श्लोक 1-2
अथातः कतिधापुरुषीयं शारीरं व्याख्यास्यामः||१||
इति ह स्माह भगवानात्रेयः||२||
श्लोक 3-15
कतिधा पुरुषो धीमन्! धातुभेदेन भिद्यते। पुरुषः कारणं कस्मात्, प्रभवः पुरुषस्य कः||३||
किमज्ञो ज्ञः, स नित्यः किं किमनित्यो निदर्शितः | प्रकृतिः का, विकाराः के, किं लिङ्गं पुरुषस्य च||४||
निष्क्रियं च स्वतन्त्रं च वशिनं सर्वगं विभुम् | वदन्त्यात्मानमात्मज्ञाः क्षेत्रज्ञं साक्षिणं तथा||५||
निष्क्रियस्य क्रिया तस्य भगवन्! विद्यते कथम्| स्वतन्त्रश्चेदनिष्टासु कथं योनिषु जायते||६||
वशी यद्यसुखैः कस्माद्भावैराक्रम्यते बलात्। सर्वाः सर्वगतत्वाच्च वेदनाः किं न वेत्ति सः||७||
न पश्यति विभुः कस्माच्छैलकुड्यतिरस्कृतम्| क्षेत्रज्ञः क्षेत्रमथवा किं पूर्वमिति संशयः ||८||
ज्ञेयं क्षेत्रं विना पूर्वं क्षेत्रज्ञो हि न युज्यते । क्षेत्रं च यदि पूर्वं स्यात् क्षेत्रज्ञः स्यादशाश्वतः ||९||
साक्षिभूतश्च कस्यायं कर्ता ह्यन्यो न विद्यते । स्यात् कथं चाविकारस्य विशेषो वेदनाकृतः ||१०||
अथ चार्तस्य भगवंस्तिसृणां कां चिकित्सति| अतीतां वेदनां वैद्यो वर्तमानां भविष्यतीम्||११||
भविष्यन्त्या असम्प्राप्तिरतीताया अनागमः । साम्प्रतिक्या अपि स्थानं नास्त्यर्तेः संशयो ह्यतः ||१२||
कारणं वेदनानां किं किमधिष्ठानमुच्यते ।
क्व चैता वेदनाः सर्वा निवृत्तिं यान्त्यशेषतः||१३||
सर्ववित् सर्वसन्न्यासी सर्वसंयोगनिःसृतः । एकः प्रशान्तो भूतात्मा कैर्लिङ्गैरुपलभ्यते||१४||
इत्यग्निवेशस्य [१] वचः श्रुत्वा मतिमतां वरः । सर्वं यथावत् प्रोवाच प्रशान्तात्मा पुनर्वसुः||१५||
श्लोक 16
खादयश्चेतनाषष्ठा [१] धातवः पुरुषः स्मृतः । चेतनाधातुरप्येकः स्मृतः पुरुषसञ्ज्ञकः||१६||
श्लोक 17
पुनश्च धातुभेदेन चतुर्विंशतिकः स्मृतः ।
मनो दशेन्द्रियाण्यर्थाः प्रकृतिश्चाष्टधातुकी||१७||
श्लोक 18
लक्षणं मनसो ज्ञानस्याभावो भाव एव च। सति ह्यात्मेन्द्रियार्थानां सन्निकर्षे न वर्तते||१८||
वैवृत्त्यान्मनसो ज्ञानं सान्निध्यात्तच्च वर्तते। अणुत्वमथ चैकत्वं द्वौ गुणौ मनसः स्मृतौ||१९||
श्लोक 20-21
चिन्त्यं विचार्यमूह्यं च ध्येयं सङ्कल्प्यमेव च। यत्किञ्चिन्मनसो ज्ञेयं तत् सर्वं ह्यर्थसञ्ज्ञकम्||२०||
इन्द्रियाभिग्रहः कर्म मनसः स्वस्य निग्रहः| ऊहो विचारश्च ततः परं बुद्धिः प्रवर्तते||२१||
