श्लोक 1-2
अथातो वर्णस्वरीयमिन्द्रियं व्याख्यास्यामः || १||
इति ह स्माह भगवानात्रेयः||२||
श्लोक 3
इह खलु वर्णश्च स्वरश्च गन्धश्च रसश्च स्पर्शश्च चक्षुश्च श्रोत्रं च घ्राणं च रसनं च स्पर्शनं च सत्त्वं च भक्तिश्च शौचं च शीलं चाचारश्च स्मृतिश्चाकृतिश्च प्रकृतिश्च विकृतिश्च बलं च ग्लानिश्च मेधा च हर्षश्च रौक्ष्यं च स्नेहश्च तन्द्रा चारम्भश्च गौरवं च लाघवं च गुणाश्चाहारश्च विहारश्चाहारपरिणामश्चोपायश्चापायश्च व्याधिश्च व्याधिपूर्वरूपं च वेदनाश्चोपद्रवाश्च च्छाया च प्रतिच्छाया च स्वप्नदर्शनं च दूताधिकारश्च पथि चौत्पातिकं चातुरकुले भावावस्थान्तराणि च भेषजसंवृत्तिश्च [१] भेषजविकारयुक्तिश्चेति परीक्ष्याणि प्रत्यक्षानुमानोपदेशैरायुषः प्रमाणावशेषं जिज्ञासमानेन भिषजा
||3||
श्लोक 4
तत्र तु खल्वेषां परीक्ष्याणां कानिचित् पुरुषमनाश्रितानि, कानिचिच्च पुरुषसंश्रयाणि |
तत्र यानि पुरुषमनाश्रितानि तान्युपदेशतो युक्तितश्च परीक्षेत, पुरुषसंश्रयाणि पुनः प्रकृतितो विकृतितश्च||४||
श्लोक 5
तत्र प्रकृतिर्जातिप्रसक्ता च, कुलप्रसक्ता च, देशानुपातिनी [१]
च, कालानुपातिनी च वयोऽनुपातिनी च, प्रत्यात्मनियता चेति| जातिकुलदेशकालवयःप्रत्यात्मनियता हि तेषां तेषां पुरुषाणां ते ते भावविशेषा भवन्ति||५||
श्लोक 6
विकृतिः पुनर्लक्षणनिमित्ता च, लक्ष्यनिमित्ता च, निमित्तानुरूपा च||६||
श्लोक 7(1)
तत्र लक्षणनिमित्ता नाम सा यस्याः शरीरे लक्षणान्येव हेतुभूतानि भवन्ति दैवात्; लक्षणानि हि कानिचिच्छरीरोपनिबद्धानि भवन्ति, यानि हि तस्मिंस्तस्मिन् काले तत्राधिष्ठानमासाद्य तां तां विकृतिमुत्पादयन्ति|७|
श्लोक 7(2)
लक्ष्यनिमित्ता तु सा यस्या उपलभ्यते निमित्तं यथोक्तं [१] निदानेषु|७|
श्लोक 7
निमित्तानुरूपा तु निमित्तार्थानुकारिणी या, तामनिमित्तां निमित्तमायुषः प्रमाणज्ञानस्येच्छन्ति भिषजो भूयश्चायुषः क्षयनिमित्तां प्रेतेलिङ्गानुरूपां, यामायुषोऽन्तर्गतस्य [१] ज्ञानार्थमुपदिशन्ति धीराः |
यां चाधिकृत्य पुरुषसंश्रयाणि मुमूर्षतां लक्षणान्युपदेक्ष्यामः | इत्युद्देशः।
तं विस्तरेणानुव्याख्यास्यामः||७||
श्लोक 8
तत्रादित एव वर्णाधिकारः।
तद्यथा- कृष्णः, श्यामः [१], श्यामावदातः, अवदातश्चेति प्रकृतिवर्णाः शरीरस्य भवन्ति; यांश्चापरानुपेक्षमाणो [२] विद्यादनूकतोऽन्यथा वाऽपि निर्दिश्यमानांस्तज्ज्ञैः ||८||
श्लोक 9
नीलश्यावताम्रहरितशुक्लाश्च वर्णाः शरीरस्य वैकारिका भवन्ति; यांश्चापरानुपेक्षमाणो [१] विद्यात् प्राग्विकृतानभूत्वोत्पन्नान् [२] | इति प्रकृतिविकृतिवर्णा भवन्त्युक्ताः शरीरस्य |
