रोगानीकविमानम्

श्लोक 1-2

अथातो रोगानीकं विमानं व्याख्यास्यामः ||१||
इति ह स्माह भगवानात्रेयः||२||

श्लोक 3

द्वे रोगानीके भवतः प्रभावभेदेन – साध्यम्, असाध्यं च; द्वे रोगानीके बलभेदेन – मृदु, दारुणं च; द्वे रोगानीके अधिष्ठानभेदेन- मनोऽधिष्ठानं, शरीराधिष्ठानं च; द्वे रोगानीके निमित्तभेदेन- स्वधातुवैषम्यनिमित्तम्, आगन्तुनिमित्तं च; द्वे रोगानीके आशयभेदेन- आमाशयसमुत्थं, पक्वाशयसमुत्थं चेति| एवमेतत् प्रभावबलाधिष्ठाननिमित्ताशयभेदाद्द्वैधं सद्भेदप्रकृत्यन्तरेण भिद्यमानमथवाऽपि सन्धीयमानं स्यादेकत्वं बहुत्वं वा ।
एकत्वं तावदेकमेव रोगानीकं, दुःखसामान्यात् [१] ; बहुत्वं तु दश रोगानीकानि प्रभावभेदादिना भवन्ति; बहुत्वमपि सङ्ख्येयं स्यादसङ्ख्येयं वा|
तत्र सङ्ख्येयं तावद्यथोक्तमष्टोदरीये, अपरिसङ्ख्येयं पुनर्यथा- महारोगाध्याये रुग्वर्णसमुत्थानादीनामसङ्ख्येयत्वात्||३||

श्लोक 4

न च सङ्ख्येयाग्रेषु भेदप्रकृत्यन्तरीयेषु विगीतिरित्यतो दोषवती स्यादत्र काचित् प्रतिज्ञा, न चाविगीतिरित्यतः स्याददोषवती। भेत्ता हि भेद्यमन्यथाभिनत्ति, अन्यथा पुरस्ताद्भिन्नं भेदप्रकृत्यन्तरेण भिन्दन्
च पूर्वं भेदाग्रमुपहन्ति|
भेदसङ्ख्याविशेषमापादयत्यनेकधा, न समानायामपि खलु भेदप्रकृतौ प्रकृतानुप्रयोगान्तरमपेक्ष्यम् [१] | सन्ति ह्यर्थान्तराणि समानशब्दाभिहितानि सन्ति चानर्थान्तराणि पर्यायशब्दाभिहितानि |
‘,
समानो हि रोगशब्दो दोषेषु च व्याधिषु च; दोषा ह्यपि रोगशब्दमातङ्कशब्दं यक्ष्मशब्दं दोषप्रकृतिशब्दं विकारशब्दं च लभन्ते, व्याधयश्च रोगशब्दमातङ्कशब्दं यक्ष्मशब्दं दोषप्रकृतिशब्दं विकारशब्दं च लभन्ते ।
तत्र दोषेषु चैव व्याधिषु च रोगशब्दः समानः, शेषेषु तु विशेषवान् ||४||

श्लोक 5-6

तत्र व्याधयोऽपरिसङ्ख्येया भवन्ति, अतिबहुत्वात्। दोषास्तु खलु परिसङ्ख्येया भवन्ति, अनतिबहुत्वात्। तस्माद्यथाचित्रं विकारानुदाहरणार्थम्, अनवशेषेण च दोषान्
व्याख्यास्यामः।
रजस्तमश्च मानसौ दोषौ । तयोर्विकाराः
कामक्रोधलोभमोहेर्ष्यामानमदशोकचित्तो(न्तो) द्वेगभयहर्षादयः । वातपित्तश्लेष्माणस्तु खलु शारीरा दोषाः ।
तेषामपि च विकारा ज्वरातीसारशोफशोषश्वासमेहकुष्ठादयः । इति दोषाः केवला व्याख्याता विकारैकदेशश्च||५||
तत्र खल्वेषां द्वयानामपि दोषाणां त्रिविधं प्रकोपणं; तद्यथा- असात्म्येन्द्रियार्थसंयोगः, प्रज्ञापराधः, परिणामश्चेति||६||

श्लोक 7

प्रकुपितास्तु खलु ते प्रकोपणविशेषाद्दृष्यविशेषाच्च
विकारविशेषानभिनिर्वर्तयन्त्यपरिसङ्ख्येयान्||७||

श्लोक 8

तेच विकाराः परस्परमनुवर्तमानाः कदाचिदनुबध्नन्ति कामादयो ज्वरादयश्च||८||

श्लोक 9

नियतस्त्वनुबन्धो रजस्तमसोः परस्परं, न ह्यरजस्कं तमः प्रवर्तते [१] ||९||

श्लोक 10

(प्रायः) शारीरदोषाणामेकाधिष्ठानीयानां सन्निपातः संसर्गो वा समानगुणत्वात्; दोषा हि दूषणैः समानाः||१०||