श्लोक 22-23
इन्द्रियेणेन्द्रियार्थो हि समनस्केन गृह्यते। कल्प्यते मनसा तूर्ध्वं गुणतो दोषतोऽथवा||२२||
जायते विषये तत्र या बुद्धिर्निश्चयात्मिका ।
व्यवस्यति तया वक्तुं कर्तुं वा बुद्धिपूर्वकम्||२३||
श्लोक 24
एकैकाधिकयुक्तानि खादीनामिन्द्रियाणि तु| पञ्च कर्मानुमेयानि येभ्यो बुद्धिः प्रवर्तते||२४||
श्लोक 25-26
हस्तौ पादौ [१] गुदोपस्थं वागिन्द्रियमथापि च। कर्मेन्द्रियाणि पञ्चैव पादौ गमनकर्मणि||२५||
पायूपस्थं विसर्गार्थं हस्तौ ग्रहणधारणे ।
जिह्वा वागिन्द्रियं वाक् च सत्या ज्योतिस्तमोऽनृता||२६||
श्लोक 27
महाभूतानि खं वायुरग्निरापः क्षितिस्तथा |
शब्दः स्पर्शश्च रूपं च रसो गन्धश्च तद्गुणाः||२७||
श्लोक 28
तेषामेकगुणः पूर्वो [१] गुणवृद्धिः परे परे ।
पूर्वः पूर्वगुणश्चैव [२] क्रमशो गुणिषु स्मृतः||२८||
श्लोक 29-30
खरद्रवचलोष्णत्वं भूजलानिलतेजसाम्। आकाशस्याप्रतीघातो दृष्टं लिङ्गं यथाक्रमम्||२९||
लक्षणं सर्वमेवैतत् स्पर्शनेन्द्रियगोचरम्। स्पर्शनेन्द्रियविज्ञेयः स्पर्शो हि सविपर्ययः||३०||
श्लोक 31
गुणाः शरीरे गुणिनां निर्दिष्टाश्चिह्नमेव च|३१|
श्लोक 31
अर्थाः शब्दादयो ज्ञेया गोचरा विषया गुणाः ||३१||
श्लोक 32-34
या यदिन्द्रियमाश्रित्य जन्तोर्बुद्धिः प्रवर्तते। याति सा तेन निर्देशं मनसा च मनोभवा ||३२||
भेदात् कार्येन्द्रियार्थानां बह्व्यो वै बुद्धयः स्मृताः। आत्मेन्द्रियमनोर्थानामेकैका [१] सन्निकर्षजा||३३||
अङ्गुल्यङ्गुष्ठतलजस्तन्त्रीवीणानखोद्भवः। दृष्टः शब्दो यथा बुद्धिर्दृष्टा संयोगजा तथा||३४||
श्लोक 35
बुद्धीन्द्रियमनोर्थानां विद्याद्योगधरं परम् । चतुर्विंशतिको ह्येष राशिः पुरुषसञ्ज्ञकः||३५||
श्लोक 36
रजस्तमोभ्यां युक्तस्य संयोगोऽयमनन्तवान्।
ताभ्यां निराकृताभ्यां तु सत्त्ववृद्ध्या [१] निवर्तते||३६||
श्लोक 37-38
अत्र कर्म फलं चात्र ज्ञानं चात्र प्रतिष्ठितम्।
अत्र मोहः सुखं दुःखं जीवितं मरणं स्वता ||३७||
एवं [१] यो वेद तत्त्वेन स वेद प्रलयोदयौ।
पारम्पर्यं चिकित्सां च ज्ञातव्यं [२] यच्च किञ्चन||३८||
श्लोक 39-42
भास्तमः सत्यमनृतं वेदाः कर्म शुभाशुभम्।
न स्युः कर्ता [१] च बोद्धा च पुरुषो न भवेद्यदि ||३९||
नाश्रयो न सुखं नार्तिर्न गतिर्नागतिर्न वाक्।
न विज्ञानं न शास्त्राणि न जन्म मरणं न च||४०||
