथवा निवृत्तिरित्युपदेशाज्ज्ञायते||६||
श्लोक 7
प्रत्यक्षतस्तु खलु रोगतत्त्वं बुभुत्सुः सर्वैरिन्द्रियैः सर्वानिन्द्रियार्थानातुरशरीरगतान् परीक्षेत, अन्यत्र रसज्ञानात्; तद्यथा- अन्त्रकूजनं, सन्धिस्फुटनमङ्गुलीपर्वणां च, स्वरविशेषांश्च, ये चान्येऽपि केचिच्छरीरोपगताः शब्दाः स्युस्ताञ्छ्रोत्रेण परीक्षेत; वर्णसंस्थानप्रमाणच्छायाः [१], शरीरप्रकृतिविकारौ, चक्षुर्वैषयिकाणि यानि चान्यान्यनुक्तानि तानि चक्षुषा परीक्षेत रसं तु खल्वातुरशरीरगतमिन्द्रियवैषयिकमप्यनुमानादवगच्छेत्, न ह्यस्य प्रत्यक्षेण ग्रहणमुपपद्यते, तस्मादातुरपरिप्रश्नेनैवातुरमुखरसं विद्यात्, यूकापसर्पणेन त्वस्य शरीरवैरस्यं, मक्षिकोपसर्पणेन शरीरमाधुर्यं, लोहितपित्तसन्देहे तु किं धारिलोहितं लोहितपित्तं वेति श्वकाकभक्षणाद्धारिलोहितमभक्षणाल्लोहितपित्तमित्यनुमातव्यम्, एवमन्यानप्यातुरशरीरगतान् रसाननुमिमीत; गन्धांस्तु खलु सर्वशरीरगतानातुरस्य प्रकृतिवैकारिकान् घ्राणेन परीक्षेत; स्पर्शं च पाणिना प्रकृतिविकृतियुक्तम्|
इति प्रत्यक्षतोऽनुमानादुपदेशतश्च [२] परीक्षणमुक्तम्||७||
श्लोक 8
इमे तु खल्वन्येऽप्येवमेव [१] भूयोऽनुमानज्ञेया भवन्ति भावाः। तद्यथा- अग्निं जरणशक्त्या परीक्षेत, बलं व्यायामशक्त्या, श्रोत्रादीनि शब्दाद्यर्थग्रहणेन, मनोऽर्थाव्यभिचरणेन, विज्ञानं व्यवसायेन, रजःसङ्गेन, मोहमविज्ञानेन, क्रोधमभिद्रोहेण, शोकं दैन्येन, हर्षमामोदेन, प्रीतिं तोषेण, भयं विषादेन, धैर्यमविषादेन, वीर्यमुत्थानेन [२], अवस्थानमविभ्रमेण, श्रद्धामभिप्रायेण, मेधां ग्रहणेन, सञ्ज्ञां नामग्रहणेन, स्मृतिं स्मरणेन, ह्रियमपत्रपणेन, शीलमनुशीलनेन, द्वेषं प्रतिषेधेन, उपधिमनुबन्धेन [३], धृतिमलौल्येन, वश्यतां विधेयतया, वयोभक्तिसात्म्यव्याधिसमुत्थान
कालदेशोपशयवेदनाविशेषेण, गूढलिङ्गं
व्याधिमुपशयानुपशयाभ्यां दोषप्रमाणविशेषमपचारविशेषेण, आयुषः क्षयमरिष्टैः, उपस्थित श्रेयस्त्वं कल्याणाभिनिवेशेन, अमलं सत्त्वमविकारेण, ग्रहण्यास्तु मृदुदारुणत्वं स्वप्नदर्शनमभिप्रायं द्विष्टेष्टसुखदुःखानि [४] चातुरपरिप्रश्नेनैव विद्यादिति||८||
श्लोक 9-14
भवन्ति चात्र-
आप्ततश्चोपदेशेन प्रत्यक्षकरणेन च।
अनुमानेन च व्याधीन् सम्यग्विद्याद्विचक्षणः||९||
सर्वथा सर्वमालोच्य यथासम्भवमर्थवित्। अथाध्यवस्येत्तत्त्वे च कार्ये च तदनन्तरम् ||१०||
कार्यतत्त्वविशेषज्ञः प्रतिपत्तौ न मुह्यति । अमूढः फलमाप्नोति यदमोहनिमित्तजम्||११||
ज्ञानबुद्धिप्रदीपेन यो नाविशति तत्त्ववित् [१] | आतुरस्यान्तरात्मानं न स रोगांश्चिकित्सति ||१२||
तत्र श्लोकौ-
सर्वरोगविशेषाणां त्रिविधं ज्ञानसङ्ग्रहम्। यथा चोपदिशन्त्याप्ताः प्रत्यक्षं गृह्यते यथा ||१३||
ये यथा चानुमानेन ज्ञेयास्तांश्चाप्युदारधीः। भावांस्त्रिरोगविज्ञाने विमाने मुनिरुक्तवान्||१४||
पुष्पिका
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते विमानस्थाने त्रिविधरोगविशेषविज्ञानीयं विमानं नाम चतुर्थोऽध्यायः ||४||