तत्र प्रकृतिवर्णमर्धशरीरे विकृतिवर्णमर्धशरीरे, द्वावपि वर्णौ मर्यादाविभक्तौ दृष्ट्वा; यद्येवं सव्यदक्षिणविभागेन, यद्येवं पूर्वपश्चिमविभागेन, यद्युत्तराधरविभागेन, यद्यन्तर्बहिर्विभागेन, आतुरस्यारिष्टमिति विद्यात्; एवमेव वर्णभेदो मुखेऽप्यन्यत्र [३] वर्तमानो मरणाय भवति||९||
श्लोक 10
वर्णभेदेन ग्लानिहर्षरौक्ष्यस्नेहा व्याख्याताः ||१०||
श्लोक 11
तथा पिप्लुव्यङ्गतिलकालकपिडकानामन्यतमस्यानने जन्मातुरस्यैवमेवाप्रशस्तं विद्यात्||११||
श्लोक 12
नखनयनवदनमूत्रपुरीषहस्तपादौष्ठादिष्वपि च
वैकारिकोक्तानां वर्णानामन्यतमस्य प्रादुर्भावो
हीनबलवर्णेन्द्रियेषु लक्षणमायुषः क्षयस्य भवति||१२||
श्लोक 13
यच्चान्यदपि किञ्चिद्वर्णवैकृतमभूतपूर्वं सहसोत्पद्येतानिमित्तमेव हीयमानस्यातुरस्य शश्वत्, तदरिष्टमिति विद्यात् ।
इति वर्णाधिकारः||१३||
श्लोक 14
स्वराधिकारस्तु-
हंसक्रौञ्चनेमिदुन्दुभिकलविङ्ककाककपोतजर्जरानुकाराः प्रकृतिस्वरा भवन्ति; यांश्चापरानुपेक्षमाणोऽपि [१] विद्यादनूकतोऽन्यथा वाऽपि निर्दिश्यमानांस्तज्ज्ञैः । एडककलग्रस्ताव्यक्तगद्गदक्षामदीनानुकीर्णास्त्वातुराणां
[२] स्वरा वैकारिका भवन्ति; यांश्चापरानुपेक्षमाणोऽपि [३] विद्यात् प्राग्विकृतानभूत्वोत्पन्नान् [४] ।
इति प्रकृतिविकृतिस्वरा व्याख्याता भवन्ति ||१४||
श्लोक 15-16
तत्र प्रकृतिवैकारिकाणां स्वराणामाश्वभिनिर्वृत्तिः स्वरानेकत्वमेकस्य [१] चानेकत्वमप्रशस्तम्| इति स्वराधिकारः ||१५||
इति वर्णस्वराधिकारौ यथावदुक्तौ मुमूर्षतां लक्षणज्ञानार्थमिति||१६||
श्लोक 17-26
भवन्ति चात्र-
यस्य वैकारिको वर्णः शरीर उपपद्यते।
अर्धे वा यदि वा कृत्स्ने निमित्तं न च नास्ति सः||१७||
नीलं वा यदि वा श्यावं ताम्रं वा यदि वाऽरुणम्। मुखार्धमन्यथा वर्णो मुखार्धेऽरिष्टमुच्यते ||१८||
स्नेहो मुखार्थे सुव्यक्तो रौक्ष्यमर्धमुखे [१] भृशम् | ग्लानिरर्धे तथा हर्षो मुखार्धे प्रेतलक्षणम्||१९||
तिलकाः पिप्लवो व्यङ्गा राजयश्च पृथग्विधाः। आतुरस्याशु जायन्ते मुखे प्राणान् मुमुक्षतः||२०||
पुष्पाणि नखदन्तेषु पङ्को वा दन्तसंश्रितः । चूर्णको वाऽपि दन्तेषु लक्षणं मरणस्य [२] तत्||२१||
ओष्ठयोः पादयोः पाण्योरक्ष्णोर्मूत्रपुरीषयोः। नखेष्वपि च वैवर्ण्यमेतत् क्षीणबलेऽन्तकृत् ||२२||
यस्य नीलावुभावोष्ठौ पक्वजाम्बवसन्निभौ। मुमूर्षुरिति तं विद्यान्नरो धीरो गतायुषम् ||२३||
एको वा यदि वाऽनेको यस्य वैकारिकः स्वरः । सहसोत्पद्यते जन्तोर्हीयमानस्य नास्ति सः||२४||
यच्चान्यदपि किञ्चित् स्याद्वैकृतं स्वरवर्णयोः। बलमांसविहीनस्य तत् सर्वं मरणोदयम् [३] ||२५||
तत्र श्लोक:-
इति वर्णस्वरावुक्तौ लक्षणार्थं मुमूर्षताम् । यस्तौ [४] सम्यग्विजानाति नायुर्ज्ञाने स मुह्यति ||२६||
पुष्पिका
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते इन्द्रियस्थाने वर्णस्वरीयमिन्द्रियं नाम प्रथमोऽध्यायः||१||