श्लोक 1-2
अथातः कतमानिशरीरीयमिन्द्रियं व्याख्यास्यामः||१||
इति ह स्माह भगवानात्रेयः||२||
श्लोक 3-6
कतमानि शरीराणि व्याधिमन्ति महामुने! | यानि वैद्यः परिहरेद्येषु कर्म न सिद्ध्यति || ३ ||
इत्यात्रेयोऽग्निवेशेन [१] प्रश्नं पृष्टः सुदुर्वचम्। -आचचक्षे यथा तस्मै भगवांस्तन्निबोधत||४||
यस्य वै भाषमाणस्य रुजत्यूर्ध्वमुरो भृशम्। अन्नं च च्यवते भुक्तं स्थितं चापि न जीर्यति||५||
बलं च हीयते शीघ्रं [२] तृष्णा चातिप्रवर्धते। जायते हृदि शूलं च तं भिषक् परिवर्जयेत् ||६||
श्लोक 7-10
हिक्का गम्भीरजा यस्य शोणितं चातिसार्यते। न तस्मै भेषजं दद्यात् स्मरन्नात्रेयशासनम्||७||
आनाहश्चातिसारश्च यमेतौ दुर्बलं नरम् । व्याधितं विशतो रोगौ दुर्लभं तस्य जीवितम्||८||
आनाहश्चातितृष्णा च यमेतौ दुर्बलं नरम् | विशतो विजहत्येनं प्राणा नातिचिरान्नरम् ||९||
ज्वरः पौर्वाह्निको यस्य शुष्ककासश्च दारुणः| बलमांसविहीनस्य यथा प्रेतस्तथैव सः || १०||
श्लोक 11-14
यस्य मूत्रं पुरीषं च ग्रथितं सम्प्रवर्तते । निरूष्मणो जठरिणः श्वसनो न स जीवति ||११||
श्वयथुर्यस्य कुक्षिस्थो हस्तपादं विसर्पति।
ज्ञातिसङ्घ स सङ्क्लेश्य तेन रोगेण हन्यते || १२||
श्वयथुर्यस्य पादस्थस्तथा स्रस्ते च पिण्डिके। सीदतश्चाप्युभे जङ्घे [१] तं भिषक् परिवर्जयेत्||१३||
शूनहस्तं शूनपादं शूनगुह्योदरं नरम्। हीनवर्णबलाहारमौषधैर्नोपपादयेत्||१४||
श्लोक 15-19
उरोयुक्तो [१] बहु श्लेष्मा नीलः पीतः सलोहितः | सततं च्यवते यस्य दूरात्तं परिवर्जयेत्||१५||
हृष्टरोमा सान्द्रमूत्रः शूनः कासज्वरार्दितः [२] | क्षीणमांसो नरो दूराद्वर्ज्यो वैद्येन जानता||१६||
त्रयः प्रकुपिता यस्य दोषाः कष्टाभिलक्षिताः [३] | कृशस्य बलहीनस्य नास्ति तस्य चिकित्सितम्||१७||
ज्वरातिसारौ शोफान्ते श्वयथुर्वा तयोः क्षये। दुर्बलस्य विशेषेण नरस्यान्ताय जायते||१८||
पाण्डुरश्च कृशोऽत्यर्थं तृष्णयाऽभिपरिप्लुतः। डम्बरी कुपितोच्छ्वासः प्रत्याख्येयो विजानता||१९||
श्लोक 20
हनुमन्याग्रहस्तृष्णा बलह्रासोऽतिमात्रया| प्राणाश्चोरसि वर्तन्ते यस्य तं परिवर्जयेत्||२०||
श्लोक 21-25
ताम्यत्यायच्छते [१] शर्म न किञ्चिदपि विन्दति। क्षीणमांसबलाहारो मुमूर्षुरचिरान्नरः ||२१||
विरुद्धयोनयो यस्य विरुद्धोपक्रमा भृशम्।
वर्धन्ते [२] दारुणा रोगाः शीघ्रं शीघ्रं स हन्यते||२२||
बलं विज्ञानमारोग्यं ग्रहणी मांसशोणितम् [३] | एतानि यस्य क्षीयन्ते [४] क्षिप्रं क्षिप्रं स हन्यते||२३||
आरोग्यं हीयते यस्य [५] प्रकृतिः परिहीयते। सहसा सहसा तस्य मृत्युर्हरति जीवितम्||२४||
तत्र श्लोक:-
इत्येतानि शरीराणि व्याधिमन्ति विवर्जयेत् |
न ह्येषु धीराः पश्यन्ति सिद्धिं काञ्चिदुपक्रमात्||२५||
पुष्पिका
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते इन्द्रियस्थाने कतमानिशरीरीयमिन्द्रियं नाम षष्ठोऽध्यायः||६||