न बन्धो न च मोक्षः स्यात् पुरुषो न भवेद्यदि | कारणं पुरुषस्तस्मात् कारणज्ञैरुदाहृतः||४१||
न चेत् कारणमात्मा स्याद्भादयः [२] स्युरहेतुकाः। न चैषु सम्भवेज् ज्ञानं न च तैः स्यात् प्रयोजनम्||४२||
श्लोक 43-44
कृतं मृद्दण्डचक्रैश्च कुम्भकारादृते घटम्। कृतं मृत्तृणकाष्ठैश्च गृहकाराद्विना गृहम्||४३||
यो वदेत् स वदेद्देहं सम्भूय करणैः कृतम् ।
विना कर्तारमज्ञानाद्युक्त्यागमबहिष्कृतः||४४||
श्लोक 45
कारणं पुरुषः सर्वैः प्रमाणैरुपलभ्यते।
येभ्यः प्रमेयं सर्वेभ्य आगमेभ्यः प्रमीयते||४५||
श्लोक 46-47
न ते तत्सदृशास्त्वन्ये पारम्पर्यसमुत्थिताः। सारूप्याद्ये त एवेति निर्दिश्यन्ते नवा नवाः ||४६||
भावास्तेषां समुदयो निरीशः सत्त्वसञ्ज्ञकः|
कर्ता भोक्ता न स पुमानिति केचिद्व्यवस्थिताः||४७||
श्लोक 48
तेषामन्यैः कृतस्यान्ये भावा [१] भावैर्नवाः फलम्। भुञ्जते सदृशाः प्राप्तं यैरात्मा नोपदिश्यते||४८||
श्लोक 49
करणान्यान्यता दृष्टा कर्तुः कर्ता स एव तु।
कर्ता हि करणैर्युक्तः कारणं सर्वकर्मणाम्||४९||
श्लोक 50-51
निमेषकालाद्भावानां कालः शीघ्रतरोऽत्यये । भग्नानां न [१] पुनर्भावः कृतं नान्यमुपैति च||५०||
मतं तत्त्वविदामेतद्यस्मात्तस्मात् स कारणम्| क्रियोपभोगे भूतानां नित्यः पुरुषसञ्ज्ञकः ||५१||
श्लोक 52
अहङ्कारः फलं कर्म देहान्तरगतिः स्मृतिः।
विद्यते सति भूतानां कारणे देहमन्तरा||५२||
श्लोक 53
प्रभवो न ह्यनादित्वाद्विद्यते परमात्मनः ।
पुरुषो राशिसञ्ज्ञस्तु मोहेच्छाद्वेषकर्मजः||५३||
श्लोक 54-55
आत्माज्ञः करणैर्योगाज् ज्ञानं त्वस्य प्रवर्तते। करणानामवैमल्यादयोगाद्वा न वर्तते||५४||
पश्यतोऽपि यथाऽऽदर्शे सङ्क्लिष्टे नास्ति दर्शनम्।
तत्त्वं [१] जले वा कलुषे चेतस्युपहते तथा||५५||
श्लोक 56-57
करणानि मनो बुद्धिर्बुद्धिकर्मेन्द्रियाणि च। कर्तुः संयोगजं कर्म वेदना बुद्धिरेव च||५६||
नैकः प्रवर्तते कर्तुं भूतात्मा नाश्नुते फलम्। संयोगाद्वर्तते सर्वं तमृते नास्ति किञ्चन||५७||
श्लोक 58
न ह्येको वर्तते भावो वर्तते नाप्यहेतुकः। शीघ्रगत्वात्स्वभावात्त्वभावो [१] न व्यतिवर्तते||५८||
श्लोक 59
अनादिः पुरुषो नित्यो विपरीतस्तु हेतुजः । सदकारणवन्नित्यं दृष्टं हेतुजमन्यथा||५९||
श्लोक 60-62
