सद्योमरणीयमिन्द्रियम्

श्लोक 1-2

अथातः सद्योमरणीयमिन्द्रियं व्याख्यास्यामः||१||
इति ह स्माह भगवानात्रेयः||२||

श्लोक 3-20

सद्यस्तितिक्षतः प्राणाँल्लक्षणानि पृथक् पृथक्। अग्निवेश! प्रवक्ष्यामि संस्पृष्टो यैर्न जीवति||३||
वाताष्ठीला सुसंवृद्धा तिष्ठन्ती दारुणा हृदि तृष्णयाऽभिपरीतस्य सद्यो मुष्णाति जीवितम्||४||
पिण्डिके शिथिलीकृत्य जिह्मीकृत्य च नासिकाम्| वायुः शरीरे विचरन् सद्यो मुष्णाति जीवितम्||५||
भ्रुवौ यस्य च्युते स्थानादन्तर्दाहश्च दारुणः। तस्य हिक्काकरो रोगः सद्यो मुष्णाति जीवितम्||६||
क्षीणशोणितमांसस्य वायुरूर्ध्वगतिश्चरन्। उभे मन्ये समे यस्य सद्यो मुष्णाति जीवितम्||७||
अन्तरेण [१] गुदं गच्छन् नाभिं च सहसाऽनिलः| कृशस्य वङ्क्षणौ गृह्णन् सद्यो मुष्णाति जीवितम् ||८||
वितत्य पर्शुकाग्राणि गृहीत्वोरश्च मारुतः । स्तिमितस्यायताक्षस्य सद्यो मुष्णाति जीवितम्||९||
हृदयं च गुदं चोभे गृहीत्वा [२] मारुतो बली । दुर्बलस्य विशेषेण सद्यो मुष्णाति जीवितम्||१०||
वङ्क्षणं च गुदं चोभे गृहीत्वा मारुतो बली ।
श्वासं सञ्जनयञ्जन्तोः सद्यो मुष्णाति जीवितम्||११||
नाभिं मूत्रं बस्तिशीर्षं [३] पुरीषं चापि मारुतः। प्रच्छिन्नं [४] जनयञ्छूलं सद्यो मुष्णाति जीवितम्||१२||
भिद्येते वङ्क्षणौ यस्य वातशूलैः समन्ततः।
भिन्नं पुरीषं तृष्णा च सद्यः प्राणाञ्जहाति सः||१३||
आप्लुतं मारुतेनेह शरीरं यस्य केवलम्।
भिन्नं पुरीषं तृष्णा च सद्यो जह्यात् स जीवितम्||१४||
शरीरं शोफितं यस्य वाताशोफेन देहिनः।
भिन्नं पुरीषं तृष्णा च सद्यो जह्यात् स जीवितम्||१५||
आमाशयसमुत्थाना यस्य स्यात् परिकर्तिका भिन्नं पुरीषं तृष्णा च सद्यः प्राणाञ्जहाति सः ||१६||
पक्वाशयसमुत्थाना यस्य स्यात् परिकर्तिका| तृष्णा गुदग्रहश्चग्रः सद्यो जह्यात् स जीवितम् ||१७||
पक्वाशयमधिष्ठाय [५] हत्वा सञ्ज्ञां च मारुतः । कण्ठे घुघुरकं कृत्वा सद्यो हरति जीवितम्||१८||
दन्ताः कर्दमदिग्धाभा मुखं चूर्णकसन्निभम्| सिप्रायन्ते च गात्राणि लिङ्गं सद्यो मरिष्यतः||१९||
तृष्णाश्वासशिरोरोगमोहदौर्बल्यकूजनैः।
स्पृष्टः प्राणाञ्जहात्याशु शकृद्भेदेन चातुरः||२०||

श्लोक 21

तत्र श्लोक:-
एतानि खलु लिङ्गानि यः सम्यगवबुध्यते। स जीवितं च मर्त्यानां मरणं चावबुध्यते ||२१||

पुष्पिका

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते इन्द्रियस्थाने सद्योमरणीयमिन्द्रियं नाम दशमोऽध्यायः||१०||