श्लोक 11

तत्रानुबन्ध्यानुबन्धकृतो विशेषः- स्वतन्त्रो व्यक्तलिङ्गो यथोक्तसमुत्थानप्रशमो भवत्यनुबन्ध्यः, तद्विपरीतलक्षणस्त्वनुबन्धः ।
अनुबन्ध्यलक्षणसमन्वितास्तत्र [१] यदि दोषा भवन्ति तत्त्रिकं सन्निपातमाचक्षते, द्वयं वा संसर्गम्। अनुबन्ध्यानुबन्धविशेषकृतस्तु बहुविधो दोषभेदः।
एवमेष सञ्ज्ञाप्रकृतो भिषजां दोषेषु व्याधिषु च
नानाप्रकृतिविशेषव्यूहः [२] ||११||

श्लोक 12

अग्निषु तु शारीरेषु चतुर्विधो विशेषो बलभेदेन भवति | तद्यथा – तीक्ष्णो, मन्दः, समो, विषमश्चेति|
तत्र तीक्ष्णोऽग्निः सर्वापचारसहः, तद्विपरीतलक्षणस्तु मन्दः, समस्तु खल्वपचारतो विकृतिमापद्यतेऽनपचारतस्तु प्रकृताववतिष्ठते, समलक्षणविपरीतलक्षणस्तु विषम इति | एते चतुर्विधा भवन्त्यग्नयश्चतुर्विधानामेव पुरुषाणाम्। तत्र समवातपित्तश्लेष्मणां प्रकृतिस्थानां समा भवन्त्यग्नयः, वातलानां तु वाताभिभूतेऽग्न्यधिष्ठाने विषमा भवन्त्यग्नयः, पित्तलानां तु पित्ताभिभूते ह्यग्न्यधिष्ठाने तीक्ष्णा भवन्त्यग्नयः, श्लेष्मलानां तु श्लेष्माभिभूतेऽग्न्यधिष्ठाने मन्दा भवन्त्यग्नयः ||१२||

श्लोक 13

तत्र केचिदाहुः- न समवातपित्तश्लेष्माणो जन्तवः सन्ति, विषमाहारोपयोगित्वान्मनुष्याणां; तस्माच्च वातप्रकृतयः केचित्, केचित् पित्तप्रकृतयः, केचित् पुनः श्लेष्मप्रकृतयो भवन्तीति । तच्चानुपपन्नं, कस्मात् कारणात् ? समवातपित्तश्लेष्माणं ह्यरोगमिच्छन्ति भिषजः, यतः [१] प्रकृतिश्चारोग्यम्, आरोग्यार्था च भेषजप्रवृत्तिः, सा चेष्टरूपा, तस्मात् सन्ति
समवातपित्तश्लेष्माणः; न खलु सन्ति वातप्रकृतयः पित्तप्रकृतयः श्लेष्मप्रकृतयो वा तस्य तस्य किल [२] दोषस्याधिक्यात् सा सा दोषप्रकृतिरुच्यते मनुष्याणां न च विकृतेषु दोषेषु प्रकृतिस्थत्वमुपपद्यते, तस्मान्नैताः प्रकृतयः सन्ति, सन्ति तु खलु वातलाः पित्तलाः श्लेष्मलाश्च, अप्रकृतिस्थास्तु ते ज्ञेयाः||१३||

श्लोक 14

तेषां तु खलु चतुर्विधानां पुरुषाणां चत्वार्यनुप्रणिधानानि [१] श्रेयस्कराणि भवन्ति|
तत्र समसर्वधातूनां सर्वाकारसमम्, अधिकदोषाणां तु त्रयाणां यथास्वं दोषाधिक्यमभिसमीक्ष्य दोषप्रतिकूलयोगीनि त्रीण्यनु (न) प्रणिधानानि श्रेयस्कराणि भवन्ति यावदग्नेः समीभावात्, समे तु सममेव कार्यम्; एवं चेष्टा भेषजप्रयोगाश्चापरे ।
तान् [२] विस्तरेणानुव्याख्यास्यामः||१४||