तदेव भावादग्राह्यं नित्यत्व [१] न कुतश्चन | भावाज्ज्ञेयं तदव्यक्तमचिन्त्यं व्यक्तमन्यथा||६०||
अव्यक्तमात्मा क्षेत्रज्ञः शाश्वतो विभुरव्ययः। तस्माद्यदन्यत्तद्व्यक्तं, वक्ष्यते चापरं द्वयम्||६१||
व्यक्तमैन्द्रियकं चैव गृह्यते तद्यदिन्द्रियैः ।
अतोऽन्यत् पुनरव्यक्तं लिङ्गग्राह्यमतीन्द्रियम्||६२||
श्लोक 63-64
खादीनि बुद्धिरव्यक्तमहङ्कारस्तथाऽष्टमः| भूतप्रकृतिरुद्दिष्टा विकाराश्चैव षोडश||६३||
बुद्धीन्द्रियाणि पञ्चैव पञ्च कर्मेन्द्रियाणि च। समनस्काश्च पञ्चार्था विकारा इति सञ्ज्ञिताः||६४||
श्लोक 65
इति क्षेत्रं समुद्दिष्टं सर्वमव्यक्तवर्जितम्। अव्यक्तमस्य क्षेत्रस्य क्षेत्रज्ञमृषयो विदुः ||६५||
श्लोक 66-67
जायते बुद्धिरव्यक्ताद्बुद्ध्याऽहमिति मन्यते। परं खादीन्यहङ्कारादुत्पद्यन्ते [१] यथाक्रमम् ||६६||
ततः सम्पूर्णसर्वाङ्गो जातोऽभ्युदित उच्यते|६७|
श्लोक 68-69
पुरुषः प्रलये चेष्टैः पुनर्भावैर्वियुज्यते||६७|| अव्यक्ताद्व्यक्ततां याति व्यक्तादव्यक्ततां पुनः। रजस्तमोभ्यामाविष्टश्चक्रवत् परिवर्तते||६८||
येषां द्वन्द्वे परा सक्तिरहङ्कारपराश्च ये। उदयप्रलयौ तेषां न तेषां ये त्वतोऽन्यथा ||६९||
श्लोक 70-74
प्राणापानौ निमेषाद्या जीवनं मनसो गतिः। इन्द्रियान्तरसञ्चारः प्रेरणं धारणं च यत्||७०||
देशान्तरगतिः स्वप्ने पञ्चत्वग्रहणं तथा| दृष्टस्य दक्षिणेनाक्ष्णा सव्येनावगमस्तथा||७१||
इच्छा द्वेषः सुखं दुःखं प्रयत्नश्चेतना धृतिः । बुद्धिः स्मृतिरहङ्कारो लिङ्गानि परमात्मनः||७२||
यस्मात् समुपलभ्यन्ते लिङ्गान्येतानि जीवतः । न मृतस्यात्मलिङ्गानि तस्मादाहुर्महर्षयः||७३||
शरीरं हि गते तस्मिञ् शून्यागारमचेतनम्। पञ्चभूतावशेषत्वात् पञ्चत्वं गतमुच्यते||७४||
श्लोक 75-76
अचेतनं क्रियावच्च मनश्चेतयिता परः ।
युक्तस्य मनसा तस्य निर्दिश्यन्ते विभोः क्रियाः||७५||
चेतनावान् यतश्चात्मा ततः कर्ता निरुच्यते। अचेतनत्वाच्च मनः क्रियावदपि नोच्यते||७६||
श्लोक 77
यथास्वेनात्मनाऽऽत्मानं सर्वः सर्वासु योनिषु ।
प्राणैस्तन्त्रयते प्राणी नह्यन्योऽस्त्यस्य तन्त्रकः||७७||
श्लोक 78
वशी तत् कुरुते कर्म यत् कृत्वा फलमश्नुते।
वशी चेतः समाधत्ते वशी सर्वं निरस्यति||७८||
श्लोक 79
देही सर्वगतोऽप्यात्मा [१] स्वे स्वे संस्पर्शनेन्द्रिये| सर्वाः सर्वाश्रयस्थास्तु नात्माऽतो वेत्ति वेदनाः||७९||
