श्लोक 1-2
अथातः पन्नरूपीयमिन्द्रियं व्याख्यास्यामः ||१||
इति ह स्माह भगवानात्रेयः||२||
श्लोक 3
दृष्ट्यां यस्य विजानीयात् पन्नरूपां कुमारिकाम्| प्रतिच्छायामयीमक्ष्णोर्नैनमिच्छेच्चिकित्सितुम्||३||
श्लोक 4
ज्योत्स्नायामातपे दीपे सलिलादर्शयोरपि|
अङ्गेषु विकृता यस्य च्छाया प्रेतस्तथैव [१] सः||४||
श्लोक 5-6
छिन्ना भिन्नाऽऽकुला च्छाया हीना वाऽप्यधिकाऽपि वा । नष्टा तन्वी द्विधा च्छिन्ना विकृता विशिरा च या||५||
एताश्चान्याश्च याः काश्चित् प्रतिच्छाया विगर्हिताः। सर्वा मुमूर्षतां ज्ञेया न चेल्लक्ष्यनिमित्तजाः||६||
श्लोक 7
संस्थानेन प्रमाणेन वर्णेन प्रभया तथा ।
छाया विवर्तते यस्य स्वस्थोऽपि प्रेत एव सः||७||
श्लोक 8-9
संस्थानमाकृतिर्ज्ञेया सुषमा विषमा च सा । मध्यमल्पं महच्चोक्तं प्रमाणं त्रिविधं नृणाम् ||८||
प्रतिप्रमाणसंस्थाना जलादर्शातपादिषु ।
छाया या सा प्रतिच्छाया च्छाया वर्णप्रभाश्रया||९||
श्लोक 10-13
खादीनां पञ्च पञ्चानां छाया विविधलक्षणाः । नाभसी निर्मला नीला सस्नेहा सप्रभेव च ||१०||
रूक्षा श्यावारुणा या तु वायवी सा हतप्रभा | विशुद्धरक्ता त्वाग्नेयी दीप्ताभा दर्शनप्रिया||११||
शुद्धवैदूर्यविमला सुस्निग्धा चाम्भसी मता|
तु स्थिरा स्निग्धा [१] घना श्लक्ष्णा श्यामा श्वेता च पार्थिवी||१२||
वायवी गर्हिता त्वासां चतस्रः स्युः सुखोदयाः [२] |
वायवी तु विनाशाय क्लेशाय महतेऽपि वा ||१३||
श्लोक 14-15
स्यात्तैजसी प्रभा सर्वा सा तु सप्तविधा स्मृता । रक्ता पीता सिता श्यावा हरिता पाण्डुराऽसिता||१४||
तासां याः स्युर्विकासिन्यः स्निग्धाश्च विपुलाश्च याः। ताः शुभा रूक्षमलिनाः सङ्क्षिप्ताश्चाशुभोदयाः [१] ||१५||
श्लोक 16-17
वर्णमाक्रामति च्छाया भास्तु [१] वर्णप्रकाशिनी | आसन्ना लक्ष्यते च्छाया भाः प्रकृष्टा [२] प्रकाशते||१६||
नाच्छायो नाप्रभः कश्चिद्विशेषाश्चिह्नयन्ति तु|
नृणां शुभाशुभोत्पत्तिं काले छायाप्रभाश्रयाः||१७||
श्लोक 18-20
कामलाऽक्ष्णोर्मुखं पूर्णं शङ्खयोर्मुक्तमांसता| सन्त्रासश्चोष्णगात्रत्वं [१] यस्य तं परिवर्जयेत्||१८||
उत्थाप्यमानः शयनात् प्रमोहं याति यो नरः | मुहुर्मुहुर्न सप्ताहं स जीवति विकत्थनः [२] ||१९||
संसृष्टा व्याधयो यस्य प्रतिलोमानुलोमगाः । व्यापन्ना ग्रहणी प्रायः सोऽर्धमासं न जीवति ||२०||
श्लोक 21-26
उपरुद्धस्य रोगेण कर्शितस्याल्पमश्नतः। बहु मूत्रपुरीषं स्याद्यस्य तं परिवर्जयेत्||२१||
दुर्बलो बहु भुङ्क्ते यः प्राग्भुक्तादन्नमातुरः [१] | अल्पमूत्रपुरीषश्च यथा प्रेतस्तथैव सः ||२२||
इष्टं च गुणसम्पन्नमन्नमश्नाति [२] यो नरः । शश्वच्च बलवर्णाभ्यां हीयते न स जीवति ||२३||
प्रकूजति प्रश्वसिति शिथिलं चातिसार्यते। बलहीनः पिपासार्तः शुष्कास्यो न स जीवति||२४||
ह्रस्वं च यः प्रश्वसिति व्याविद्धं स्पन्दते च यः । मृतमेव तमात्रेयो व्याचचक्षे पुनर्वसुः ||२५||
ऊर्ध्वं च यः प्रश्वसिति श्लेष्मणा चाभिभूयते । हीनवर्णबलाहारो यो नरो न स जीवति ||२६||
श्लोक 27-32
ऊर्ध्वाग्रे नयने यस्य मन्ये [१] चारतकम्पने । बलहीनः पिपासार्तः शुष्कास्यो न स जीवति ||२७||
यस्य गण्डावुपचितौ ज्वरकासौ च दारुणौ। शूली प्रद्वेष्टि चाप्यन्नं तस्मिन् कर्म न सिध्यति ||२८||
व्यावृत्तमूर्धजिह्वास्यो [२] भ्रुवौ यस्य च विच्युते| कण्टकैश्चाचिता जिह्वा यथा प्रेतस्तथैव सः||२९||
शेफश्चात्यर्थमुत्सिक्तं निःसृतौ वृषणौ भृशम्। अतश्चैव विपर्यासो विकृत्या प्रेतलक्षणम्||३०||
निचितं यस्य मांसं स्यात्त्वगस्थिष्वेव [३] दृश्यते । क्षीणस्यानश्नतस्तस्य मासमायुः परं भवेत् ||३१||
तत्र श्लोक:-
इदं लिङ्गमरिष्टाख्यमनेकमभिजज्ञिवान् । आयुर्वेदविदित्याख्यां लभते कुशलो जनः ||३२||
पुष्पिका
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते इन्द्रियस्थाने पन्नरूपीयमिन्द्रियं नाम सप्तमोऽध्यायः||७||