श्लोक 15-16

त्रयस्तु पुरुषा भवन्त्यातुराः, ते त्वनातुरास्तन्त्रान्तरीयाणां भिषजाम् | तद्यथा-वातलः, पित्तलः, श्लेष्मलश्चेति |
तेषामिदं विशेषविज्ञानं – वातलस्य वातनिमित्ताः, पित्तलस्य पित्तनिमित्ताः, श्लेष्मलस्य श्लेष्मनिमित्ता व्याधयः प्रायेण बलवन्तश्च भवन्ति||१५||
तत्र वातलस्य वातप्रकोपणान्यासेवमानस्य [१] क्षिप्रं वातः प्रकोपमापद्यते, न तथेतरौ दोषौ; स तस्य प्रकोपमापन्नो यथोक्तैर्विकारैः शरीरमुपतपति बलवर्णसुखायुषामुपघाताय | तस्यावजयनं- स्नेहस्वेदौ विधियुक्तौ, मृदूनि च संशोधनानि स्नेहोष्णमधुराम्ललवणयुक्तानि, तद्वदभ्यवहार्याणि, अभ्यङ्गोपनाहनोद्वेष्टनोन्मर्दनपरिषेकावगाहनसंवाहनावपीडनवित्रा सनविस्मापनविस्मारणानि, सुरासवविधानं, स्नेहाश्चानेकयोनयो दीपनीयपाचनीयवातहरविरेचनीयोपहितास्तथा शतपाकाः सहस्रपाकाः सर्वशश्च प्रयोगार्थाः, बस्तयः, बस्तिनियमः सुखशीलता चेति||१६||

श्लोक 17

पित्तलस्यापि पित्तप्रकोपणान्यासेवमानस्य [१] क्षिप्रं पित्तं प्रकोपमापद्यते, न तथेतरौ दोषौ; तदस्य प्रकोपमापन्नं यथोक्तैर्विकारैः शरीरमुपतपति बलवर्णसुखायुषामुपघाताय | तस्यावजयनं- सर्पिष्पानं, सर्पिषा च स्नेहनम्, अधश्च दोषहरणं, मधुरतिक्तकषायशीतानां चौषधाभ्यवहार्याणामुपयोगः, मृदुमधुरसुरभिशीतहृद्यानां गन्धानां चोपसेवा, मुक्तामणिहारावलीनां च परमशिशिरवारिसंस्थितानां धारणमुरसा, क्षणे क्षणेऽग्र्यचन्दनप्रियङ्गुकालीयमृणालशीतवातवारिभिरुत्पलकुमुदको कनदसौगन्धिकपद्मानुगतैश्च वारिभिरभिप्रोक्षणं, श्रुतिसुखमृदुमधुरमनोऽनुगानां च गीतवादित्राणां श्रवणं, श्रवणं चाभ्युदयानां, सुहृद्भिः संयोगः, संयोगश्चेष्टाभिः स्त्रीभिः शीतोपहितांशुकस्रग्धारिणीभिः, निशाकरांशुशीतलप्रवातहर्म्यवासः, शैलान्तरपुलिनशिशिरसदनवसनव्यजनपवनसेवनं, रम्याणां चोपवनानां सुखशिशिरसुरभिमारुतोपहितानामुपसेवनं, सेवनं च पद्मोत्पलनलिनकुमुदसौगन्धिकपुण्डरीकशतपत्रहस्तानां [२],
सौम्यानां च सर्वभावानामिति||१७||

श्लोक 18

श्लेष्मलस्यापि श्लेष्मप्रकोपणान्यासेवमानस्य [१] क्षिप्रं श्लेष्मा प्रकोपमापद्यते, न तथेतरौ दोषौ; स तस्य प्रकोपमापन्नो यथोक्तैर्विकारैः शरीरमुपतपति बलवर्णसुखायुषामुपघाताय | तस्यावजयनं- विधियुक्तानि तीक्ष्णोष्णानि संशोधनानि, रूक्षप्रायाणि चाभ्यवहार्याणि कटुकतिक्तकषायोपहितानि तथैव
धावनलङ्घनप्लवनपरिसरणजागरणनियुद्धव्यवायव्यायामोन्मर्दन
स्नानोत्सादनानि विशेषतस्तीक्ष्णानां दीर्घकालस्थितानां च मद्यानामुपयोगः, सधूमपानः सर्वशश्चोपवासः, तथोष्णं वासः, सुखप्रतिषेधश्च सुखार्थमेवेति||१८||

श्लोक 19

भवति चात्र-
सर्वरोगविशेषज्ञः सर्वकार्यविशेषवित्।
सर्वभेषजतत्त्वज्ञो राज्ञः प्राणपतिर्भवेदिति||१९||

श्लोक 20-22

तत्र श्लोका:-
प्रकृत्यन्तरभेदेन रोगानीकविकल्पनम्।
परस्पराविरोधश्च सामान्यं रोगदोषयोः||२०||
दोषसङ्ख्या विकाराणामेकदेशः प्रकोपणम्। जरणं प्रति चिन्ता च कायाग्नेर्धुक्षणानि [१] च||२१||
नराणां वातलादीनां प्रकृतिस्थापनानि च। रोगानीके विमानेऽस्मिन् व्याहृतानि महर्षिणा ||२२||

पुष्पिका

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते विमानस्थाने रोगानीकविमानं नाम षष्ठोऽध्यायः||६||