श्लोक 80-81
विभुत्वमत एवास्य यस्मात् सर्वगतो महान्। मनसश्च समाधानात् पश्यत्यात्मा तिरस्कृतम्||८०||
नित्यानुबन्धं मनसा देहकर्मानुपातिना | सर्वयोनिगतं विद्यादेकयोनावपि स्थितम्||८१||
श्लोक 82
आदिर्नास्त्यात्मनः [१] क्षेत्रपारम्पर्यमनादिकम्। अतस्तयोरनादित्वात् किं पूर्वमिति नोच्यते||८२||
श्लोक 83
ज्ञः साक्षीत्युच्यते नाज्ञः साक्षी त्वात्मा यतः स्मृतः । सर्वे भावा हि सर्वेषां भूतानामात्मसाक्षिकाः||८३||
श्लोक 84-85
नैकः कदाचिद्भूतात्मा लक्षणैरुपलभ्यते। विशेषोऽनुपलभ्यस्य तस्य नैकस्य विद्यते||८४||
संयोगपुरुषस्येष्टो विशेषो वेदनाकृतः।
वेदना यत्र नियता विशेषस्तत्र तत्कृतः||८५||
श्लोक 86-94
चिकित्सति भिषक् सर्वास्त्रिकाला वेदना इति | यया युक्त्या वदन्त्येके सा युक्तिरुपधार्यताम् ||८६||
पुनस्तच्छिरसः शूलं ज्वरः स पुनरागतः। पुनः स कासो बलवांश्छर्दिः सा पुनरागता || ८७||
एभिः प्रसिद्धवचनैरतीतागमनं मतम्। कालश्चायमतीतानामर्तीनां पुनरागतः ||८८||
तमर्तिकालमुद्दिश्य भेषजं यत् प्रयुज्यते। अतीतानां प्रशमनं वेदनानां तदुच्यते ||८९||
आपस्ताः पुनरागुर्मा याभिः शस्यं पुरा हतम् | यथा प्रक्रियते सेतुः प्रतिकर्म तथाऽऽश्रये ||१०||
पूर्वरूपं विकाराणां दृष्ट्वा प्रादुर्भविष्यताम्। या क्रिया क्रियते सा च वेदनां हन्त्यनागताम् ||११||
पारम्पर्यानबन्धस्तु दुःखानां विनिवर्तते । सुखहेतूपचारेण सुखं चापि प्रवर्तते ||९२||
न समा यान्ति वैषम्यं विषमाः समतां न च| हेतुभिः सदृशा नित्यं जायन्ते देहधातवः||९३||
युक्तिमेतां पुरस्कृत्य त्रिकालां वेदनां भिषक्। हन्तीत्युक्तं चिकित्सा तु नैष्ठिकी या विनोपधाम्||९४||
श्लोक 95-97
उपधा हि परो हेतुर्दुःखदुःखाश्रयप्रदः । त्यागः सर्वोपधानां च सर्वदुःखव्यपोहकः||९५||
कोषकारो यथा ह्यंशूनुपादत्ते वधप्रदान् [१] | उपादत्ते तथाऽर्थेभ्यस्तृष्णामज्ञः सदाऽऽतुरः ||९६||
यस्त्वग्निकल्पानर्थाञ् ज्ञो ज्ञात्वा तेभ्यो निवर्तते। अनारम्भादसंयोगात्तं दुःखं नोपतिष्ठते ||९७||
श्लोक 98
धीधृतिस्मृतिविभ्रंशः सम्प्राप्तिः कालकर्मणाम्| असात्म्यार्थागमश्चेति ज्ञातव्या दुःखहेतवः||९८||
श्लोक 99
विषमाभिनिवेशो यो नित्यानित्ये हिताहिते। ज्ञेयः स बुद्धिविभ्रंशः समं बुद्धिर्हि पश्यति||९९||
श्लोक 100
विषयप्रवणं सत्त्वं धृतिभ्रंशान्न शक्यते । नियन्तुमहितादर्थाद्धृतिर्हि नियमात्मिका||१००||
श्लोक 101
तत्त्वज्ञाने स्मृतिर्यस्य रजोमोहावृतात्मनः ।
भ्रश्यते स स्मृतिभ्रंशः स्मर्तव्यं हि स्मृतौ स्थितम्||१०१||
श्लोक 102-108
धृतिस्मृतिविभ्रष्टः कर्म यत् कुरुतेऽशुभम्। प्रज्ञापराधं तं विद्यात् सर्वदोषप्रकोपणम्||१०२||
उदीरणं गतिमतामुदीर्णानां च निग्रहः ।
सेवनं साहसानां च नारीणां चातिसेवनम् || १०३||
कर्मकालातिपातश्च मिथ्यारम्भश्च कर्मणाम् | विनयाचारलोपश्च पूज्यानां चाभिधर्षणम्||१०४||
ज्ञातानां स्वयमर्थानामहितानां निषेवणम् | परमौन्मादिकानां च प्रत्ययानां निषेवणम् || १०५ ||
अकालादेशसञ्चारौ मैत्री सङ्क्लिष्टकर्मभिः। इन्द्रियोपक्रमोक्तस्य सद्वृत्तस्य च वर्जनम्||१०६||
ईर्ष्यामानभयक्रोधलोभमोहमदभ्रमाः ।
तज्जं वा कर्म यत् क्लिष्टं क्लिष्टं यद्देहकर्म च ||१०७||
यच्चान्यदीदृशं कर्म रजोमोहसमुत्थितम्।
प्रज्ञापराधं तं शिष्टा ब्रुवते व्याधिकारणम् [१] ||१०८||
श्लोक 109
बुद्ध्या विषमविज्ञानं विषमं च प्रवर्तनम् |
प्रज्ञापराधं जानीयान्मनसो गोचरं हि तत् ||१०९||
श्लोक 110-112
निर्दिष्टा कालसम्प्राप्तिर्व्याधीनां व्याधिसङ्ग्रहे| चयप्रकोपप्रशमाः पित्तादीनां यथा पुरा | | ११०||
मिथ्यातिहीनलिङ्गाश्च वर्षान्ता रोगहेतवः । जीर्णभुक्तप्रजीर्णान्नकालाकालस्थितिश्च [१] या||१११||
पूर्वमध्यापराह्णाश्च रात्र्या यामास्त्रयश्च ये।
एषु कालेषु नियता ये रोगास्ते च कालजाः ||११२||
श्लोक 113
अन्येद्युष्को द्वयहग्राही तृतीयकचतुर्थको
स्वे स्वे काले प्रवर्तन्ते काले ह्येषां बलागमः||११३||
श्लोक 114
एते चान्ये [१] च ये केचित् कालजा विविधा गदाः। अनागते चिकित्स्यास्ते बलकालौ विजानता||११४||
श्लोक 115
कालस्य परिणामेन जरामृत्युनिमित्तजाः ।
रोगाः स्वाभाविका दृष्टाः स्वभावो निष्प्रतिक्रियः ||११५||
श्लोक 116
निर्दिष्टं दैवशब्देन कर्म यत् पौर्वदेहिकम्।
हेतुस्तदपि कालेन
रोगाणामुपलभ्यते||११६||
श्लोक 117
न हि कर्म महत् किञ्चित् फलं यस्य न भुज्यते| क्रियाघ्नाः कर्मजा रोगाः प्रशमं यान्ति तत्क्षयात्||११७||
श्लोक 118-127
अत्युग्रशब्दश्रवणाच्छ्रवणात् सर्वशो न च। शब्दानां चातिहीनानां भवन्ति श्रवणाज्जडाः ||११८||
परुषोद्भीषणाशस्ताप्रियव्यसनसूचकैः।
शब्दैः श्रवणसंयोगो मिथ्यासंयोग उच्यते||११९||
असंस्पर्शोऽतिसंस्पर्शो हीनसंस्पर्श एव च| स्पृश्यानां सङ्ग्रहेणोक्तः स्पर्शनेन्द्रियबाधकः ||१२०||
यो भूतविषवातानामकालेनागतश्च यः। स्नेहशीतोष्णसंस्पर्शो मिथ्यायोग स उच्यते||१२१||
रूपाणां भास्वतां दृष्टिर्विनश्यत्यतिदर्शनात्| दर्शनाच्चातिसूक्ष्माणां सर्वशश्चाप्यदर्शनात्||१२२||
द्विष्टभैरवबीभत्सदूरातिश्लिष्टदर्शनात् [१] | तामसानां च रूपाणां मिथ्यासंयोग उच्यते||१२३||
अत्यादानमनादानमोकसात्म्यादिभिश्च यत् |
रसानां विषमादानमल्पादानं च दूषणम्||१२४||
अतिमृद्वतितीक्ष्णानां गन्धानामुपसेवनम्।
असेवनं सर्वशश्च घ्राणेन्द्रियविनाशनम्||१२५||
पूतिभूतविषद्विष्टा गन्धा ये चाप्यनार्तवाः । तैर्गन्धैर्घाणसंयोगो मिथ्यायोगः स उच्यते ||१२६||
इत्यसात्म्यार्थसंयोगस्त्रिविधो दोषकोपनः|१२७|
श्लोक 127
असात्म्यमिति तद्विद्याद्यन्न याति सहात्मताम्||१२७||
श्लोक 128
मिथ्यातिहीनयोगेभ्यो यो व्याधिरुपजायते ।
शब्दादीनां स विज्ञेयो व्याधिरैन्द्रियको बुधैः||१२८||
श्लोक 129
वेदनानामशान्तानामित्येते [१] हेतवः स्मृताः | सुखहेतुः समस्त्वेकः समयोगः सुदुर्लभः||१२९||
श्लोक 130-131
नेन्द्रियाणि न चैवार्थाः सुखदुःखस्य हेतवः। हेतुस्तु सुखदुःखस्य योगो दृष्टश्चतुर्विधः||१३०||
सन्तीन्द्रियाणि सन्त्यर्था योगो न [१] च न चास्ति रुक् | न सुखं, कारणं तस्माद्योग एव चतुर्वधः||१३१||
श्लोक 132
नात्मेन्द्रियं मनो बुद्धिं गोचरं [१] कर्म वा विना| सुखदुःखं, यथा यच्च बोद्धव्यं तत्तथोच्यते||१३२||
श्लोक 133
स्पर्शनेन्द्रियसंस्पर्शः स्पर्शो मानस एव च|
द्विविधः सुखदुःखानां वेदनानां प्रवर्तकः||१३३||
श्लोक 134-135
इच्छाद्वेषात्मिका तृष्णा सुखदुःखात् प्रवर्तते । तृष्णा च सुखदुःखानां कारणं पुनरुच्यते||१३४||
उपादत्ते हि सा भावान् वेदनाश्रयसञ्ज्ञकान्। स्पृश्यते नानुपादाने नास्पृष्टो वेत्ति वेदनाः||१३५||
श्लोक 136
वेदनानामधिष्ठानं मनो देहश्च सेन्द्रियः। केशलोमनखाग्रान्नमलद्रवगुणैर्विना ||१३६||
श्लोक 137
योगे मोक्षे च सर्वासां वेदनानामवर्तनम्।
मोक्षे निवृत्तिर्निःशेषा योगो मोक्षप्रवर्तकः||१३७||
श्लोक 138-139
आत्मेन्द्रियमनोर्थानां सन्निकर्षात् प्रवर्तते। सुखदुःखमनारम्भादात्मस्थे मनसि स्थिरे ||१३८||
निवर्तते तदुभयं वशित्वं चोपजायते। सशरीरस्य योगज्ञास्तं योगमृषयो विदुः||१३९||
श्लोक 140-141
आवेशश्चेतसो ज्ञानमर्थानां छन्दतः क्रिया | दृष्टिः श्रोत्रं स्मृतिः कान्तिरिष्टतश्चाप्यदर्शनम्||१४०||
इत्यष्टविधमाख्यातं योगिनां बलमैश्वरम्।
शुद्धसत्त्वसमाधानात्तत्
सर्वमुपजायते||१४१||
श्लोक 142
मोक्षो रजस्तमोऽभावात् बलवत्कर्मसङ्क्षयात् । वियोगः सर्वसंयोगैरपुनर्भव उच्यते||१४२||
श्लोक 143-146
सतामुपासनं सम्यगसतां परिवर्जनम्। व्रतचर्योपवासौ च नियमाश्च पृथग्विधाः ||१४३||
धारणं धर्मशास्त्राणां विज्ञानं विजने रतिः| विषयेष्वरतिर्मोक्षे व्यवसायः परा धृतिः ||१४४||
कर्मणामसमारम्भः कृतानां च परिक्षयः ।
नैष्क्रम्यमनहङ्कारः [१] संयोगे भयदर्शनम्||१४५||
मनोबुद्धिसमाधानमर्थतत्त्वपरीक्षणम्।
तत्त्वस्मृतेरुपस्थानात् सर्वमेतत् प्रवर्तते||१४६||
श्लोक 147
स्मृतिः सत्सेवनाद्यैश्च धृत्यन्तैरुपजायते।
स्मृत्वा स्वभावं भावानां स्मरन् दुःखात् प्रमुच्यते||१४७||
श्लोक 148-149
वक्ष्यन्ते कारणान्यष्टौ स्मृतिर्यैरुपजायते । निमित्तरूपग्रहणात् सादृश्यात् सविपर्ययात्||१४८||
सत्त्वानुबन्धादभ्यासाज्ज्ञानयोगात् पुनः श्रुतात्| दृष्टश्रुतानुभूतानां स्मारणात् स्मृतिरुच्यते||१४९||
श्लोक 150-151
एतत्तदेकमयनं मुक्तैर्मोक्षस्य दर्शितम्। तत्त्वस्मृतिबलं, येन गता न पुनरागताः||१५०||
अयनं पुनराख्यातमेतद्योगस्य योगिभिः । सङ्ख्यातधर्मैः साङ्ख्यैश्च मुक्तैर्मोक्षस्य चायनम्|| १५१||
श्लोक 152-153
सर्वं कारणवद्दुःखमस्वं चानित्यमेव च। न चात्मकृतकं तद्धि तत्र चोत्पद्यते स्वता||१५२||
यावन्नोत्पद्यते सत्या बुद्धिर्नैतदहं यया । नैतन्ममेति विज्ञाय ज्ञः सर्वमतिवर्तते||१५३||
श्लोक 154
तस्मिंश्चरमसन्न्यासे समूलाः सर्ववेदनाः।
ससञ्ज्ञाज्ञानविज्ञाना [१] निवृत्तिं यान्त्यशेषतः||१५४||
श्लोक 155
अतः परं ब्रह्मभूतो भूतात्मा नोपलभ्यते । निःसृतः सर्वभावेभ्यश्चिह्नं यस्य न विद्यते।
ज्ञानं ब्रह्मविदां चात्र नाज्ञस्तज्ज्ञातुमर्हति ||१५५||
श्लोक 156
तत्र श्लोक:-
प्रश्नाः पुरुषमाश्रित्य त्रयोविंशतिरुत्तमाः । कतिधापुरुषीयेऽस्मिन्निर्णीतास्तत्त्वदर्शिना||१५६||
पुष्पिका
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते शारीरस्थाने कतिधापुरुषीयं शारीरं नाम प्रथमोऽध्यायः ||१||